TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

सूत्रस्थान - अध्याय २६

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय २६
षड्-विंशतिः सु-कर्मारैर् घटितानि यथा-विधि ।
शस्त्राणि रोम-वाहीनि बाहुल्येनाङ्गुलानि षट् ॥१॥

सु-रूपाणि सु-धाराणि सु-ग्रहाणि च कारयेत् ।
अ-करालानि सु-ध्मात-सु-तीक्ष्णाव् अर्तिते ऽयसि ॥२॥

समाहित-मुखाग्राणि नीलाम्भो-ज-च्छवीनि च ।
नामानुगत-रूपाणि सदा संनिहितानि च ॥३॥

स्वोन्मानार्ध-चतुर्थांश-फलान्य् एकैक-शो ऽपि च ।
प्रायो द्वि-त्राणि युञ्जीत तानि स्थान-विशेषतः ॥४॥

२६.४ - स्व-मानार्ध-चतुर्थांश- मण्डलाग्रं वृद्धि-पत्त्रम् उत्पलाध्य्-अर्ध-धारके ।
सर्पैषण्यौ वेतसाख्यं शरार्य्-आस्य-त्रि-कूर्चके ॥४-१- ॥
कुशास्यं साट-वदनम् अन्तर्-वक्त्रार्ध-चन्द्रके ।
व्रीहि-मुखं कुठारी च शलाकाङ्गुलि-शस्त्रके ॥४-(२) ॥
२६.४-(२)अव् कुशास्या साट-वदना २६.४-(२)ब्व् अन्तर्-वक्त्रार्ध-चन्द्रकम् २६.४-(२)ब्व् छन्न-वक्त्रार्ध-चन्द्रके २६.४-(२)ब्व् छन्न-वक्त्रार्ध-चन्द्रकम् बडिशं कर-पत्त्राख्यं कर्तरी नख-शस्त्रकम् ।
दन्त-लेखनकं सूच्यः कूर्चो नाम खजाह्वयम् ॥४-(३) ॥
आरा चतुर्-विधाकारा तथा स्यात् कर्ण-वेधनी ॥४-(४)अब् ॥
२६.४-(४)ब्व् तथा स्यात् कर्ण-वेधनम् मण्डलाग्रं फले तेषां तर्जन्य्-अन्तर्-नखाकृति ।
लेखने छेदने योज्यं पोथकी-शुण्डिकादिषु ॥५॥

२६.५ - मण्डलाग्रं फलं तेषां वृद्धि-पत्त्रं क्षुराकारं छेद-भेदन-पाटने ।
ऋज्व्-अग्रम् उन्नते शोफे गम्भीरे च तद् अन्य-था ॥६॥

२६.६ - गम्भीरे तु ततो ऽन्य-था नताग्रं पृष्ठतो दीर्घ-ह्रस्व-वक्त्रं यथाश्रयम् ।
उत्पलाध्य्-अर्ध-धाराख्ये भेदने छेदने तथा ॥७॥

२६.७ - ह्रस्व-वक्त्रं यथाशयम् २६.७ - ह्रस्व-वक्त्रं यथा-क्रमम् २६.७ - ह्रस्व-वक्त्रं यथा-यथम् २६.७ - ह्रस्व-वक्त्रे यथा-यथम् सर्पास्यं घ्राण-कर्णार्शश्-छेदने ऽर्धाङ्गुलं फले ।
गतेर् अन्वेषणे श्लक्ष्णा गण्डू-पद-मुखैषणी ॥८॥

भेदनार्थे ऽपरा सूची-मुखा मूल-निविष्ट-खा ।
वेतसं व्यधने स्राव्ये शरार्य्-आस्य-त्रि-कूर्चके ॥९॥

कुशाटा-वदने स्राव्ये द्व्य्-अङ्गुलं स्यात् तयोः फलम् ।
तद्-वद् अन्तर्-मुखं तस्य फलम् अध्य्-अर्धम् अङ्गुलम् ॥१०॥

२६.१०अच् कुशाटा वदने स्राव्ये अर्ध-चन्द्राननं चैतत् तथाध्य्-अर्धाङ्गुलं फले ।
व्रीहि-वक्त्रं प्रयोज्य च तत् सिरोदरयोर् व्यधे ॥११॥

पृथुः कुठारी गो-दन्त-सदृशार्धाङ्गुलानना ।
तयोर्ध्व-दण्डया विध्येद् उपर्य् अस्थ्नां स्थितां सिराम् ॥१२॥

ताम्री शलाका द्वि-मुखी मुखे कुरुबकाकृतिः ।
लिङ्ग-नाशं तया विध्येत् कुर्याद् अङ्गुलि-शस्त्रकम् ॥१३॥

२६.१३ - ताम्री शलाका द्वि-मुखा मुद्रिका-निर्गत-मुखं फले त्व् अर्धाङ्गुलायतम् ।
योगतो वृद्धि-पत्त्रेण मण्डलाग्रेण वा समम् ॥१४॥

तत् प्रदेशिन्य्-अग्र-पर्व-प्रमाणार्पण-मुद्रिकम् ।
सूत्र-बद्धं गल-स्रोतो-रोग-च्छेदन-भेदने ॥१५॥

२६.१५ - प्रमाणार्पित-मुद्रिकम् ग्रहणे शुण्डिकार्मादेर् बडिशं सु-नताननम् ।
छेदे ऽस्थ्नां करपत्त्रं तु खर-धारं दशाङ्गुलम् ॥१६॥

२६.१६ - बडिशः सु-नताननः विस्तारे द्व्य्-अङ्गुलं सूक्ष्म-दन्तं सु-त्सरु-बन्धनम् ।
स्नायु-सूत्र-कच-च्छेदे कर्तरी कर्तरी-निभा ॥१७॥

वक्रर्जु-धारं द्वि-मुखं नख-शस्त्रं नवाङ्गुलम् ।
सूक्ष्म-शल्योद्धृति-च्छेद-भेद-प्रच्छान-लेखने ॥१८॥

२६.१८ - भेद-प्रच्छन्न-लेखने एक-धारं चतुष्-कोणं प्रबद्धाकृति चैकतः ।
दन्त-लेखनकं तेन शोधयेद् दन्त-शर्कराम् ॥१९॥

२६.१९ - प्रवृद्धाकृति चैकतः वृत्ता गूढ-दृढाः पाशे तिस्रः सूच्यो ऽत्र सीवने ।
मांसलानां प्रदेशानां त्र्य्-अश्रा त्र्य्-अङ्गुलम् आयता ॥२०॥

अल्प-मांसास्थि-संधि-स्थ-व्रणानां द्व्य्-अङ्गुलायता ।
व्रीहि-वक्त्रा धनुर्-वक्रा पक्वामाशय-मर्मसु ॥२१॥

सा सार्ध-द्व्य्-अङ्गुला सर्व-वृत्तास् ताश् चतुर्-अङ्गुलाः ।
कूर्चो वृत्तैक-पीठ-स्थाः सप्ताष्टौ वा सु-बन्धनाः ॥२२॥

२६.२२ - सा सार्ध-द्व्य्-अङ्गुला सर्वा २६.२२ - वृत्तास् ताश् चतुर्-अङ्गुलाः स योज्यो नीलिका-व्यङ्ग-केश-शातेषु कुट्टने ।
अर्धाङ्गुल-मुखैर् वृत्तैर् अष्टाभिः कण्टकैः खजः ॥२३॥

२६.२३ - केश-शातन-कुट्टने पाणिभ्यां मथ्यमानेन घ्राणात् तेन हरेद् असृक् ।
व्यधनं कर्ण-पालीनां यूथिका-मुकुलाननम् ॥२४॥

२६.२४ - व्यधने कर्ण-पालीनां २६.२४ - यूथिका-मुकुलानना आरार्धाङ्गुल-वृत्तास्या तत्-प्रवेशा तथोर्ध्वतः ।
चतुर्-अश्रा तया विध्येच् छोफं पक्वाम-संशये ॥२५॥

कर्ण-पालीं च बहलां बहलायाश् च शस्यते ।
सूची त्रि-भाग-सुषिरा त्र्य्-अङ्गुला कर्ण-वेधनी ॥२६॥

२६.२६ - तस्या एव च शस्यते जलौकः-क्षार-दहन-काचोपल-नखादयः ।
अ-लौहान्य् अनु-शस्त्राणि तान्य् एवं च विकल्पयेत् ॥२७॥

अपराण्य् अपि यन्त्रादीन्य् उपयोगं च यौगिकम् ।
उत्पाट्य-पाट्य-सीव्यैष्य-लेख्य-प्रच्छान-कुट्टनम् ॥२८॥

२६.२८ - उत्पाट्य-पाट्य-सेव्यैष्य- २६.२८ - लेख्य-प्रच्छन्न-कुट्टनम् छेद्यं भेद्यं व्यधो मन्थो ग्रहो दाहश् च तत्-क्रियाः ।
कुण्ठ-खण्ड-तनु-स्थूल-ह्रस्व-दीर्घ-त्व-वक्र-ताः ॥२९॥

शस्त्राणां खर-धार-त्वम् अष्टौ दोषाः प्रकीर्तिताः ।
छेद-भेदन-लेख्यार्थं शस्त्रं वृन्त-फलान्तरे ॥३०॥

तर्जनी-मध्यमाङ्गुष्ठैर् गृह्णीयात् सु-समाहितः ।
विस्रावणानि वृन्ताग्रे तर्जन्य्-अङ्गुष्ठकेन च ॥३१॥

तल-प्रच्छन्न-वृन्ताग्रं ग्राह्यं व्रीहि-मुखं मुखे ।
मूलेष्व् आहरणार्थानि क्रिया-सौकर्यतो ऽपरम् ॥३२॥

२६.३२ - मूलेष्व् आहरणार्थे तु २६.३२ - मूलेष्व् आहरणार्थेषु स्यान् नवाङ्गुल-विस्तारः सु-घनो द्वा-दशाङ्गुलः ।
क्षौम-पत्त्रोर्ण-कौशेय-दुकूल-मृदु-चर्म-जः ॥३३॥

विन्यस्त-पाशः सु-स्यूतः सान्तरोर्णा-स्थ-शस्त्रकः ।
शलाका-पिहितास्यश् च शस्त्र-कोशः सु-संचयः ॥३४॥

जलौकसस् तु सुखिनां रक्त-स्रावाय योजयेत् ।
दुष्टाम्बु-मत्स्य-भेकाहि-शव-कोथ-मलोद्भवाः ॥३५॥

२६.३५ - दुष्टाम्बु-मत्स्य-भेकादि- रक्ताः श्वेता भृशं कृष्णाश् चपलाः स्थूल-पिच्छिलाः ।
इन्द्रायुध-विचित्रोर्ध्व-राजयो रोमशाश् च ताः ॥३६॥

स-विषा वर्जयेत् ताभिः कण्डू-पाक-ज्वर-भ्रमाः ।
विष-पित्तास्र-नुत् कार्यं तत्र शुद्धाम्बु-जाः पुनः ॥३७॥

२६.३७ - विष-पित्तास्र-जित् कार्यं २६.३७ - तत्र शुद्धाम्बु-संभवाः निर्-विषाः शैवल-श्यावा वृत्ता नीलोर्ध्व-राजयः ।
कषाय-पृष्ठास् तन्व्-अङ्ग्यः किञ्-चित्-पीतोदराश् च याः ॥३८॥

ता अप्य् अ-सम्यग्-वमनात् प्रततं च निपातनात् ।
सीदन्तिः सलिलं प्राप्य रक्त-मत्ता इति त्यजेत् ॥३९॥

२६.३९ - सीदन्ति सलिलं प्राप्य अथेतरा निशा-कल्क-युक्ते ऽम्भसि परिप्लुताः ।
अवन्ति-सोमे तक्रे वा पुनश् चाश्वासिता जले ॥४०॥

२६.४० - काञ्जिके कालशेये वा लागयेद् घृत-मृत्-स्तन्य-रक्त-शस्त्र-निपातनैः ।
पिबन्तीर् उन्नत-स्कन्धाश् छादयेन् मृदु-वाससा ॥४१॥

२६.४१ - लागयेत् पल-मृत्-स्तन्य- संपृक्ताद् दुष्ट-शुद्धास्राज् जलौका दुष्ट-शोणितम् ।
आदत्ते प्रथमं हंसः क्षीरं क्षीरोदकाद् इव ॥४२॥

२६.४२ - संसृष्टाद् दुष्ट-शुद्धास्राज् गुल्मार्शो-विद्रधीन् कुष्ठ-वात-रक्त-गलामयान् ।
नेत्र-रुग्-विष-वीसर्पान् शमयन्ति जलौकसः ॥४२-१- ॥
दंशस्य तोदे कण्ड्वां वा मोक्षयेद् वामयेच् च ताम् ।
पटु-तैलाक्त-वदनां श्लक्ष्ण-कण्डन-रूषिताम् ॥४३॥

२६.४३ - मोक्षयेद् वामयेच् च ताः २६.४३ - पटु-तैलाक्त-वदनाः २६.४३ - श्लक्ष्ण-कण्डन-रूक्षिताम् २६.४३ - श्लक्ष्ण-कण्डन-रूषिताः २६.४३ - श्लक्ष्ण-कण्डन-रूक्षिताः रक्षन् रक्त-मदाद् भूयः सप्ताहं ता न पातयेत् ।
पूर्व-वत् पटु-ता दार्ढ्यं सम्यग्-वान्ते जलौकसाम् ॥४४॥

क्लमो ऽति-योगान् मृत्युर् वा दुर्-वान्ते स्तब्ध-ता मदः ।
अन्य-त्रान्य-त्र ताः स्थाप्या घटे मृत्स्नाम्बु-गर्भिणि ॥४५॥

लालादि-कोथ-नाशार्थं स-विषाः स्युस् तद्-अन्वयात् ।
अ-शुद्धौ स्रावयेद् दंशान् हरिद्रा-गुड-माक्षिकैः ॥४६॥

शत-धौताज्य-पिचवस् ततो लेपाश् च शीतलाः ।
दुष्ट-रक्तापगमनात् सद्यो राग-रुजां शमः ॥४७॥

अ-शुद्धं चलितं स्थानात् स्थितं रक्तं व्रणाशये ।
व्य्-अम्ली-भवेत् पर्युषितं तस्मात् तत् स्रावयेत् पुनः ॥४८॥

२६.४८ - अम्ली-भवेत् पर्युषितं युञ्ज्यान् नालाबु-घटिका रक्ते पित्तेन दूषिते ।
तासाम् अनल-संयोगाद् युञ्ज्यात् तु कफ-वायुना ॥४९॥

२६.४९ - युञ्ज्याच् च कफ-वायुना कफेन दुष्टं रुधिरं न शृङ्गेण विनिर्हरेत् ।
स्कन्न-त्वाद् वात-पित्ताभ्यां दुष्टं शृङ्गेण निर्हरेत् ॥५०॥

२६.५० - न शृङ्गेणाति निर्हरेत् २६.५० - न शृङ्गेणाभिनिर्हरेत् गात्रं बद्ध्वोपरि दृढं रज्ज्वा पट्टेन वा समम् ।
स्नायु-संध्य्-अस्थि-मर्माणि त्यजन् प्रच्छानम् आचरेत् ॥५१॥

अधो-देश प्रविसृतैः पदैर् उपरि-गामिभिः ।
न गाढ-घन-तिर्यग्भिर् न पदे पदम् आचरन् ॥५२॥

२६.५२ - न पदे पदम् आचरेत् प्रच्छानेनैक-देश-स्थं ग्रथितं जल-जन्मभिः ।
हरेच् छृङ्गादिभिः सुप्तम् असृग् व्यापि सिरा-व्यधैः ॥५३॥

२६.५३ - ग्रन्थितं जल-जन्मभिः प्रच्छानं पिण्डिते वा स्याद् अवगाढे जलौकसः ।
त्वक्-स्थे ऽलाबु-घटी-शृङ्गं सिरैव व्यापके ऽसृजि ॥५४॥

वातादि-धाम वा शृङ्ग-जलौको-ऽलाबुभिः क्रमात् ।
स्रुतासृजः प्रदेहाद्यैः शीतैः स्याद् वायु-कोपतः ॥५५॥

स-तोद-कण्डुः शोफस् तं सर्पिषोष्णेन सेचयेत् ॥५५ऊ̆अब् ॥
२६.५५ऊ̆अव् स-तोद-कण्डू-शोफस् तं

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:01.0730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कनीयक

  • n. (सो. विदूरथ.) मत्स्यमत में ह्रदीकपुत्र । 
RANDOM WORD

Did you know?

रुक्मिणीस्वयंवर पोथीची पारायणे केली असता मुलींची लग्ने लवकर जमतात, हे खरे आहे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site