TransLiteral Foundation

सूत्रस्थान - अध्याय १८

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय १८
कफे विदध्याद् वमनं संयोगे वा कफोल्बणे ।
तद्-वद् विरेचनं पित्ते विशेषेण तु वामयेत् ॥१॥

नव-ज्वरातिसाराधः-पित्तासृग्-राज-यक्ष्मिणः ।
कुष्ठ-मेहापची-ग्रन्थि-श्लीपदोन्माद-कासिनः ॥२॥

श्वास-हृल्-लास-वीसर्प-स्तन्य-दोषोर्ध्व-रोगिणः ।
अ-वाम्या गर्भिणी रूक्षः क्षुधितो नित्य-दुःखितः ॥३॥

१८.३ - स्तन्य-रोगोर्ध्व-रोगिणः १८.३ - अ-वाम्या गर्भिणी-रूक्ष- १८.३ - क्षुधिता नित्य-दुःखिताः बाल-वृद्ध-कृश-स्थूल-हृद्-रोगि-क्षत-दुर्-बलाः ।
प्रसक्त-वमथु-प्लीह-तिमिर-कृमि-कोष्ठिनः ॥४॥

ऊर्ध्व-प्रवृत्त-वाय्व्-अस्र-दत्त-वस्ति-हत-स्वराः ।
मूत्राघात्य् उदरी गुल्मी दुर्-वमो ऽत्य्-अग्निर् अर्शसः ॥५॥

१८.५ - ऊर्ध्व-प्रवृत्त-वातास्र- उदावर्त-भ्रमाष्ठीला-पार्श्व-रुग्-वात-रोगिणः ।
ऋते विष-गरा-जीर्ण-विरुद्धाभ्यवहारतः ॥६॥

१८.६ - उदावर्त-श्रमाष्ठीला- प्रसक्त-वमथोः पूर्वे प्रायेणाम-ज्वरो ऽपि च ।
धूमान्तैः कर्मभिर् वर्ज्याः सर्वैर् एव त्व् अ-जीर्णिनः ॥७॥

विरेक-साध्या गुल्मार्शो-विस्फोट-व्यङ्ग-कामलाः ।
जीर्ण-ज्वरोदर-गर-च्छर्दि-प्लीह-हलीमकाः ॥८॥

१८.८ - जीर्ण-ज्वरोदर-च्छर्दि- १८.८ - प्लीहानाह-हलीमकाः १८.८ - प्लीह-पाण्डु-हलीमकाः विद्रधिस् तिमिरं काचः स्यन्दः पक्वाशय-व्यथा ।
योनि-शुक्राश्रया रोगाः कोष्ठ-गाः कृमयो व्रणाः ॥९॥

१८.९ - योनि-शुक्र-गता रोगाः १८.९ - योनि-शुक्राशया रोगाः वातास्रम् ऊर्ध्व-गं रक्तं मूत्राघातः शकृद्-ग्रहः ।
वाम्यश् च कुष्ठ-मेहाद्या न तु रेच्या नव-ज्वरी ॥१०॥

१८.१० - वातासृग् ऊर्ध्व-गं रक्तं १८.१० - न तु रेच्यो नव-ज्वरी अल्पाग्न्य्-अधो-ग-पित्तास्र-क्षत-पाय्व्-अतिसारिणः ।
स-शल्यास्थापित-क्रूर-कोष्ठाति-स्निग्ध-शोषिणः ॥११॥

१८.११ - स-शल्याभिहत-क्रूर- अथ साधारणे काले स्निग्ध-स्विन्नं यथा-विधि ।
श्वो-वम्यम् उत्क्लिष्ट-कफं मत्स्य-माष-तिलादिभिः ॥१२॥

१८.१२ - मत्स्य-मांस-तिलादिभिः १८.१२ - मांस-माष-तिलादिभिः निशां सुप्तं सु-जीर्णान्नं पूर्वाह्णे कृत-मङ्गलम् ।
निर्-अन्नम् ईषत्-स्निग्धं वा पेयया पीत-सर्पिषम् ॥१३॥

१८.१३ - निशां सुप्तं च जीर्णान्नं वृद्ध-बाला-बल-क्लीब-भीरून् रोगानुरोधतः ।
आ-कण्ठं पायितान् मद्यं क्षीरम् इक्षु-रसं रसम् ॥१४॥

१८.१४ - आ-कण्ठं पाययेन् मद्यं यथा-विकार-विहितां मधु-सैन्धव-संयुताम् ।
कोष्ठं विभज्य भैषज्य-मात्रां मन्त्राभिमन्त्रिताम् ॥१५॥

ब्रह्म-दक्षाश्वि-रुद्रेन्द्र-भू-चन्द्रार्कानिलानलाः ।
ऋषयः सौषधि-ग्रामा भूत-संघाश् च पान्तु वः ॥१६॥

रसायनम् इवर्षीणाम् अ-मराणाम् इवामृतम् ।
सुधेवोत्तम-नागानां भैषज्यम् इदम् अस्तु ते ॥१७॥

१८.१७ - रसायनम् इवर्षीणां १८.१७ - देवानाम् अमृतं यथा नमो भग-वते भैषज्य-गुरवे वैडूर्य-प्रभ-राजाय ॥१७-१॥

तथा-गतायार्हते सम्यक्-संबुद्धाय ॥१७-२॥

तद् यथा ॥१७-३॥

भैषज्ये भैषज्ये महा-भैषज्ये समुद्गते स्वाहा ॥१७-४॥

१८.१७-४व् भैषज्ये भैषज्ये महा-भैषज्ये भैषज्य-समुद्गते स्वाहा १८.१७-४व् भैषज्ये महा-भैषज्ये समुद्गते स्वाहा प्राङ्-मुखं पाययेत् पीतो मुहूर्तम् अनुपालयेत् ।
तन्-मना जात-हृल्-लास-प्रसेकश् छर्दयेत् ततः ॥१८॥

१८.१८ - प्राङ्-मुखं पाययेत् पीतं १८.१८ - प्राङ्-मुखं पाययेत् पीते १८.१८ - प्रसेकं छर्दयेत् ततः अङ्गुलीभ्याम् अन्-आयस्तो नालेन मृदुनाथ-वा ।
गल-ताल्व् अ-रुजन् वेगान् अ-प्रवृत्तान् प्रवर्तयन् ॥१९॥

१८.१९ - ना-प्रवृत्तान् प्रवर्तयन् १८.१९ - ना-प्रवृत्तान् प्रवर्तयेत् १८.१९ - अ-प्रवृत्तान् प्रवर्तयेत् प्रवर्तयन् प्रवृत्तांश् च जानु-तुल्यासने स्थितः ।
उभे पार्श्वे ललाटं च वमतश् चास्य धारयेत् ॥२०॥

प्रपीडयेत् तथा नाभिं पृष्ठं च प्रतिलोमतः ।
कफे तीक्ष्णोष्ण-कटुकैः पित्ते स्वादु-हिमैर् इति ॥२१॥

वमेत् स्निग्धाम्ल-लवणैः संसृष्टे मरुता कफे ।
पित्तस्य दर्शनं यावच् छेदो वा श्लेष्मणो भवेत् ॥२२॥

हीन-वेगः कणा-धात्री-सिद्धार्थ-लवणोदकैः ।
वमेत् पुनः पुनस् तत्र वेगानाम् अ-प्रवर्तनम् ॥२३॥

प्रवृत्तिः स-विबन्धा वा केवलस्यौषधस्य वा ।
अ-योगस् तेन निष्ठीव-कण्डू-कोठ-ज्वरादयः ॥२४॥

निर्-विबन्धं प्रवर्तन्ते कफ-पित्तानिलाः क्रमात् ।
सम्यग्-योगे ऽति-योगे तु फेन-चन्द्रक-रक्त-वत् ॥२५॥

१८.२५ - फेन-चन्द्रिक-रक्त-वत् मनः-प्रसादः स्वास्थ्यं चावस्थानं च स्वयं भवेत् ।
वैपरीत्यम् अ-योगानां न चाति-महती व्यथा ॥२५.१-१- ॥
१८.२५.१-१-अव् मनः-प्रसादः स्वास्थ्यं च १८.२५.१-१-ब्व् अवस्थानं स्वयं भवेत् वमितं क्षाम-ता दाहः कण्ठ-शोषस् तमो भ्रमः ।
घोरा वाय्व्-आमया मृत्युर् जीव-शोणित-निर्गमात् ॥२६॥

सम्यग्-योगेन वमितं क्षणम् आश्वास्य पाययेत् ।
धूम-त्रयस्यान्य-तमं स्नेहाचारम् अथादिशेत् ॥२७॥

ततः सायं प्रभाते वा क्षुद्-वान् स्नातः सुखाम्बुना ।
भुञ्जानो रक्त-शाल्य्-अन्नं भजेत् पेयादिकं क्रमम् ॥२८॥

१८.२८ - पुराण-रक्त-शालीनाम् १८.२८ - भुञ्जानो ऽन्नम् अपेक्षेत १८.२८ - अ-स्नेह-लवणोषणम् १८.२८ - पेयादिकम् इमं क्रमम् १८.२८ - पेयादिकम् इमं क्रमात् १८.२८ - पेयादिकम् अमुं क्रमम् पेयां विलेपीम् अ-कृतं कृतं च यूषं रसं त्रीन् उभयं तथैकम् ।
क्रमेण सेवेत नरो ऽन्न-कालान् प्रधान-मध्यावर-शुद्धि-शुद्धः ॥२९॥

यथाणुर् अग्निस् तृण-गो-मयाद्यैः संधुक्ष्यमाणो भवति क्रमेण ।
महान् स्थिरः सर्व-पचस् तथैव शुद्धस्य पेयादिभिर् अन्तराग्निः ॥३०॥

१८.३० - शुद्धस्य पेयादिभिर् अन्तर्-अग्निः जघन्य-मध्य-प्रवरे तु वेगाश् चत्वार इष्टा वमने षड् अष्टौ ।
दशैव ते द्वि-त्रि-गुणा विरेके प्रस्थस् तथा स्याद् द्वि-चतुर्-गुणश् च ॥३१॥

पित्तावसानं वमनं विरेकाद् अर्धं कफान्तं च विरेकम् आहुः ।
द्वि-त्रान् स-विट्कान् अपनीय वेगान् मेयं विरेके वमने तु पीतम् ॥३२॥

अथैनं वामितं भूयः स्नेह-स्वेदोपपादितम् ।
श्लेष्म-काले गते ज्ञात्वा कोष्ठं सम्यग् विरेचयेत् ॥३३॥

बहु-पित्तो मृदुः कोष्ठः क्षीरेणापि विरिच्यते ।
प्रभूत-मारुतः क्रूरः कृच्छ्राच् छ्यामादिकैर् अपि ॥३४॥

कषाय-मधुरैः पित्ते विरेकः कटुकैः कफे ।
स्निग्धोष्ण-लवणैर् वायाव् अ-प्रवृत्तौ तु पाययेत् ॥३५॥

उष्णाम्बु स्वेदयेद् अस्य पाणि-तापेन चोदरम् ।
उत्थाने ऽल्पे दिने तस्मिन् भुक्त्वान्ये-द्युः पुनः पिबेत् ॥३६॥

अ-दृढ-स्नेह-कोष्ठस् तु पिबेद् ऊर्ध्वं दशाहतः ।
भूयो ऽप्य् उपस्कृत-तनुः स्नेह-स्वेदैर् विरेचनम् ॥३७॥

यौगिकं सम्यग् आलोच्य स्मरन् पूर्वम् अतिक्रमम् ।
हृत्-कुक्ष्य्-अ-शुद्धिर् अ-रुचिर् उत्क्लेशः श्लेष्म-पित्तयोः ॥३८॥

१८.३८ - स्मरन् पूर्वम् अनुक्रमम् कण्डू-विदाहः पिटिकाह् पीनसो वात-विड्-ग्रहः ।
अ-योग-लक्षणं योगो वैपरीत्ये यथोदितात् ॥३९॥

१८.३९ - कण्डू-विदाहः पिटिका विट्-पित्त-कफ-वातेषु निःसृतेषु क्रमात् स्रवेत् ।
निः-श्लेष्म-पित्तम् उदकं श्वेतं कृष्णं स-लोहितम् ॥४०॥

मांस-धावन-तुल्यं वा मेदः-खण्डाभम् एव वा ।
गुद-निःसरणं तृष्णा भ्रमो नेत्र-प्रवेशनम् ॥४१॥

१८.४१ - श्रमो नेत्र-प्रवेशनम् भवन्त्य् अति-विरिक्तस्य तथाति-वमनामयाः ।
सम्यग्-विरिक्तम् एनं च वमनोक्तेन योजयेत् ॥४२॥

धूम-वर्ज्येन विधिना ततो वमित-वान् इव ।
क्रमेणान्नानि भुञ्जानो भजेत् प्रकृति-भोजनम् ॥४३॥

मन्द-वह्निम् अ-संशुद्धम् अ-क्षामं दोष-दुर्-बलम् ।
अ-दृष्ट-जीर्ण-लिङ्गं च लङ्घयेत् पीत-भेषजम् ॥४४॥

स्नेह-स्वेदौषधोत्क्लेश-सङ्गैर् इति न बाध्यते ।
संशोधनास्र-विस्राव-स्नेह-योजन-लङ्घनैः ॥४५॥

यात्य् अग्निर् मन्द-तां तस्मात् क्रमं पेयादिम् आचरेत् ।
स्रुताल्प-पित्त-श्लेष्माणं मद्य-पं वात-पैत्तिकम् ॥४६॥

पेयां न पाययेत् तेषां तर्पणादि-क्रमो हितः ।
अ-पक्वं वमनं दोशान् पच्यमानं विरेचनम् ॥४७॥

१८.४७ - तर्पणादिः क्रमो हितः १८.४७ - तर्पणादिः क्रमो मतः १८.४७ - तर्पणादि-क्रमो मतः निर्हरेद् वमनस्यातः पाकं न प्रतिपालयेत् ।
दुर्-बलो बहु-दोषश् च दोष-पाकेन यः स्वयम् ॥४८॥

विरिच्यते भेदनीयैर् भोज्यैस् तम् उपपादयेत् ।
दुर्-बलः शोधितः पूर्वम् अल्प-दोषः कृशो नरः ॥४९॥

१८.४९ - भोज्यैस् तं समुपाचरेत् अ-परिज्ञात-कोष्ठश् च पिबेन् मृद्व् अल्पम् औषधम् ।
वरं तद् अ-सकृत्-पीतम् अन्य-था संशयावहम् ॥५०॥

१८.५० - वरं तद् अ-सकृत्-पीतं १८.५० - नान्य-था संशयावहम् हरेद् बहूंश् चलान् दोषान् अल्पान् अल्पान् पुनः पुनः ।
दुर्-बलस्य मृदु-द्रव्यैर् अल्पान् संशमयेत् तु तान् ॥५१॥

क्लेशयन्ति चिरं ते हि हन्युर् वैनम् अ-निर्हृताः ।
मन्दाग्निं क्रूर-कोष्ठं च स-क्षार-लवणैर् घृतैः ॥५२॥

१८.५२ - हन्युश् चैनम् अ-निर्हृताः संधुक्षिताग्निं विजित-कफ-वातं च शोधयेत् ।
रूक्ष-बह्व्-अनिल-क्रूर-कोष्ठ-व्यायाम-शीलिनाम् ॥५३॥

दीप्ताग्नीनां च भैषज्यम् अ-विरेच्यैव जीर्यति ।
तेभ्यो वस्तिं पुरा दद्यात् ततः स्निग्धं विरेचनम् ॥५४॥

१८.५४ - तेभ्यो वस्तिं पुरो दद्यात् शकृन् निर्हृत्य वा किञ्-चित् तीक्ष्णाभिः फल-वर्तिभिः ।
प्रवृत्तं हि मलं स्निग्धो विरेको निर्हरेत् सुखम् ॥५५॥

विषाभिघात-पिटिका-कुष्ठ-शोफ-विसर्पिणः ।
कामला-पाण्डु-मेहार्तान् नाति-स्निग्धान् विशोधयेत् ॥५६॥

१८.५६ - नाति-स्निग्धान् विरेचयेत् सर्वान् स्नेह-विरेकैश् च रूक्षैस् तु स्नेह-भावितान् ।
कर्मणां वमनादीनां पुनर् अप्य् अन्तरे ऽन्तरे ॥५७॥

१८.५७ - रूक्षैश् च स्नेह-भावितान् स्नेह-स्वेदौ प्रयुञ्जीत स्नेहम् अन्ते बलाय च ।
मलो हि देहाद् उत्क्लेश्य ह्रियते वाससो यथा ॥५८॥

स्नेह-स्वेदैस् तथोत्क्लिष्टः शोध्यते शोधनैर् मलः ।
स्नेह-स्वेदाव् अन्-अभ्यस्य कुर्यात् संशोधनं तु यः ॥५९॥

१८.५९ - स्नेह-स्वेदैस् तथोत्क्लेश्य १८.५९ - ह्रियते शोधनैर् मलः दारु शुष्कम् इवान्-आमे शरीरं तस्य दीर्यते ॥५९ऊ̆अब् ॥
बुद्धि-प्रसादं बलम् इन्द्रियाणां धातु-स्थिर-त्वं ज्वलनस्य दीप्तिम् ।
चिराच् च पाकं वयसः करोति संशोधनं सम्यग्-उपास्यमानम् ॥६०ऊ̆ ॥
१८.६०ऊ̆अव् बुद्धेः प्रसादं बलम् इन्द्रियाणां १८.६०ऊ̆ब्व् धातोः स्थिर-त्वं ज्वलनस्य दीप्तिम्

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:58.3870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

थकळें कूळ

  • n  A bankrupt or much-impoverished family or person, considered as a debtor or a tenant. 
RANDOM WORD

Did you know?

नैमित्तिक पूजा म्हणजे काय? त्या कोणकोणत्या?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site