TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

सूत्रस्थान - अध्याय १६

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय १६
गुरु-शीत-सर-स्निग्ध-मन्द-सूक्ष्म-मृदु-द्रवम् ।
औषधं स्नेहनं प्रायो विपरीतं विरूक्षणम् ॥१॥

सर्पिर् मज्जा वसा तैलं स्नेहेषु प्रवरं मतम् ।
तत्रापि चोत्तमं सर्पिः संस्कारस्यानुवर्तनात् ॥२॥

माधुर्याद् अ-विदाहि-त्वाज् जन्माद्य् एव च शीलनात् ।
पित्त-घ्नास् ते यथा-पूर्वम् इतर-घ्ना यथोत्तरम् ॥३॥

घृतात् तैलं गुरु वसा तैलान् मज्जा ततो ऽपि च ।
द्वाभ्यां त्रिभिश् चतुर्भिस् तैर् यमकस् त्रि-वृतो महान् ॥४॥

स्वेद्य-संशोध्य-मद्य-स्त्री-व्यायामासक्त-चिन्तकाः ।
वृद्ध-बाला-बल-कृशा रूक्षाः क्षीणास्र-रेतसः ॥५॥

वातार्त-स्यन्द-तिमिर-दारुण-प्रतिबोधिनः ।
स्नेह्या न त्व् अति-मन्दाग्नि-तीक्ष्णाग्नि-स्थूल-दुर्-बलाः ॥६॥

ऊरु-स्तम्भातिसाराम-गल-रोग-गरोदरैः ।
मूर्छा-छर्द्य्-अ-रुचि-श्लेष्म-तृष्णा-मद्यैश् च पीडिताः ॥७॥

अपप्रसूता युक्ते च नस्ये वस्तौ विरेचने ।
तत्र धी-स्मृति-मेधादि-काङ्क्षिणां शस्यते घृतम् ॥८॥

१६.८ - तत्र धी-स्मृति-मेधाग्नि- ग्रन्थि-नाडी-कृमि-श्लेष्म-मेदो-मारुत-रोगिषु ।
तैलं लाघव-दार्ढ्यार्थि-क्रूर-कोष्ठेषु देहिषु ॥९॥

वातातपाध्व-भार-स्त्री-व्यायाम-क्षीण-धातुषु ।
रूक्ष-क्लेश-क्षमात्य्-अग्नि-वातावृत-पथेषु च ॥१०॥

शेषौ वसा तु संध्य्-अस्थि-मर्म-कोष्ठ-रुजासु च ।
तथा दग्धाहत-भ्रष्ट-योनि-कर्ण-शिरो-रुजि ॥११॥

तैलं प्रावृषि वर्षान्ते सर्पिर् अन्यौ तु माधवे ।
ऋतौ साधारणे स्नेहः शस्तो ऽह्नि वि-मले रवौ ॥१२॥

तैलं त्वरायां शीते ऽपि घर्मे ऽपि च घृतं निशि ।
निश्य् एव पित्ते पवने संसर्गे पित्त-वत्य् अपि ॥१३॥

निश्य् अन्य-था वात-कफाद् रोगाः स्युः पित्ततो दिवा ।
युक्त्यावचारयेत् स्नेहं भक्ष्याद्य्-अन्नेन वस्तिभिः ॥१४॥

नस्याभ्यञ्जन-गण्डूष-मूर्ध-कर्णाक्षि-तर्पणैः ।
रस-भेदैकक-त्वाभ्यां चतुः-षष्टिर् विचारणाः ॥१५॥

स्नेहस्यान्याभिभूत-त्वाद् अल्प-त्वाच् च क्रमात् स्मृताः ।
यथोक्त-हेत्व्-अ-भावाच् च नाच्छ-पेयो विचारणा ॥१६॥

१६.१६ - स्नेहस्यान्नाभिभूत-त्वाद् १६.१६ - नाच्छः पेयो विचारणा स्नेहस्य कल्पः स श्रेष्ठः स्नेह-कर्माशु-साधनात् ।
द्वाभ्यां चतुर्भिर् अष्टाभिर् यामैर् जीर्यन्ति याः क्रमात् ॥१७॥

ह्रस्व-मध्योत्तमा मात्रास् तास् ताभ्यश् च ह्रसीयसीम् ।
कल्पयेद् वीक्ष्य दोषादीन् प्राग् एव तु ह्रसीयसीम् ॥१८॥

ह्यस्तने जीर्ण एवान्ने स्नेहो ऽच्छः शुद्धये बहुः ।
शमनः क्षुद्-वतो ऽन्-अन्नो मध्य-मात्रश् च शस्यते ॥१९॥

बृंहणो रस-मद्याद्यैः स-भक्तो ऽल्पो हितः स च ।
बाल-वृद्ध-पिपासार्त-स्नेह-द्विण्-मद्य-शीलिषु ॥२०॥

१६.२० - स-भक्तो ऽल्पो हितश् च सः स्त्री-स्नेह-नित्य-मन्दाग्नि-सुखित-क्लेश-भीरुषु ।
मृदु-कोष्ठाल्प-दोषेषु काले चोष्णे कृशेषु च ॥२१॥

प्राङ्-मध्योत्तर-भक्तो ऽसाव् अधो-मध्योर्ध्व-देह-जान् ।
व्याधीञ् जयेद् बलं कुर्याद् अङ्गानां च यथा-क्रमम् ॥२२॥

वार्य् उष्णम् अच्छे ऽनुपिबेत् स्नेहे तत् सुख-पक्तये ।
आस्योपलेप-शुद्ध्यै च तौबरारुष्करे न तु ॥२३॥

मूर्छा दाहो ऽ-रतिस् तृष्णा जृम्भा मोह-भ्रम-क्लमाः ।
भवन्ति जीर्यति स्नेहे जीर्णः स्यात् तैः शमं गतैः ॥२३-१॥

जीर्णा-जीर्ण-विशङ्कायां पुनर् उष्णोदकं पिबेत् ।
तेनोद्गार-विशुद्धिः स्यात् ततश् च लघु-ता रुचिः ॥२४॥

भोज्यो ऽन्नं मात्रया पास्यन् श्वः पिबन् पीत-वान् अपि ।
द्रवोष्णम् अन्-अभिष्यन्दि नाति-स्निग्धम् अ-संकरम् ॥२५॥

उष्णोदकोपचारी स्याद् ब्रह्म-चारी क्षपाशयः ।
न वेग-रोधी व्यायाम-क्रोध-शोक-हिमातपान् ॥२६॥

प्रवात-यान-यानाध्व-भाष्यात्य्-आसन-संस्थितीः ।
नीचात्य्-उच्चोपधानाहः-स्वप्न-धूम-रजांसि च ॥२७॥

१६.२७ - भाष्याभ्यासन-संस्थितीः १६.२७ - भाष्यात्य्-अशन-संस्थितीः १६.२७ - भाष्यात्य्-आशन-संस्थितीः यान्य् अहानि पिबेत् तानि तावन्त्य् अन्यान्य् अपि त्यजेत् ।
सर्व-कर्मस्व् अयं प्रायो व्याधि-क्षीणेषु च क्रमः ॥२८॥

उपचारस् तु शमने कार्यः स्नेहे विरिक्त-वत् ।
त्र्य्-अहम् अच्छं मृदौ कोष्ठे क्रूरे सप्त-दिनं पिबेत् ॥२९॥

सम्यक्-स्निग्धो ऽथ-वा यावद् अतः सात्म्यी-भवेत् परम् ।
वातानुलोम्यं दीप्तो ऽग्निर् वर्चः स्निग्धम् अ-संहतम् ॥३०॥

स्नेहोद्वेगः क्लमः सम्यक्-स्निग्धे रूक्षे विपर्ययः ।
अति-स्निग्धे तु पाण्डु-त्वं घ्राण-वक्त्र-गुद-स्रवाः ॥३१॥

१६.३१ - मृदु-स्निग्धाङ्ग-ता ग्लानिः १६.३१ - स्नेहोद्वेगो ऽथ लाघवम् १६.३१ - स्नेहोद्वेगो ऽङ्ग-लाघवम् १६.३१ - अति-स्निग्धे तु पाण्डु-त्व- १६.३१ - वि-मलेन्द्रिय-ता सम्यक्- १६.३१ - घ्राण-वक्त्र-गुद-स्रवाः १६.३१ - स्निग्धे रूक्षे विपर्ययः अ-मात्रया-हितो ऽ-काले मिथ्याहार-विहारतः ।
स्नेहः करोति शोफार्शस्-तन्द्रा-स्तम्भ-वि-संज्ञ-ताः ॥३२॥

कण्डू-कुष्ठ-ज्वरोत्क्लेश-शूलानाह-भ्रमादिकान् ।
क्षुत्-तृष्णोल्लेखन-स्वेद-रूक्ष-पानान्न-भेषजम् ॥३३॥

१६.३३ - शूलानाह-बल-क्षयान् १६.३३ - क्षुत्-तृष्णोल्लेखनं स्वेदो १६.३३ - रूक्षं पानान्न-भेषजम् तक्रारिष्ट-खलोद्दाल-यव-श्यामाक-कोद्रवाः ।
पिप्पली-त्रि-फला-क्षौद्र-पथ्या-गो-मूत्र-गुग्गुलु ॥३४॥

१६.३४ - तक्रारिष्टं खलोद्दाल- १६.३४ - यव-श्यामाक-कोद्रवम् यथा-स्वं प्रति-रोगं च स्नेह-व्यापदि साधनम् ।
विरूक्षणे लङ्घन-वत् कृताति-कृत-लक्षणम् ॥३५॥

स्निग्ध-द्रवोष्ण-धन्वोत्थ-रस-भुक् स्वेदम् आचरेत् ।
स्निग्धस् त्र्य्-अहं स्थितः कुर्याद् विरेकं वमनं पुनः ॥३६॥

१६.३६ - रस-भुक् स्वेदम् आचरन् एकाहं दिनम् अन्यच् च कफम् उत्क्लेश्य तत्-करैः ।
मांसला मेदुरा भूरि-श्लेष्माणो विषमाग्नयः ॥३७॥

स्नेहोचिताश् च ये स्नेह्यास् तान् पूर्वं रूक्षयेत् ततः ।
संस्नेह्य शोधयेद् एवं स्नेह-व्यापन् न जायते ॥३८॥

अलं मलान् ईरयितुं स्नेहश् चा-सात्म्य-तां गतः ।
बाल-वृद्धादिषु स्नेह-परिहारा-सहिष्णुषु ॥३९॥

योगान् इमान् अन्-उद्वेगान् सद्यः-स्नेहान् प्रयोजयेत् ।
प्राज्य-मांस-रसास् तेषु पेया वा स्नेह-भर्जिता ॥४०॥

१६.४० - पेया वा स्नेह-भर्जिताः तिल-चूर्णश् च स-स्नेह-फाणितः कृशरा तथा ।
क्षीर-पेया घृताढ्योष्णा दध्नो वा स-गुडः सरः ॥४१॥

१६.४१ - तिल-चूर्णं च स-स्नेह- १६.४१ - फाणितं कृशरा तथा पेया च पञ्च-प्रसृता स्नेहैस् तण्डुल-पञ्चमैः ।
सप्तैते स्नेहनाः सद्यः स्नेहाश् च लवणोल्बणाः ॥४२॥

१६.४२ - स्नेहश् च लवणोल्बणः तद् ध्य् अभिष्यन्द्य् अ-रूक्षं च सूक्ष्मम् उष्णं व्यवायि च ।
गुडानूपामिष-क्षीर-तिल-माष-सुरा-दधि ॥४३॥

१६.४३ - तद् धि विष्यन्द्य् अ-रूक्षं च कुष्ठ-शोफ-प्रमेहेषु स्नेहार्थं न प्रकल्पयेत् ।
त्रि-फला-पिप्पली-पथ्या-गुग्गुल्व्-आदि-विपाचितान् ॥४४॥

स्नेहान् यथा-स्वम् एतेषां योजयेद् अ-विकारिणः ।
क्षीणानां त्व् आमयैर् अग्नि-देह-संधुक्षण-क्षमान् ॥४५॥

१६.४५ - क्षीणानाम् आमयैर् अग्नि- दीप्तान्तराग्निः परिशुद्ध-कोष्ठः प्रत्यग्र-धातुर् बल-वर्ण-युक्तः ।
दृढेन्द्रियो मन्द-जरः शतायुः स्नेहोपसेवी पुरुषः प्रदिष्टः ॥४६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:58.0270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

उलटपालट,उलटसुलट

  • See उलटापालट and उलटासुलट. 
RANDOM WORD

Did you know?

घर के मंदिर में कौनसी बातों का ध्यान रखना चाहिये?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.