TransLiteral Foundation

सूत्रस्थान - अध्याय २२

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय २२
चतुः-प्रकारो गण्डूषः स्निग्धः शमन-शोधनौ ।
रोपणश् च त्रयस् तत्र त्रिषु योज्याश् चलादिषु ॥१॥

अन्त्यो व्रण-घ्नः स्निग्धो ऽत्र स्वाद्व्-अम्ल-पटु-साधितैः ।
स्नेहैः संशमनस् तिक्त-कषाय-मधुरौषधैः ॥२॥

शोधनस् तिक्त-कट्व्-अम्ल-पटूष्णै रोपणः पुनः ।
कषाय-तिक्तकैस् तत्र स्नेहः क्षीरं मधूदकम् ॥३॥

शुक्तं मद्यं रसो मूत्रं धान्याम्लं च यथा-यथम् ।
कल्कैर् युक्तं विपक्वं वा यथा-स्पर्शं प्रयोजयेत् ॥४॥

दन्त-हर्षे दन्त-चाले मुख-रोगे च वातिके ।
सुखोष्णम् अथ-वा शीतं तिल-कल्कोदकं हितम् ॥५॥

गण्डूष-धारणे नित्यं तैलं मांस-रसो ऽथ-वा ।
ऊषा-दाहान्विते पाके क्षते चागन्तु-संभवे ॥६॥

२२.६ - क्षते वागन्तु-संभवे विषे क्षाराग्नि-दग्धे च सर्पिर् धार्यं पयो ऽथ-वा ।
वैशद्यं जनयत्य् आशु संदधाति मुखे व्रणान् ॥७॥

२२.७ - विष-क्षाराग्नि-दग्धे च २२.७ - वैशद्यं जनयत्य् आस्ये २२.७ - संदधाति मुख-व्रणान् दाह-तृष्णा-प्रशमनं मधु-गण्डूष-धारणम् ।
धान्याम्लम् आस्य-वैरस्य-मल-दौर्गन्ध्य-नाशनम् ॥८॥

तद् एवा-लवणं शीतं मुख-शोष-हरं परम् ।
आशु क्षाराम्बु-गण्डूषो भिनत्ति श्लेष्मणश् चयम् ॥९॥

सुखोष्णोदक-गण्डूषैर् जायते वक्त्र-लाघवम् ।
निवाते सातपे स्विन्न-मृदित-स्कन्ध-कन्धरः ॥१०॥

गण्डूषम् अ-पिबन् किञ्-चिद्-उन्नतास्यो विधारयेत् ।
कफ-पूर्णास्य-ता यावत् स्रवद्-घ्राणाक्ष-ताथ-वा ॥११॥

अ-संचार्यो मुखे पूर्णे गण्डूषः कवडो ऽन्य-था ॥११ऊ̆अब् ॥
२२.११ऊ̆अव् अ-संचार्यो मुखे ऽ-पूर्णे मन्या-शिरः-कर्ण-मुखाक्षि-रोगाः प्रसेक-कण्ठामय-वक्त्र-शोषाः ।
हृल्-लास-तन्द्रा-रुचि-पीनसाश् च साध्या विशेषात् कवड-ग्रहेण ॥१२॥

कल्को रस-क्रिया चूर्णस् त्रि-विधं प्रतिसारणम् ॥१३अब् ॥
२२.१३ - कल्को रस-क्रिया चूर्णं युञ्ज्यात् तत् कफ-रोगेषु गण्डूष-विहितौषधैः ।
मुखालेपस् त्रि-धा दोष-विष-हा वर्ण-कृच् च सः ॥१४॥

२२.१४ - मुख-लेपस् त्रि-धा दोष- व्याधेर् अपचयः पुष्टिर् वैशद्यं वक्त्र-लाघवम् ।
इन्द्रियाणां प्रसादश् च कवडे शुद्धि-लक्षणम् ॥१४.१-१॥

हीनाज् जाड्य-कफोत्क्लेशाव् अ-रस-ज्ञानम् एव च ।
अति-योगान् मुखे पाकः शोष-तृष्णा-रुचि-क्लमः ॥१४.१-२॥

२२.१४.१-२ - हीनाद् ध्मान-कफोत्लेशाव् उष्णो वात-कफे शस्तः शेषेष्व् अत्य्-अर्थ-शीतलः ।
त्रि-प्रमाणश् चतुर्-भाग-त्रि-भागार्धाङ्गुलोन्नतिः ॥१५॥

अ-शुष्कस्य स्थितिस् तस्य शुष्को दूषयति च्छविम् ।
तम् आर्द्रयित्वापनयेत् तद्-अन्ते ऽभ्यङ्गम् आचरेत् ॥१६॥

विवर्जयेद् दिवा-स्वप्न-भाष्याग्न्य्-आतप-शुक्-क्रुधः ।
न योज्यः पीनसे ऽ-जीर्णे दत्त-नस्ये हनु-ग्रहे ॥१७॥

२२.१७ - दत्ते नस्ये हनु-ग्रहे अ-रोचके जागरिते स तु हन्ति सु-योजितः ।
अ-काल-पलित-व्यङ्ग-वली-तिमिर-नीलिकाः ॥१८॥

२२.१८ - स च हन्ति सु-योजितः कोल-मज्जा वृषान् मूलं शाबरं गौर-सर्षपाः ।
सिंही-मूलं तिलाः कृष्णा दार्वी-त्वङ् निस्-तुषा यवाः ॥१९॥

दर्भ-मूल-हिमोशीर-शिरीष-मिशि-तण्डुलाः ।
कुमुदोत्पल-कल्हार-दूर्वा-मधुक-चन्दनम् ॥२०॥

कालीयक-तिलोशीर-मांसी-तगर-पद्मकम् ।
तालीश-गुन्द्रा-पुण्ड्राह्व-यष्टी-काश-नतागुरु ॥२१॥

इत्य् अर्धार्धोदिता लेपा हेमन्तादिषु षट् स्मृताः ।
-मुखालेपन-शीलानां दृढं भवति दर्शनम् ॥२२॥

वदनं चा-परिम्लानं श्लक्ष्णं तामरसोपमम् ।
अभ्यङ्ग-सेक-पिचवो वस्तिश् चेति चतुर्-विधम् ॥२३॥

मूर्ध-तैलं बहु-गुणं तद् विद्याद् उत्तरोत्तरम् ।
तत्राभ्यङ्गः प्रयोक्तव्यो रौक्ष्य-कण्डू-मलादिषु ॥२४॥

२२.२४ - रूक्ष-कण्डू-मलादिषु अरूंषिका-शिरस्-तोद-दाह-पाक-व्रणेषु तु ।
परिषेकः पिचुः केश-शात-स्फुटन-धूपने ॥२५॥

२२.२५ - दाह-पाक-व्रणेषु च नेत्र-स्तम्भे च वस्तिस् तु प्रसुप्त्य्-अर्दित-जागरे ।
नासास्य-शोषे तिमिरे शिरो-रोगे च दारुणे ॥२६॥

विधिस् तस्य निषण्णस्य पीठे जानु-समे मृदौ ।
शुद्धाक्त-स्विन्न-देहस्य दिनान्ते गव्य-माहिषम् ॥२७॥

द्वा-दशाङ्गुल-विस्तीर्णं चर्म-पट्टं शिरः-समम् ।
आ-कर्ण-बन्धन-स्थानं ललाटे वस्त्र-वेष्टिते ॥२८॥

चैल-वेणिकया बद्ध्वा माष-कल्केन लेपयेत् ।
ततो यथा-व्याधि शृतं स्नेहं कोष्णं निषेचयेत् ॥२९॥

ऊर्ध्वं केश-भुवो यावद् अङ्गुलं धारयेच् च तम् ।
आ-वक्त्र-नासिकोत्क्लेदाद् दशाष्टौ षट् चलादिषु ॥३०॥

२२.३० - आ-वक्त्र-नासिका-क्लेदाद् मात्रा-सहस्राण्य् अ-रुजे त्व् एकं स्कन्धादि मर्दयेत् ।
मुक्त-स्नेहस्य परमं सप्ताहं तस्य सेवनम् ॥३१॥

२२.३१ - सप्ताहं तस्य सेचनम् धारयेत् पूरणं कर्णे कर्ण-मूलं विमर्दयन् ।
रुजः स्यान् मार्दवं यावन् मात्रा-शतम् अ-वेदने ॥३२॥

२२.३२ - कर्ण-मूलं विमर्दयेत् यावत् पर्येति हस्ताग्रं दक्षिणं जानु-मण्डलम् ।
निमेषोन्मेष-कालेन समं मात्रा तु सा स्मृता ॥३३॥

२२.३३ - निमेषोन्मेष-मात्रेण कच-सदन-सित-त्व-पिञ्जर-त्वं परिफुटनं शिरसः समीर-रोगान् ।
जयति जनयतीन्द्रिय-प्रसादं स्वर-हनु-मूर्ध-बलं च मूर्ध-तैलम् ॥३४॥

२२.३४ - कच-शदन-सित-त्व-पिञ्जर-त्वं २२.३४ - कच-शदन-सित-त्व-पिञ्जर-त्व- २२.३४ - कच-सदन-सित-त्व-पिञ्जर-त्व-

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:59.2170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

charging guide

  • देवाण मार्गदर्शिका 
RANDOM WORD

Did you know?

चतुर्थीला चंद्र पाहूनच उपास का सोडतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site