TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

सूत्रस्थान - अध्याय २३

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय २३
सर्वेषाम् अक्षि-रोगाणाम् आदाव् आश्च्योतनं हितम् ।
रुक्-तोद-कण्डु-घर्षाश्रु-दाह-राग-निबर्हणम् ॥१॥

२३.१ - दाह-रोग-निबर्हणम् उष्णं वाते कफे कोष्णं तच् छीतं रक्त-पित्तयोः ।
निवात-स्थस्य वामेन पाणिनोन्मील्य लोचनम् ॥२॥

शुक्तौ प्रलम्बयान्येन पिचु-वर्त्या कनीनिके ।
दश द्वा-दश वा बिन्दून् द्व्य्-अङ्गुलाद् अवसेचयेत् ॥३॥

ततः प्रमृज्य मृदुना चैलेन कफ-वातयोः ।
अन्येन कोष्ण-पानीय-प्लुतेन स्वेदयेन् मृदु ॥४॥

अत्य्-उष्ण-तीक्ष्णं रुग्-राग-दृङ्-नाशायाक्षि-सेचनम् ।
अति-शीतं तु कुरुते निस्तोद-स्तम्भ-वेदनाः ॥५॥

कषाय-वर्त्म-तां घर्षं कृच्छ्राद् उन्मेषणं बहु ।
विकार-वृद्धिम् अत्य्-अल्पं संरम्भम् अ-परिस्रुतम् ॥६॥

गत्वा संधि-शिरो-घ्राण-मुख-स्रोतांसि भेषजम् ।
ऊर्ध्व-गान् नयने न्यस्तम् अपवर्तयते मलान् ॥७॥

२३.७ - गत्वा संधि-सिरा-घ्राण- अथाञ्जनं शुद्ध-तनोर् नेत्र-मात्राश्रये मले ।
पक्व-लिङ्गे ऽल्प-शोफाति-कण्डू-पैच्छिल्य-लक्षिते ॥८॥

२३.८ - पक्व-लिङ्गे ऽल्प-शोफार्ति- मन्द-घर्षाश्रु-रागे ऽक्ष्णि प्रयोज्यं घन-दूषिके ।
आर्ते पित्त-कफासृग्भिर् मारुतेन विशेषतः ॥९॥

लेखनं रोपणं दृष्टि-प्रसादनम् इति त्रि-धा ।
अञ्जनं लेखनं तत्र कषायाम्ल-पटूषणैः ॥१०॥

रोपणं तिक्तकैर् द्रव्यैः स्वादु-शीतैः प्रसादनम् ।
तीक्ष्णाञ्जनाभिसंतप्ते नयने तत् प्रसादनम् ॥११॥

प्रयुज्यमानं लभते प्रत्यञ्जन-समाह्वयम् ।
दशाङ्गुला तनुर् मध्ये शलाका मुकुलानना ॥१२॥

प्रशस्ता लेखने ताम्री रोपणे काल-लोह-जा ।
अङ्गुली च सुवर्णोत्था रूप्य-जा च प्रसादने ॥१३॥

पिण्डो रस-क्रिया चूर्णस् त्रि-धैवाञ्जन-कल्पना ।
गुरौ मध्ये लघौ दोषे तां क्रमेण प्रयोजयेत् ॥१४॥

२३.१४ - गुरु-मध्य-लघौ दोषे २३.१४ - ताः क्रमेण प्रयोजयेत् पिण्डस्य तीक्ष्ण-द्रव्यस्य मृदु-द्रव्य-कृतस्य च ।
हरेणु-मात्रं द्वि-गुणं प्रमाणं कथयन्त्य् अपि ॥१४-१॥

रस-क्रियायाम् अप्य् एवं विडङ्ग-फल-मात्रकम् ।
शलाकां द्वि-गुणां तीक्ष्णे चूर्णे च त्रि-गुणां मृदौ ॥१४-२॥

हरेणु-मात्रा पिण्डस्य वेल्ल-मात्रा रस-क्रिया ।
तीक्ष्णस्य द्वि-गुणं तस्य मृदुनश् चूर्णितस्य च ॥१५॥

२३.१५ - पिण्डो हरेणु-मात्रस् तु २३.१५ - हरेणु-मात्रं पिण्डस्य २३.१५ - हरेणु-मात्रः पिण्डस् तु २३.१५ - वल्ल-मात्रा रस-क्रिया २३.१५ - मृदोश् चूर्णाञ्जनस्य च द्वे शलाके तु तीक्ष्णस्य तिस्रस् तद्-इतरस्य च ।
निशि स्वप्ने न मध्याह्ने म्लाने नोष्ण-गभस्तिभिः ॥१६॥

२३.१६ - तिस्रः स्युर् इतरस्य च २३.१६ - निशि स्वप्नेन मध्याह्ने २३.१६ - पानान्नोष्ण-गभस्तिभिः अक्षि-रोगाय दोषाः स्युर् वर्धितोत्पीडित-द्रुताः ।
प्रातः सायं च तच्-छान्त्यै व्य्-अभ्रे ऽर्के ऽतो ऽञ्जयेत् सदा ॥१७॥

वदन्त्य् अन्ये तु न दिवा प्रयोज्यं तीक्ष्णम् अञ्जनम् ।
विरेक-दुर्-बलं चक्षुर् आदित्यं प्राप्य सीदति ॥१८॥

स्वप्नेन रात्रौ कालस्य सौम्य-त्वेन च तर्पिता ।
शीत-सात्म्या दृग् आग्नेयी स्थिर-तां लभते पुनः ॥१९॥

अत्य्-उद्रिक्ते बलासे तु लेखनीये ऽथ-वा गदे ।
कामम् अह्न्य् अपि नात्य्-उष्णे तीक्ष्णम् अक्ष्णि प्रयोजयेत् ॥२०॥

अश्मनो जन्म लोहस्य तत एव च तीक्ष्ण-ता ।
उपघातो ऽपि तेनैव तथा नेत्रस्य तेजसः ॥२१॥

न रात्राव् अपि शीते ऽति नेत्रे तीक्ष्णाञ्जनं हितम् ।
दोषम् अ-स्रावयेत् स्तब्धं कण्डू-जाड्यादि-कारि तत् ॥२२॥

२३.२२ - दोषम् अ-स्रावयत् स्तब्धं २३.२२ - दोषम् अ-स्रावयत् स्तम्भ- २३.२२ - दोषं न स्रावयेत् स्तम्भ- २३.२२ - कण्डू-जाड्यादि-कारि तत् नाञ्जयेद् भीत-वमित-विरिक्ताशित-वेगिते ।
क्रुद्ध-ज्वरित-तान्ताक्षि-शिरो-रुक्-शोक-जागरे ॥२३॥

अ-दृष्टे ऽर्के शिरः-स्नाते पीतयोर् धूम-मद्ययोः ।
अ-जीर्णे ऽग्न्य्-अर्क-संतप्ते दिवा-सुप्ते पिपासिते ॥२४॥

२३.२४ - दिवा-स्वप्ने पिपासिते अति-तीक्ष्ण-मृदु-स्तोक-बह्व्-अच्छ-घन-कर्कशम् ।
अत्य्-अर्थ-शीतलं तप्तम् अञ्जनं नावचारयेत् ॥२५॥

२३.२५ - अत्य्-अर्थं शीतलं तप्तम् अथानुमीलयन् दृष्टिम् अन्तः संचारयेच् छनैः ।
अञ्जिते वर्त्मनी किञ्-चिच् चालयेच् चैवम् अञ्जनम् ॥२६॥

तीक्ष्णं व्याप्नोति सहसा न चोन्मेष-निमेषणम् ।
निष्पीडनं च वर्त्मभ्यां क्षालनं वा समाचरेत् ॥२७॥

अपेतौषध-संरम्भं निर्वृतं नयनं यदा ।
व्याधि-दोषर्तु-योग्याभिर् अद्भिः प्रक्षालयेत् तदा ॥२८॥

दक्षिणाङ्गुष्ठकेनाक्षि ततो वामं स-वाससा ।
ऊर्ध्व-वर्त्मनि संगृह्य शोध्यं वामेन चेतरत् ॥२९॥

वर्त्म-प्राप्तो ऽञ्जनाद् दोषो रोगान् कुर्याद् अतो ऽन्य-था ।
कण्डू-जाड्ये ऽञ्जनं तीक्ष्णं धूमं वा योजयेत् पुनः ॥३०॥

२३.३० - वर्त्म-प्राप्ताञ्जनाद् दोषो २३.३० - रोगान् कुर्यात् ततो ऽन्य-था तीक्ष्णाञ्जनाभितप्ते तु चूर्णं प्रत्यञ्जनं हिमम् ॥३०ऊ̆अब् ॥
२३.३०ऊ̆अव् तीक्ष्णाञ्जनाति-तप्ते तु २३.३०ऊ̆अव् तीक्ष्णाञ्जनाति-योगे तु २३.३०ऊ̆ब्व् चूर्णं प्रत्यञ्जनं हितम्

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:59.5670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

धुंदाळा

  • धुंडाळणे ; धुंडाळा पहा . 
RANDOM WORD

Did you know?

गंध का लावावे ? अधिक माहिती द्यावी.
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site