TransLiteral Foundation

सूत्रस्थान - अध्याय ०१

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय ०१
रागादि-रोगान् सततानुषक्तान् अ-शेष-काय-प्रसृतान् अ-शेषान् ।
औत्सुक्य-मोहा-रति-दाञ् जघान यो ऽ-पूर्व-वैद्याय नमो ऽस्तु तस्मै ॥१॥

आयुः-कामयमानेन धर्मार्थ-सुख-साधनम् ।
आयुर्-वेदोपदेशेषु विधेयः परम् आदरः ॥२॥

ब्रह्मा स्मृत्वायुषो वेदं प्रजापतिम् अजिग्रहत् ।
सो ऽश्विनौ तौ सहस्राक्षं सो ऽत्रि-पुत्रादिकान् मुनीन् ॥३॥

ते ऽग्निवेशादिकांस् ते तु पृथक् तन्त्राणि तेनिरे ।
तेभ्यो ऽति-विप्रकीर्णेभ्यः प्रायः सार-तरोच्चयः ॥४॥

क्रियते ऽष्टाङ्ग-हृदयं नाति-संक्षेप-विस्तरम् ।
काय-बाल-ग्रहोर्ध्वाङ्ग-शल्य-दंष्ट्रा-जरा-वृषान् ॥५॥

१.५ - नाति-संक्षिप्त-विस्तृतम् अष्टाव् अङ्गानि तस्याहुश् चिकित्सा येषु संश्रिता ।
वायुः पित्तं कफश् चेति त्रयो दोषाः समासतः ॥६॥

विकृता-विकृता देहं घ्नन्ति ते वर्तयन्ति च ।
ते व्यापिनो ऽपि हृन्-नाभ्योर् अधो-मध्योर्ध्व-संश्रयाः ॥७॥

१.७ - घ्नन्ति ते वर्धयन्ति च वयो-ऽहो-रात्रि-भुक्तानां ते ऽन्त-मध्यादि-गाः क्रमात् ।
तैर् भवेद् विषमस् तीक्ष्णो मन्दश् चाग्निः समैः समः ॥८॥

कोष्ठः क्रूरो मृदुर् मध्यो मध्यः स्यात् तैः समैर् अपि ।
शुक्रार्तव-स्थैर् जन्मादौ विषेणेव विष-क्रिमेः ॥९॥

तैश् च तिस्रः प्रकृतयो हीन-मध्योत्तमाः पृथक् ।
सम-धातुः समस्तासु श्रेष्ठा निन्द्या द्वि-दोष-जाः ॥१०॥

१.१० - सम-धातुः समैस् तासु तत्र रूक्षो लघुः शीतः खरः सूक्ष्मश् चलो ऽनिलः ।
पित्तं स-स्नेह-तीक्ष्णोष्णं लघु विस्रं सरं द्रवम् ॥११॥

स्निग्धः शीतो गुरुर् मन्दः श्लक्ष्णो मृत्स्नः स्थिरः कफः ।
संसर्गः संनिपातश् च तद्-द्वि-त्रि-क्षय-कोपतः ॥१२॥

रसासृङ्-मांस-मेदो-ऽस्थि-मज्ज-शुक्राणि धातवः ।
सप्त दूष्या मला मूत्र-शकृत्-स्वेदादयो ऽपि च ॥१३॥

वृद्धिः समानैः सर्वेषां विपरीतैर् विपर्ययः ।
रसाः स्वाद्व्-अम्ल-लवण-तिक्तोषण-कषायकाः ॥१४॥

षड् द्रव्यम् आश्रितास् ते च यथा-पूर्वं बलावहाः ।
तत्राद्या मारुतं घ्नन्ति त्रयस् तिक्तादयः कफम् ॥१५॥

कषाय-तिक्त-मधुराः पित्तम् अन्ये तु कुर्वते ।
शमनं कोपनं स्वस्थ-हितं द्रव्यम् इति त्रि-धा ॥१६॥

उष्ण-शीत-गुणोत्कर्षात् तत्र वीर्यं द्वि-धा स्मृतम् ।
त्रि-धा विपाको द्रव्यस्य स्वाद्व्-अम्ल-कटुकात्मकः ॥१७॥

गुरु-मन्द-हिम-स्निग्ध-श्लक्ष्ण-सान्द्र-मृदु-स्थिराः ।
गुणाः स-सूक्ष्म-विशदा विंशतिः स-विपर्ययाः ॥१८॥

कालार्थ-कर्मणां योगो हीन-मिथ्याति-मात्रकः ।
सम्यग्-योगश् च विज्ञेयो रोगारोग्यैक-कारणम् ॥१९॥

रोगस् तु दोष-वैषम्यं दोष-साम्यम् अ-रोग-ता ।
निजागन्तु-विभागेन तत्र रोगा द्वि-धा स्मृताः ॥२०॥

तेषां काय-मनो-भेदाद् अधिष्ठानम् अपि द्वि-धा ।
रजस् तमश् च मनसो द्वौ च दोषाव् उदाहृतौ ॥२१॥

१.२१ - ऽत्र द्वौ दोषाव् उदाहृतौ दर्शन-स्पर्शन-प्रश्नैः परीक्षेत च रोगिणम् ।
रोगं निदान-प्राग्-रूप-लक्षणोपशयाप्तिभिः ॥२२॥

१.२२ - संपरीक्षेत रोगिणम् १.२२ - परीक्षेताथ रोगिणम् भूमि-देह-प्रभेदेन देशम् आहुर् इह द्वि-धा ।
जाङ्गलं वात-भूयिष्ठम् अनूपं तु कफोल्बणम् ॥२३॥

साधारणं सम-मलं त्रि-धा भू-देशम् आदिशेत् ।
क्षणादिर् व्याध्य्-अवस्था च कालो भेषज-योग-कृत् ॥२४॥

शोधनं शमनं चेति समासाद् औषधं द्वि-धा ।
शरीर-जानां दोषाणां क्रमेण परमौषधम् ॥२५॥

वस्तिर् विरेको वमनं तथा तैलं घृतं मधु ।
धी-धैर्यात्मादि-विज्ञानं मनो-दोषौषधं परम् ॥२६॥

भिषग् द्रव्याण्य् उपस्थाता रोगी पाद-चतुष्टयम् ।
चिकित्सितस्य निर्दिष्टं प्रत्य्-एकं तच् चतुर्-गुणम् ॥२७॥

दक्षस् तीर्थात्त-शास्त्रार्थो दृष्ट-कर्मा शुचिर् भिषक् ।
बहु-कल्पं बहु-गुणं संपन्नं योग्यम् औषधम् ॥२८॥

अनुरक्तः शुचिर् दक्षो बुद्धि-मान् परिचारकः ।
आढ्यो रोगी भिषग्-वश्यो ज्ञापकः सत्-त्व-वान् अपि ॥२९॥

साध्यो ऽ-साध्य इति व्याधिर् द्वि-धा तौ तु पुनर् द्वि-धा ।
सु-साध्यः कृच्छ्र-साध्यश् च याप्यो यश् चान्-उपक्रमः ॥२९-१- ॥
सर्वौषध-क्षमे देहे यूनः पुंसो जितात्मनः ।
अ-मर्म-गो ऽल्प-हेत्व्-अग्र-रूप-रूपो ऽन्-उपद्रवः ॥३०॥

अ-तुल्य-दूष्य-देशर्तु-प्रकृतिः पाद-संपदि ।
ग्रहेष्व् अनु-गुणेष्व् एक-दोष-मार्गो नवः सुखः ॥३१॥

शस्त्रादि-साधनः कृच्छ्रः संकरे च ततो गदः ।
शेष-त्वाद् आयुषो याप्यः पथ्याभ्यासाद् विपर्यये ॥३२॥

अन्-उपक्रम एव स्यात् स्थितो ऽत्य्-अन्त-विपर्यये ।
औत्सुक्य-मोहा-रति-कृद् दृष्ट-रिष्टो ऽक्ष-नाशनः ॥३३॥

त्यजेद् आर्तं भिषग्-भूपैर् द्विष्टं तेषां द्विषं द्विषम् ।
हीनोपकरणं व्यग्रम् अ-विधेयं गतायुषम् ॥३४॥

चण्डं शोकातुरं भीरुं कृत-घ्नं वैद्य-मानिनम् ।
तन्त्रस्यास्य परं चातो वक्ष्यते ऽध्याय-संग्रहः ॥३५॥

आयुष्-काम-दिनर्त्व्-ईहा-रोगान्-उत्पादन-द्रवाः ।
अन्न-ज्ञानान्न-संरक्षा-मात्रा-द्रव्य-रसाश्रयाः ॥३६॥

दोषादि-ज्ञान-तद्-भेद-तच्-चिकित्सा-द्व्य्-उपक्रमाः ।
शुद्ध्य्-आदि-स्नेहन-स्वेद-रेकास्थापन-नावनम् ॥३७॥

धूम-गण्डूष-दृक्-सेक-तृप्ति-यन्त्रक-शस्त्रकम् ।
सिरा-विधिः शल्य-विधिः शस्त्र-क्षाराग्नि-कर्मिकौ ॥३८॥

१.३८ - सिरा-व्यधः शल्य-विधिः सूत्र-स्थानम् इमे ऽध्यायास् त्रिंशच् छारीरम् उच्यते ।
गर्भावक्रान्ति-तद्-व्यापद्-अङ्ग-मर्म-विभागिकम् ॥३९॥

विकृतिर् दूत-जं षष्ठं निदानं सार्वरोगिकम् ।
ज्वरासृक्-श्वास-यक्ष्मादि-मदाद्य्-अर्शो-ऽतिसारिणाम् ॥४०॥

मूत्राघात-प्रमेहाणां विद्रध्य्-आद्य्-उदरस्य च ।
पाण्डु-कुष्ठानिलार्तानां वातास्रस्य च षो-डश ॥४१॥

चिकित्सितं ज्वरे रक्ते कासे श्वासे च यक्ष्मणि ।
वमौ मदात्यये ऽर्शःसु विषि द्वौ द्वौ च मूत्रिते ॥४२॥

विद्रधौ गुल्म-जठर-पाण्डु-शोफ-विसर्पिषु ।
कुष्ठ-श्वित्रानिल-व्याधि-वातास्रेषु चिकित्सितम् ॥४३॥

द्वा-विंशतिर् इमे ऽध्यायाः कल्प-सिद्धिर् अतः परम् ।
कल्पो वमेर् विरेकस्य तत्-सिद्धिर् वस्ति-कल्पना ॥४४॥

सिद्धिर् वस्त्य्-आपदां षष्ठो द्रव्य-कल्पो ऽत उत्तरम् ।
बालोपचारे तद्-व्याधौ तद्-ग्रहे द्वौ च भूत-गे ॥४५॥

उन्मादे ऽथ स्मृति-भ्रंशे द्वौ द्वौ वर्त्मसु संधिषु ।
दृक्-तमो-लिङ्ग-नाशेषु त्रयो द्वौ द्वौ च सर्व-गे ॥४६॥

कर्ण-नासा-मुख-शिरो-व्रणे भङ्गे भगन्दरे ।
ग्रन्थ्य्-आदौ क्षुद्र-रोगेषु गुह्य-रोगे पृथग् द्वयम् ॥४७॥

विषे भुजङ्गे कीटेषु मूषकेषु रसायने ।
चत्वारिंशो ऽन्-अपत्यानाम् अध्यायो बीज-पोषणः ॥४८॥

१.४८ - अध्यायो बीज-पोषणे इत्य् अध्याय-शतं विंशं षड्भिः स्थानैर् उदीरितम् ॥४८ऊ̆ ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:52.8500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ढणां

  • क्रि.वि. ढणढण - ढणां पहा . 
RANDOM WORD

Did you know?

मनुष्याच्या जीवनात स्नानाचे महत्त्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site