TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

सूत्रस्थान - अध्याय २१

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय २१
जत्रूर्ध्व-कफ-वातोत्थ-विकाराणाम् अ-जन्मने ।
उच्छेदाय च जातानां पिबेद् धूमं सदात्म-वान् ॥१॥

२१.१ - जत्रूर्ध्वं कफ-वातोत्थ- स्निग्धो मध्यः स तीक्ष्णश् च वाते वात-कफे कफे ।
योज्यो न रक्त-पित्तार्ति-विरिक्तोदर-मेहिषु ॥२॥

२१.२ - योज्यो न पित्त-रक्तार्त- २१.२ - योज्यो न पित्त-रक्तार्ति- तिमिरोर्ध्वानिलाध्मान-रोहिणी-दत्त-वस्तिषु ।
मत्स्य-मद्य-दधि-क्षीर-क्षौद्र-स्नेह-विषाशिषु ॥३॥

शिरस्य् अभिहते पाण्डु-रोगे जागरिते निशि ।
रक्त-पित्तान्ध्य-बाधिर्य-तृण्-मूर्छा-मद-मोह-कृत् ॥४॥

धूमो ऽ-काले ऽति-पीतो वा तत्र शीतो विधिर् हितः ।
क्षुत-जृम्भित-विण्-मूत्र-स्त्री-सेवा-शस्त्र-कर्मणाम् ॥५॥

२१.५ - स्त्री-सेवा-शस्त्र-कर्मिणाम् हासस्य दन्त-काष्ठस्य धूमम् अन्ते पिबेन् मृदुम् ।
कालेष्व् एषु निशाहार-नावनान्ते च मध्यमम् ॥६॥

२१.६ - हास्यस्य दन्त-काष्ठस्य निद्रा-नस्याञ्जन-स्नान-च्छर्दितान्ते विरेचनम् ।
वस्ति-नेत्र-सम-द्रव्यं त्रि-कोशं कारयेद् ऋजु ॥७॥

मूलाग्रे ऽङ्गुष्ठ-कोलास्थि-प्रवेशं धूम-नेत्रकम् ।
तीक्ष्ण-स्नेहन-मध्येषु त्रीणि चत्वारि पञ्च च ॥८॥

२१.८ - मूले ऽग्रे ऽङ्गुष्ठ-कोलास्थि- अङ्गुलानां क्रमात् पातुः प्रमाणेनाष्टकानि तत् ।
ऋजूपविष्टस् तच्-चेता विवृतास्यस् त्रि-पर्ययम् ॥९॥

२१.९ - ऋजूपविष्टस् तच्-चित्तो पिधाय च्छिद्रम् एकैकं धूमं नासिकया पिबेत् ।
प्राक् पिबेन् नासयोत्क्लिष्टे दोषे घ्राण-शिरो-गते ॥१०॥

२१.१० - दोषे नासा-शिरो-गते उत्क्लेशनार्थं वक्त्रेण विपरीतं तु कण्ठ-गे ।
मुखेनैवोद्वमेद् धूमं नासया दृग्-विघात-कृत् ॥११॥

आक्षेप-मोक्षैः पातव्यो धूमस् तु त्रिस् त्रिभिस् त्रिभिः ।
अह्नः पिबेत् सकृत् स्निग्धं द्विर् मध्यं शोधनं परम् ॥१२॥

२१.१२ - धूमस् त्रींस् त्रींस् त्रिभिस् त्रिभिः त्रिश् चतुर् वा मृदौ तत्र द्रव्याण्य् अगुरु गुग्गुलु ।
मुस्त-स्थौणेय-शैलेय-नलदोशीर-वालकम् ॥१३॥

२१.१३ - त्रिश् चतुर् वा मृदोस् तत्र वराङ्ग-कौन्ती-मधुक-बिल्व-मज्जैलवालुकम् ।
श्रीवेष्टकं सर्ज-रसो ध्यामकं मदनं प्लवम् ॥१४॥

शल्लकी कुङ्कुमं माषा यवाः कुन्दुरुकस् तिलाः ।
स्नेहः फलानां साराणां मेदो मज्जा वसा घृतम् ॥१५॥

शमने शल्लकी लाक्षा पृथ्वीका कमलोत्पलम् ।
न्यग्रोधोदुम्बराश्वत्थ-प्लक्ष-लोध्र-त्वचः सिता ॥१६॥

यष्टीमधु सुवर्णत्वक् पद्मकं रक्तयष्टिका ।
गन्धाश् चा-कुष्ठ-तगरास् तीक्ष्णे ज्योतिष्मती निशा ॥१७॥

दश-मूल-मनोह्वालं लाक्षा श्वेता फल-त्रयम् ।
गन्ध-द्रव्याणि तीक्ष्णानि गणो मूर्ध-विरेचनः ॥१८॥

२१.१८ - दश-मूल-मनोह्वाल- २१.१८ - लाक्षा श्वेता फल-त्रयम् जले स्थिताम् अहो-रात्रम् इषीकां द्वा-दशाङ्गुलाम् ।
पिष्टैर् धूमौषधैर् एवं पञ्च-कृत्वः प्रलेपयेत् ॥१९॥

२१.१९ - पिष्टैर् धूमौषधैर् एव वर्तिर् अङ्गुष्ठक-स्थूला यव-मध्या यथा भवेत् ।
छाया-शुष्कां वि-गर्भां तां स्नेहाभ्यक्तां यथा-यथम् ॥२०॥

२१.२० - वर्तिर् अङ्गुष्ठ-वत् स्थूला धूम-नेत्रार्पितां पातुम् अग्नि-प्लुष्टां प्रयोजयेत् ।
शराव-संपुट-च्छिद्रे नाडीं न्यस्य दशाङ्गुलाम् ॥२१॥

अष्टाङ्गुलां वा वक्त्रेण कास-वान् धूमम् आपिबेत् ॥२१ऊ̆अब् ॥
कासः श्वासः पीनसो वि-स्वर-त्वं पूतिर् गन्धः पाण्डु-ता केश-दोषः ।
कर्णास्याक्षि-स्राव-कण्ड्व्-अर्ति-जाड्यं तन्द्रा हिध्मा धूम-पं न स्पृशन्ति ॥२२ऊ̆ ॥
हृत्-कण्ठेन्द्रिय-संशुद्धिर् लाघवं शिरसः शमः ।
यथेरितानां दोषाणां सम्यक्-पीतस्य लक्षणम् ॥२२ऊ̆-१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:59.0730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

जुन्या माणसाचें लोणचें घालून ठेवीत असावें

  • जुनी माणसे ही अनुभवी असल्‍यामुळे त्‍यांचा वेळेवर उपयोग होईल अशा बुद्धीने त्‍यांना जपत असावे. 
RANDOM WORD

Did you know?

मृत व्यक्तीच्या तेराव्याचा विधी काय असतो? त्या दिवसाचे महत्व काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site