TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

सूत्रस्थान - अध्याय ०३

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय ०३
मासैर् द्वि-संख्यैर् माघाद्यैः क्रमात् षड् ऋतवः स्मृताः ।
शिशिरो ऽथ वसन्तश् च ग्रीष्मो वर्षा-शरद्-धिमाः ॥१॥

शिशिराद्यास् त्रिभिस् तैस् तु विद्याद् अयनम् उत्तरम् ।
आदानं च तद् आदत्ते नृणां प्रति-दिनं बलम् ॥२॥

तस्मिन् ह्य् अत्य्-अर्थ-तीक्ष्णोष्ण-रूक्षा मार्ग-स्व-भावतः ।
आदित्य-पवनाः सौम्यान् क्षपयन्ति गुणान् भुवः ॥३॥

तिक्तः कषायः कटुको बलिनो ऽत्र रसाः क्रमात् ।
तस्माद् आदानम् आग्नेयम् ऋतवो दक्षिणायनम् ॥४॥

वर्षादयो विसर्गश् च यद् बलं विसृजत्य् अयम् ।
सौम्य-त्वाद् अत्र सोमो हि बल-वान् हीयते रविः ॥५॥

मेघ-वृष्ट्य्-अनिलैः शीतैः शान्त-तापे मही-तले ।
स्निग्धाश् चेहाम्ल-लवण-मधुरा बलिनो रसाः ॥६॥

शीते ऽग्र्यं वृष्टि-घर्मे ऽल्पं बलं मध्यं तु शेषयोः ।
बलिनः शीत-संरोधाद् धेमन्ते प्रबलो ऽनलः ॥७॥

भवत्य् अल्पेन्धनो धातून् स पचेद् वायुनेरितः ।
अतो हिमे ऽस्मिन् सेवेत स्वाद्व्-अम्ल-लवणान् रसान् ॥८॥

दैर्घ्यान् निशानाम् एतर्हि प्रातर् एव बुभुक्षितः ।
अवश्य-कार्यं संभाव्य यथोक्तं शीलयेद् अनु ॥९॥

वात-घ्न-तैलैर् अभ्यङ्गं मूर्ध्नि तैलं विमर्दनम् ।
नियुद्धं कुशलैः सार्धं पादाघातं च युक्तितः ॥१०॥

३.१० - मूर्ध-तैलं विमर्दनम् कषायापहृत-स्नेहस् ततः स्नातो यथा-विधि ।
कुङ्कुमेन स-दर्पेण प्रदिग्धो ऽगुरु-धूपितः ॥११॥

रसान् स्निग्धान् पलं पुष्टं गौडम् अच्छ-सुरां सुराम् ।
गोधूम-पिष्ट-माषेक्षु-क्षीरोत्थ-विकृतीः शुभाः ॥१२॥

नवम् अन्नं वसां तैलं शौच-कार्ये सुखोदकम् ।
प्रावाराजिन-कौशेय-प्रवेणी-कौचवास्तृतम् ॥१३॥

३.१३ - प्रवेणी-कुथकास्तृतम् उष्ण-स्व-भावैर् लघुभिः प्रावृतः शयनं भजेत् ।
युक्त्यार्क-किरणान् स्वेदं पाद-त्राणं च सर्व-दा ॥१४॥

पीवरोरु-स्तन-श्रोण्यः स-मदाः प्रमदाः प्रियाः ।
हरन्ति शीतम् उष्णाङ्ग्यो धूप-कुङ्कुम-यौवनैः ॥१५॥

अङ्गार-ताप-संतप्त-गर्भ-भू-वेश्म-चारिणः ।
शीत-पारुष्य-जनितो न दोषो जातु जायते ॥१६॥

अयम् एव विधिः कार्यः शिशिरे ऽपि विशेषतः ।
तदा हि शीतम् अधिकं रौक्ष्यं चादान-काल-जम् ॥१७॥

कफश् चितो हि शिशिरे वसन्ते ऽर्कांशु-तापितः ।
हत्वाग्निं कुरुते रोगान् अतस् तं त्वरया त्यजेत् ॥१८॥

तीक्ष्णैर् वमन-नस्याद्यैर् लघु-रूक्षैश् च भोजनैः ।
व्यायामोद्वर्तनाघातैर् जित्वा श्लेष्माणम् उल्बणम् ॥१९॥

स्नातो ऽनुलिप्तः कर्पूर-चन्दनागुरु-कुङ्कुमैः ।
पुराण-यव-गोधूम-क्षौद्र-जाङ्गल-शूल्य-भुक् ॥२०॥

सहकार-रसोन्मिश्रान् आस्वाद्य प्रिययार्पितान् ।
प्रियास्य-सङ्ग-सुरभीन् प्रिया-नेत्रोत्पलाङ्कितान् ॥२१॥

सौमनस्य-कृतो हृद्यान् वयस्यैः सहितः पिबेत् ।
निर्गदान् आसवारिष्ट-सीधु-मार्द्वीक-माधवान् ॥२२॥

शृङ्गवेराम्बु साराम्बु मध्व्-अम्बु जलदाम्बु च ।
दक्षिणानिल-शीतेषु परितो जल-वाहिषु ॥२३॥

३.२३ - मध्व्-अम्बु जलदाम्बु वा अ-दृष्ट-नष्ट-सूर्येषु मणि-कुट्टिम-कान्तिषु ।
परपुष्ट-विघुष्टेषु काम-कर्मान्त-भूमिषु ॥२४॥

३.२४ - अ-दृष्टा-नष्ट-सूर्येषु विचित्र-पुष्प-वृक्षेषु काननेषु सु-गन्धिषु ।
गोष्ठी-कथाभिश् चित्राभिर् मध्याह्नं गमयेत् सुखी ॥२५॥

गुरु-शीत-दिवा-स्वप्न-स्निग्धाम्ल-मधुरांस् त्यजेत् ।
तीक्ष्णांशुर् अति-तीक्ष्णांशुर् ग्रीष्मे संक्षिपतीव यत् ॥२६॥

३.२६ - स्नेहम् अर्को ऽति-तीक्ष्णांशुर् प्रत्य्-अहं क्षीयते श्लेष्मा तेन वायुश् च वर्धते ।
अतो ऽस्मिन् पटु-कट्व्-अम्ल-व्यायामार्क-करांस् त्यजेत् ॥२७॥

भजेन् मधुरम् एवान्नं लघु स्निग्धं हिमं द्रवम् ।
सु-शीत-तोय-सिक्ताङ्गो लिह्यात् सक्तून् स-शर्करान् ॥२८॥

मद्यं न पेयं पेयं वा स्व्-अल्पं सु-बहु-वारि वा ।
अन्य-था शोष-शैथिल्य-दाह-मोहान् करोति तत् ॥२९॥

३.२९ - अन्य-था शोफ-शैथिल्य- कुन्देन्दु-धवलं शालिम् अश्नीयाज् जाङ्गलैः पलैः ।
पिबेद् रसं नाति-घनं रसालां राग-खाण्डवौ ॥३०॥

३.३० - कुन्देन्दु-धवलाञ् छालीन् ३.३० - रसालां राग-खाडवौ ३.३० - रसालां राग-षाडवौ पानकं पञ्च-सारं वा नव-मृद्-भाजने स्थितम् ।
मोच-चोच-दलैर् युक्तं साम्लं मृन्-मय-शुक्तिभिः ॥३१॥

३.३१ - नव-मृद्-भाजन-स्थितम् पाटला-वासितं चाम्भः स-कर्पूरं सु-शीतलम् ।
शशाङ्क-किरणान् भक्ष्यान् रजन्यां भक्षयन् पिबेत् ॥३२॥

स-सितं माहिषं क्षीरं चन्द्र-नक्षत्र-शीतलम् ।
अभ्रङ्-कष-महा-शाल-ताल-रुद्धोष्ण-रश्मिषु ॥३३॥

वनेषु माधवी-श्लिष्ट-द्राक्षा-स्तबक-शालिषु ।
सु-गन्धि-हिम-पानीय-सिच्यमान-पटालिके ॥३४॥

कायमाने चिते चूत-प्रवाल-फल-लुम्बिभिः ।
कदली-दल-कल्हार-मृणाल-कमलोत्पलैः ॥३५॥

कोमलैः कल्पिते तल्पे हसत्-कुसुम-पल्लवे ।
मध्यन्-दिने ऽर्क-तापार्तः स्वप्याद् धारा-गृहे ऽथ-वा ॥३६॥

पुस्त-स्त्री-स्तन-हस्तास्य-प्रवृत्तोशीर-वारिणि ।
निशा-कर-कराकीर्णे सौध-पृष्ठे निशासु च ॥३७॥

आसना स्वस्थ-चित्तस्य चन्दनार्द्रस्य मालिनः ।
निवृत्त-काम-तन्त्रस्य सु-सूक्ष्म-तनु-वाससः ॥३८॥

जलार्द्रास् ताल-वृन्तानि विस्तृताः पद्मिनी-पुटाः ।
उत्क्षेपाश् च मृदूत्क्षेपा जल-वर्षि-हिमानिलाः ॥३९॥

कर्पूर-मल्लिका-माला हाराः स-हरि-चन्दनाः ।
मनो-हर-कलालापाः शिशवः सारिकाः शुकाः ॥४०॥

मृणाल-वलयाः कान्ताः प्रोत्फुल्ल-कमलोज्ज्वलाः ।
जङ्गमा इव पद्मिन्यो हरन्ति दयिताः क्लमम् ॥४१॥

आदान-ग्लान-वपुषाम् अग्निः सन्नो ऽपि सीदति ।
वर्षासु दोषैर् दुष्यन्ति ते ऽम्बु-लम्बाम्बु-दे ऽम्बरे ॥४२॥

३.४२ - आदान-म्लान-वपुषाम् स-तुषारेण मरुता सहसा शीतलेन च ।
भू-बाष्पेणाम्ल-पाकेन मलिनेन च वारिणा ॥४३॥

वह्निनैव च मन्देन तेष्व् इत्य् अन्यो-ऽन्य-दूषिषु ।
भजेत् साधारणं सर्वम् ऊष्मणस् तेजनं च यत् ॥४४॥

आस्थापनं शुद्ध-तनुर् जीर्णं धान्यं रसान् कृतान् ।
जाङ्गलं पिशितं यूषान् मध्व्-अरिष्टं चिरन्-तनम् ॥४५॥

मस्तु सौवर्चलाढ्यं वा पञ्च-कोलावचूर्णितम् ।
दिव्यं कौपं शृतं चाम्भो भोजनं त्व् अति-दुर्-दिने ॥४६॥

३.४६ - मस्तु सौवर्चलाढ्यं च व्यक्ताम्ल-लवण-स्नेहं संशुष्कं क्षौद्र-वल् लघु ।
अ-पाद-चारी सुरभिः सततं धूपिताम्बरः ॥४७॥

हर्म्य-पृष्ठे वसेद् बाष्प-शीत-सीकर-वर्जिते ।
नदी-जलोद-मन्थाहः-स्वप्नायासातपांश् त्यजेत् ॥४८॥

वर्षा-शीतोचिताङ्गानां सहसैवार्क-रश्मिभिः ।
तप्तानां संचितं वृष्टौ पित्तं शरदि कुप्यति ॥४९॥

तज्-जयाय घृतं तिक्तं विरेको रक्त-मोक्षणम् ।
तिक्तं स्वादु कषायं च क्षुधितो ऽन्नं भजेल् लघु ॥५०॥

शालि-मुद्ग-सिता-धात्री-पटोल-मधु-जाङ्गलम् ।
तप्तं तप्तांशु-किरणैः शीतं शीतांशु-रश्मिभिः ॥५१॥

समन्ताद् अप्य् अहो-रात्रम् अगस्त्योदय-निर्-विषम् ।
शुचि हंसोदकं नाम निर्-मलं मल-जिज् जलम् ॥५२॥

नाभिष्यन्दि न वा रूक्षं पानादिष्व् अमृतोपमम् ।
चन्दनोशीर-कर्पूर-मुक्ता-स्रग्-वसनोज्ज्वलः ॥५३॥

सौधेषु सौध-धवलां चन्द्रिकां रजनी-मुखे ।
तुषार-क्षार-सौहित्य-दधि-तैल-वसातपान् ॥५४॥

तीक्ष्ण-मद्य-दिवा-स्वप्न-पुरो-वातान् परित्यजेत् ।
शीते वर्षासु चाद्यांस् त्रीन् वसन्ते ऽन्त्यान् रसान् भजेत् ॥५५॥

स्वादुं निदाघे शरदि स्वादु-तिक्त-कषायकान् ।
शरद्-वसन्तयो रूक्षं शीतं घर्म-घनान्तयोः ॥५६॥

अन्न-पानं समासेन विपरीतम् अतो ऽन्य-दा ।
नित्यं सर्व-रसाभ्यासः स्व-स्वाधिक्यम् ऋताव् ऋतौ ॥५७॥

ऋत्वोर् अन्त्यादि-सप्ताहाव् ऋतु-संधिर् इति स्मृतः ।
तत्र पूर्वो विधिस् त्याज्यः सेवनीयो ऽपरः क्रमात् ॥५८॥

३.५८ - ऋत्वोर् अन्त्यादि-सप्ताहाद् अ-सात्म्य-जा हि रोगाः स्युः सहसा त्याग-शीलनात् ॥५८ऊ̆ ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:53.1930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

टिवचा

  • टोंचणें मध्यें पहा . 
RANDOM WORD

Did you know?

I'm not able to locate this Mahakurma PuraNa vAkhya
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.