TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

सूत्रस्थान - अध्याय १०

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय १०
क्ष्माम्भो-ऽग्नि-क्ष्माम्बु-तेजः-ख-वाय्व्-अग्न्य्-अनिल-गो-ऽनिलैः ।
द्वयोल्बणैः क्रमाद् भूतैर् मधुरादि-रसोद्भवः ॥१॥

तेषां विद्याद् रसं स्वादुं यो वक्त्रम् अनुलिम्पति ।
आस्वाद्यमानो देहस्य ह्लादनो ऽक्ष-प्रसादनः ॥२॥

१०.२ - यो वक्त्रम् उपलिम्पति प्रियः पिपीलिकादीनाम् अम्लः क्षालयते मुखम् ।
हर्षणो रोम-दन्तानाम् अक्षि-भ्रुव-निकोचनः ॥३॥

१०.३ - अम्लः स्रावयते मुखम् लवणः स्यन्दयत्य् आस्यं कपोल-गल-दाह-कृत् ।
तिक्तो विशदयत्य् आस्यं रसनं प्रतिहन्ति च ॥४॥

१०.४ - रसनां प्रतिहन्ति च उद्वेजयति जिह्वाग्रं कुर्वंश् चिमिचिमां कटुः ।
स्रावयत्य् अक्षि-नासास्यं कपोलं दहतीव च ॥५॥

कषायो जडयेज् जिह्वां कण्ठ-स्रोतो-विबन्ध-कृत् ।
रसानाम् इति रूपाणि कर्माणि मधुरो रसः ॥६॥

आ-जन्म-सात्म्यात् कुरुते धातूनां प्रबलं बलम् ।
बाल-वृद्ध-क्षत-क्षीण-वर्ण-केशेन्द्रियौजसाम् ॥७॥

प्रशस्तो बृंहणः कण्ठ्यः स्तन्य-संधान-कृद् गुरुः ।
आयुष्यो जीवनः स्निग्धः पित्तानिल-विषापहः ॥८॥

कुरुते ऽत्य्-उपयोगेन स मेदः-श्लेष्म-जान् गदान् ।
स्थौल्याग्नि-साद-संन्यास-मेह-गण्डार्बुदादिकान् ॥९॥

१०.९ - स मेदः-कफ-जान् गदान् अम्लो ऽग्नि-दीप्ति-कृत् स्निग्धो हृद्यः पाचन-रोचनः ।
उष्ण-वीर्यो हिम-स्पर्शः प्रीणनः क्लेदनो लघुः ॥१०॥

१०.१० - उष्ण-वीर्यो हिमः स्पर्शे १०.१० - प्रीणनो भेदनो लघुः करोति कफ-पित्तास्रं मूढ-वातानुलोमनः ।
सो ऽत्य्-अभ्यस्तस् तनोः कुर्याच् छैथिल्यं तिमिरं भ्रमम् ॥११॥

१०.११ - मूढ-वातानुलोमनम् कण्डू-पाण्डु-त्व-वीसर्प-शोफ-विस्फोट-तृड्-ज्वरान् ।
लवणः स्तम्भ-संघात-बन्ध-विध्मापनो ऽग्नि-कृत् ॥१२॥

स्नेहनः स्वेदनस् तीक्ष्णो रोचनश् छेद-भेद-कृत् ।
सो ऽति-युक्तो ऽस्र-पवनं खलतिं पलितं वलीम् ॥१३॥

तृट्-कुष्ठ-विष-वीसर्पान् जनयेत् क्षपयेद् बलम् ।
तिक्तः स्वयम् अ-रोचिष्णुर् अ-रुचिं कृमि-तृड्-विषम् ॥१४॥

कुष्ठ-मूर्छा-ज्वरोत्क्लेश-दाह-पित्त-कफाञ् जयेत् ।
क्लेद-मेदो-वसा-मज्ज-शकृन्-मूत्रोपशोषणः ॥१५॥

लघुर् मेध्यो हिमो रूक्षः स्तन्य-कण्ठ-विशोधनः ।
धातु-क्षयानिल-व्याधीन् अति-योगात् करोति सः ॥१६॥

१०.१६ - धातु-क्षयं चल-व्याधीन् कटुर् गलामयोदर्द-कुष्ठालसक-शोफ-जित् ।
व्रणावसादनः स्नेह-मेदः-क्लेदोपशोषणः ॥१७॥

दीपनः पाचनो रुच्यः शोधनो ऽन्नस्य शोषणः ।
छिनत्ति बन्धान् स्रोतांसि विवृणोति कफापहः ॥१८॥

१०.१८ - शोधनो ऽन्नस्य हाषणः कुरुते सो ऽति-योगेन तृष्णां शुक्र-बल-क्षयम् ।
मूर्छाम् आकुञ्चनं कम्पं कटी-पृष्ठादिषु व्यथाम् ॥१९॥

१०.१९ - कुरुते सो ऽति-वेगेन कषायः पित्त-कफ-हा गुरुर् अस्र-विशोधनः ।
पीडनो रोपणः शीतः क्लेद-मेदो-विशोषणः ॥२०॥

आम-संस्तम्भनो ग्राही रूक्षो ऽति त्वक्-प्रसादनः ।
करोति शीलितः सो ऽति विष्टम्भाध्मान-हृद्-रुजः ॥२१॥

तृट्-कार्श्य-पौरुष-भ्रंश-स्रोतो-रोध-मल-ग्रहान् ।
घृत-हेम-गुडाक्षोट-मोच-चोच-परूषकम् ॥२२॥

१०.२२ - स्रोतो-रोध-गल-ग्रहान् १०.२२ - स्रोतो-बन्ध-मल-ग्रहान् अभीरु-वीरा-पनस-राजादन-बला-त्रयम् ।
मेदे चतस्रः पर्णिन्यो जीवन्ती जीवकर्षभौ ॥२३॥

मधूकं मधुकं बिम्बी विदारी श्रावणी-युगम् ।
क्षीरशुक्ला तुकाक्षीरी क्षीरिण्यौ काश्मरी सहे ॥२४॥

१०.२४ - क्षीरशुक्ला तवक्षीरी क्षीरेक्षु-गोक्षुर-क्षौद्र-द्राक्षादिर् मधुरो गणः ।
अम्लो धात्री-फलाम्लीका-मातुलुङ्गाम्ल-वेतसम् ॥२५॥

दाडिमं रजतं तक्रं चुक्रं पालेवतं दधि ।
आम्रम् आम्रातकं भव्यं कपित्थं करमर्दकम् ॥२६॥

वृक्षाम्ल-कोल-लिकुच-कोशाम्लातक-धन्वनम् ।
मस्तु-धान्याम्ल-मद्यानि जम्बीरं तिल-कण्टकम् ॥२६-१॥

वरं सौवर्चलं कृष्णं विडं सामुद्रम् औद्भिदम् ।
रोमकं पांसु-जं सीसं क्षारश् च लवणो गणः ॥२७॥

१०.२७ - क्षाराश् च लवणो गणः तिक्तः पटोली त्रायन्ती वालकोशीर-चन्दनम् ।
भूनिम्ब-निम्ब-कटुका-तगरागुरु-वत्सकम् ॥२८॥

नक्तमाल-द्वि-रजनी-मुस्त-मूर्वाटरूषकम् ।
पाठापामार्ग-कांस्यायो-गुडूची-धन्वयासकम् ॥२९॥

पञ्च-मूलं महद् व्याघ्र्यौ विशालातिविषा वचा ।
कटुको हिङ्गु-मरिच-कृमिजित्-पञ्च-कोलकम् ॥३०॥

१०.३० - कटुको हिङ्गु-मरिचं १०.३० - कृमिजित्-पञ्च-कोलकम् कुठेराद्या हरितकाः पित्तं मूत्रम् अरुष्करम् ।
वर्गः कषायः पथ्याक्षं शिरीषः खदिरो मधु ॥३१॥

१०.३१ - पित्तं मूत्रम् अरुष्करः १०.३१ - वर्गः कषायः पथ्याक्षः कदम्बोदुम्बरं मुक्ता-प्रवालाञ्जन-गैरिकम् ।
बालं कपित्थं खर्जूरं बिस-पद्मोत्पलादि च ॥३२॥

१०.३२ - बिस-पद्मोत्पलानि च मधुरं श्लेष्मलं प्रायो जीर्णाच् छालि-यवाद् ऋते ।
मुद्गाद् गोधूमतः क्षौद्रात् सिताया जाङ्गलामिषात् ॥३३॥

प्रायो ऽम्लं पित्त-जननं दाडिमामलकाद् ऋते ।
अ-पथ्यं लवणं प्रायश् चक्षुषो ऽन्य-त्र सैन्धवात् ॥३४॥

तिक्तं कटु च भूयिष्ठम् अ-वृष्यं वात-कोपनम् ।
ऋते ऽमृता-पटोलीभ्यां शुण्ठी-कृष्णा-रसोनतः ॥३५॥

कषायं प्राय-शः शीतं स्तम्भनं चाभयां विना ।
रसाः कट्व्-अम्ल-लवणा वीर्येणोष्णा यथोत्तरम् ॥३६॥

१०.३६ - स्तम्भनं चाभयामृते तिक्तः कषायो मधुरस् तद्-वद् एव च शीतलाः ।
तिक्तः कटुः कषायश् च रूक्षा बद्ध-मलास् तथा ॥३७॥

पट्व्-अम्ल-मधुराः स्निग्धाः सृष्ट-विण्-मूत्र-मारुताः ।
पटोः कषायस् तस्माच् च मधुरः परमं गुरुः ॥३८॥

लघुर् अम्लः कटुस् तस्मात् तस्माद् अपि च तिक्तकः ।
संयोगाः सप्त-पञ्चाशत् कल्पना तु त्रि-षष्टि-धा ॥३९॥

लवणाद् अम्ल-मधुरौ कार्यौ स्यातां यथा-क्रमम् ।
वायोर् निर्-अनुबन्धस्य पाक-शान्ति-प्रवृत्तये ॥३९.१-१॥

१०.३९.१-१ - पाक-शान्ति-प्रसक्तये प्राक् तिक्तो मधुरः पश्चात् कषायो ऽन्ते विधीयते ।
तैः पित्तं शमम् अभ्येति पक्वाच्छी-कृत-पिण्डितम् ॥३९.१-२॥

कटुः प्राक् तिक्तकः पश्चात् कषायो ऽन्ते विधीयते ।
तैः श्लेष्मा शमम् अभ्येति पक्वाच्छी-कृत-पिण्डितः ॥३९.१-३॥

१०.३९.१-३ - कटुकः प्राक् ततस् तिक्तः १०.३९.१-३ - पक्वो ऽच्छी-कृत-पिण्डितः रसानां यौगिक-त्वेन यथा-स्थूलं विभज्यते ।
एकैक-हीनास् तान् पञ्च-दश यान्ति रसा द्विके ॥४०॥

१०.४० - एकैक-हीनास् ते पञ्च- १०.४० - पञ्च यान्ति रसा द्विके स्वादुर् द्विकेषु पञ्चाम्लश् चतुरो लवणस् त्रयम् ।
द्वौ तिक्तः कटुकश् चैकं याति पञ्च-दशेति तु ॥४०-१॥

त्रिके स्वादुर् दशाम्लः षट् त्रीन् पटुस् तिक्त एककम् ।
चतुष्केषु दश स्वादुश् चतुरो ऽम्लः पटुः सकृत् ॥४१॥

१०.४१ - चतुष्के तु दश स्वादुश् पञ्चकेष्व् एकम् एवाम्लो मधुरः पञ्च सेवते ।
द्रव्यम् एकं षड्-आस्वादम् अ-संयुक्ताश् च षड् रसाः ॥४२॥

षट् पञ्चका षट् च पृथग् रसाः स्युश् चतुर्-द्विकौ पञ्च-दश-प्रकारौ ।
भेदास् त्रिका विंशतिर् एकम् एव द्रव्यं षड्-आस्वादम् इति त्रि-षष्टिः ॥४३॥

ते रसानु-रसतो रस-भेदास् तारतम्य-परिकल्पनया च ।
संभवन्ति गणनां समतीता दोष-भेषज-वशाद् उपयोज्याः ॥४४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:56.9270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

नासडा

  • m  (Intens. of नाश.) Utter or great destruction or loss. 
RANDOM WORD

Did you know?

नैमित्तिक पूजा म्हणजे काय? त्या कोणकोणत्या?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site