श्रीविष्णुपुराण - तृतीय अंश - अध्याय १५

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Puranas.


और्व उवाच

ब्राह्मणान्भोजयेच्छ्राद्धे यद्‌गुणांस्तान्निबोध मे ॥१॥

त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णष्पडंगवित् । वेदविच्छ्रोत्रियो योगी तथा वै ज्येष्ठसामगः ॥२॥

ऋत्वित्क्स्वस्त्रेयदौहित्रजामातृश्वशूरास्तथा । मातुलोऽथ तपोनिष्ठः पत्र्चाग्न्याभिरतस्तथा ।

शिष्यास्सम्बन्धिनश्चैव मातापितृरतश्च यः ॥३॥

एतान्नियोजयेच्छ्राद्धे पूर्वोक्तान्प्रथमे नॄप । ब्राह्मणान्पितृतुष्टयर्थमनुकल्पेष्वनन्तरान् ॥४॥

मित्रध्रुक्कनखी क्लीबश्श्यावदन्तस्तथा द्विजः । कन्यादूषयिता वह्निवेदोज्झस्सोमविक्रयी ॥५॥

अभिशस्तस्तथा स्तेनः पिशुनो ग्रामयाजकः । भृतकाध्यापकस्तद्वद्‌भृतकाध्यापितश्च यः ॥६॥

परपूर्वापतिश्चैव मातापित्रोस्तथोज्झकः । वृषलीसूतिपोष्टा च वृषलीपतिरेव च ॥७॥

तथा देवलकश्चैव श्राद्धे नार्हति केतनम् ॥८॥

प्रथमेऽह्नि बुधश्शस्तात्र्छ्रोत्रियादीन्निमन्तयेत् । कथयेच्च तथैवैषां नियोगान्पितृदैविकान् ॥९॥

ततः क्रोधव्यवायादीनायासं तैर्द्विजैस्सह । यजमानो न कुर्वीत दोषस्तत्र महानयम् ॥१०॥

श्राद्धे नियुक्तो भुक्त्वा वा भोजयित्वा नियुज्य च । व्यवायी रेतसो गर्ते मज्जयत्मात्मनः पितृन् ॥११॥

तस्मात्प्रथममत्रोक्तं द्विजाग्रयाणां निमन्त्नणम् । अनिमन्त्र्य द्विजानेवमागतान्भोजयेद्यतीन् ॥१२॥

पादशौचादिना गेहमागतान्पूजयेद् द्विजान ॥१३॥

पवित्रपाणिराचान्तानासनेषुवपेशयेत् । पितृणामयुजो युग्मान्देवानामिच्छया द्विजान् ॥१४॥

देवानामेकमेंकं वा पितृणां च नियोजयेत् ॥१५॥

तथा मतामहश्राद्धं वैश्वदेवसमन्वितम् । कुर्वीत भक्तिसम्पन्नस्तन्त्नं वा वैश्वदैविकम् ॥१६॥

प्राड्‌मुखान्भोजयेद्विप्रान्देवानामुभयात्मकन् । पितृमतामहानां च भोजयेच्चाप्युदड्‌मुखान् ॥१७॥

पृथक्तयोः केचिदाहुः श्राद्धस्य करणं नृप । एकत्रैकेन पाकेन वदन्त्यन्ये महर्षयः ॥१८॥

विष्टरार्थं कुशं दत्त्वा सम्पूज्यार्घ्या विधानतः । कुर्यादावाहनं प्राज्ञो देवानां तदनुज्ञया ॥१९॥

यवाम्बुना च देवानां दद्यादर्घ्यं विधानवित् । स्त्रग्गन्धधूपदीपांश्च तेभ्यो दद्याद्यथाविधि ॥२०॥

पितृणामपसव्यं तत्सर्वमेवोपकल्पयेत । अनुज्ञां च ततः प्राप्य दत्त्वा दर्भान्द्विधाकृतान् ॥२१॥

मन्त्नपूर्वं पितृणां तु कुर्याच्चावाहनं बुधः । तिलाम्बुना चापसव्यं दद्यादर्घ्यादिकं नॄप ॥२२॥

काले तत्रातिथिं प्राप्तमन्नकामं नृपाध्वगम् । ब्राह्मणैरभ्यनुज्ञातः कामं तमपि भोजयेत् ॥२३॥

योगिनो विविधै रूपैर्नराणामुपकारिणः । भ्रमन्ति पृथिवीमेतामविज्ञातस्वरूपिणः ॥२४॥

तस्मादभ्यर्चयेत्प्राप्तं श्राद्धकालेऽतिथिं बुधः । श्राद्धक्रियाफलं हन्ति नरेन्द्रपूजितोऽतिथिः ॥२५॥

जुहुयाद्‌व्याज्जनक्षारवर्जमन्नं ततोऽनले । अनुज्ञातो द्विजैस्तैस्तु त्रिकृत्वः पुरुषर्षभः ॥२६॥

अग्नये कव्यवाहाय स्वाहेत्यादौ नृपाहुतिः । सोमाय वै पितृमते दातवा तदनन्तरम् ॥२७॥

वैवस्वताय चैवान्या तृतीया दीयते ततः । हुतावशिष्टमल्पान्न विप्रपात्रेषु निर्वपेत् ॥२८॥

ततोऽन्नं मृष्टमत्यर्थमभीष्टमतिसंस्कृतम् । दत्त्वा जुषध्वमिच्छातो वाच्यमेतदनिष्ठुरम् ॥२९॥

भोक्तव्यं तैश्च तच्चित्तैर्मौनिभिस्सुमुखैः सुखम् । अक्रुद्धयता चात्वरता देयं तेनापि भक्तितः ॥३०॥

रक्षोघ्नमन्त्नपठनं भूमेरास्तरणं तिलैः । कृत्व ध्येयास्स्वपितरस्त एव द्विजसत्तमाः ॥३१॥

पिता पितामहश्चैव तथैव प्रतितामहः । मम तृप्तिं प्रयान्त्वद्य विप्रदेहेषु संस्थिताः ॥३२॥

पिता पितामहश्चैव तथैव प्रतितामहः । मम तृप्तिं प्रयान्त्वद्य होमाप्यायितमूर्तयः ॥३३॥

पिता पितामहश्चैव तथैव प्रपितामहः । तृप्तिं प्रयान्तु पिण्डेन मया दत्तेन भूतले ॥३४॥

पिता पितामहश्चैव तथैव प्रपितामहः । तृप्ति प्रयान्ति मे भक्त्या मयैतत्समुदाहृतम् ॥३५॥

मातामहस्तृप्तिमुपैतु तस्य तथा पिता तस्य पिता ततोऽन्यः । विश्वे च देवाः परमां प्रयान्तु तृप्तिं प्रणश्यन्तु च यातुधानाः ॥३६॥

यज्ञेश्वरो हव्यसमस्तकव्य भोक्तव्यवात्मा हरिरीश्वरोऽत्र । तत्सन्निधानादपयान्तु सद्यो रक्षांस्यशेषाण्यसुराश्च सर्वे ॥३७॥

तृप्तेष्वेतेषु विकिरेदन्नं विप्रेषु भूतले । दद्यादाचमनार्थाय तेभ्यो वारि सकृत्सकृत ॥३८॥

सतृप्तैस्तैरनॄज्ञातस्सर्वेणान्नेन भूतले । सतिलेन ततः पिण्डान्सम्यगदद्यात्समाहितः ॥३९॥

पितृतीर्थेन सतिलं तथैल सलिलाज्जलिम् । मातामहेभ्यस्तेनैव पिण्डांस्तीर्थेन निर्वपेत् ॥४०॥

दक्षिणाग्रेषु दर्भेषु पुष्पधूपादिपूजितम् । स्वपिन्ने प्रथमं पिण्डं दद्यादुच्छिष्टसन्निधौ ॥४१॥

पितामहाय चैवान्यं तत्पित्रे च तथापरम् । दर्भमूले लेपभूजः प्रीणयेल्लेपघर्षणैः ॥४२॥

पिण्डौर्मतामहांसतद्वद्गन्धामाल्यादिसंयुतैः । पूजयित्वा द्विजग्र्‌याणां दद्याच्चाचमनं ततः ॥४३॥

पितृभ्यः प्रथमं भक्त्या तन्मनस्को नरेश्वर । सुस्वधेत्याशिषा युक्तां दद्याच्छक्त्या च दक्षिणाम्‌ ॥४४॥

दत्त्वा च दक्षिणां तेभ्यो वाचयेद्वैश्वदेविकान् । प्रीयन्तामिह ये विश्वेदेवास्तेन इतीरयेत् ॥४५॥

तथेति चोक्ते तैर्विप्रैः प्रार्थनीयास्तथाशिषः । पश्चाद्विसर्जयेद्देवान्पूर्व पित्र्यान्महीपते ॥४६॥

मातामहानामप्येवं सह देवैः क्रमः स्मॄतः । भोजने च स्वशक्त्यां च दाने तद्वद्विसर्जने ॥४७॥

आपादशौचनात्पूर्वं कुर्याद्देवद्विजन्मसु । विसर्जनं तु प्रथमं पैत्रमातामहेषु वै ॥४८॥

विसर्जयेत्प्रीतिवच्चस्सम्मान्याभ्यर्थितांस्ततः । निवर्त्तेताभ्यनुज्ञात आद्वारं ताननुव्रजेत् ॥४९॥

ततस्तु वैश्वदेवाख्यं कुर्यान्नित्यक्रियां बुधः । भुज्जाच्चैव समं पूज्यभृत्यबन्धुभिरात्मनः ॥५०॥

एवं श्राद्धं बुधः कुर्यात्पित्र्यं मातामहं तथा । श्राद्धैराप्यायिता दद्युस्सर्वान्कामान्पितामहाः ॥५१॥

त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः । रजतस्य तथा दानं कथासंकीर्तनादिकम् ॥५२॥

वर्ज्यानि कुर्वता श्राद्धं क्रोधऽध्वगमनं त्वरा । भोक्तुरप्यत्र राजेन्द्र त्रयमेतन्न शस्यते ॥५३॥

विश्वेदेवास्सपितरस्तथा मातामहा नृप । कुलं चाप्यायते पुंसां सर्वं श्राद्धं प्रकृर्वताम् ॥५४॥

सोमाधारः पितृगणो योगाधारश्च चन्द्रमाः । श्राद्धे योगिनियोगस्तु तस्माद्भूपाल शस्यते ॥५५॥

सहस्त्रस्यपि विप्राणां योगी चेत्पुरतः स्थितः । सर्वान्भोक्तृंस्तारयति यजमानं तथा नृप ॥५६॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP