श्रीविष्णुपुराण - तृतीय अंश - अध्याय ४

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीपराशर उवाच

आद्यो वेदश्चतुष्पादः शतसाहस्त्रसम्मितः । ततो दशगुणः कृत्स्त्रो यज्ञोऽयंसर्वकामधुक् ॥१॥

ततोऽत्र मत्सुतो व्यासो अष्टाविशंतिमेऽन्तरे । वेदमेकं चतुष्पादं चतुर्धा व्यभजत्प्रभुः ॥२॥

यथा च तेन वै व्यस्ता वेदव्यासेन धीमता । वेदास्तथा समस्तैस्तैर्व्यस्ता व्यस्तैस्तथा मया ॥३॥

तदनेनैव वेदानां शाखाभेदान्द्विजोत्तम । चतुर्युगषुः पाठितान्ससमस्तेष्ववधारय ॥४॥

कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । को ह्यान्यो भुवि मैत्रेय महाभारतकृद्भवेत् ॥५॥

तेन व्यस्ता यथा वेदा मत्पुत्रेण महात्मना । द्वापरे ह्यात्र मैत्रेय तस्मित्र्छृणु यथतथम् ॥६॥

ब्रह्मणा चोदितो व्यासो वेदान्व्यस्तुं प्रचक्रमे । अथ शिष्यान्प्रजग्राह चतुरो वेदपारगान् ॥७॥

ऋग्वेदपाठकं पैलं जग्राह स महामुनिः । वैशम्पायननामनं यजुर्वेदस्य चाग्रहित् ॥८॥

जैमिनिं सामवेदस्य तथैवाथर्ववेदवित् । सुमन्तुस्तस्म शिष्योऽभूद्वेदव्यासमस्य धीमतः ॥९॥

रोमहर्षणनामानं महाबुद्धिं महामुक्निः । सुतं जग्राह शिष्यं स इतिहासपुरणयोः ॥१०॥

एक आसेद्यजुर्वेदस्तं चतुर्धा व्यकल्पयत् । चातुर्होत्रमभूत्तस्मिंस्तेन यज्ञमथाकरोत् ॥११॥

आध्वर्यवं यजुर्भिस्तु ऋग्भिर्होत्रं तथा मुनिः । औद्गत्रं सामभिश्चके ब्रह्मत्वं चाप्यथर्वभिः ॥१२॥

ततस्स ऋच उद्‌धत्य ऋग्वेदं कृतवान्मुनिः । यजुंषि च यजुर्वेदं सामवेदं च सामभिः ॥१३॥

राज्ञां चाथर्ववेदेन सर्वकर्माणि च प्रभूः । कारयामस मैत्रेय ब्रह्मात्वं च यथास्थिति ॥१४॥

सोऽयमेको यथा वेदस्तरुस्तेन पृथक्कॄतः । चतुर्धाथ ततो जातं वेदपादपकाननम् ॥१५॥

बिभेदं प्रथमं विप्र पैलो ऋग्वेदपादपम् । इन्द्रप्रमितये प्रादाद्वाष्कलाय च संहिते ॥१६॥

चतुर्धा स बिभेदाथ बाष्कलोऽपि च संहिताम् । बोध्यादिभ्यो ददौ ताश्च शिष्येभ्यस्स महामुनिः ॥१७॥

बोध्याग्निमाढकौ तद्वद्याज्ञवल्क्यपराशरौ । प्रतिशाखास्तु शाखायस्तस्यास्ते जगृहुर्मुने ॥१८॥

इन्द्रप्रमितिरेकां तु संहितं स्वसुतं ततः । माण्डुकेयं महात्मानं मैत्रेयाध्यापयत्तदा ॥१९॥

तस्य शिष्यप्रशिष्येभ्यः पुत्रशिष्यक्रमाद्ययौ ॥२०॥

वेदमित्रस्तु शाकल्यः संहितां तामधीतवान् । चकार संहिताः पत्र्च शिष्येभ्यः प्रददौ च ताः ॥२१॥

तस्य शिष्यास्तु ये पत्र्च तेषं नामानि मे श्रृणु । मुद्गलो गोमुखश्चैव वात्सश्शालीय एव च ।

शरीरः पत्र्चमश्चासीन्मैत्रेय सुमहामतिः ॥२२॥

संहितात्रितयं चक्रे शाकपूर्णस्तथेतरः । निरुक्तमकरोत्तद्वच्चतुर्थ मुनिसत्तम ॥२३॥

क्रौच्चो वैतालिकस्तद्वद्वलाकश्च महामुनिः । निरुक्तकृच्चतुर्थोऽभूद्वेदवेदांगपारगः ॥२४॥

इत्येताः प्रतिशाखाभ्यो ह्यानुशाखा द्विजोत्तम । बाष्कलश्चापरास्तिस्त्रस्संहिताः कृतवान्द्विज ।

शिष्यः कलायनिर्गार्ग्यस्तुतीयश्च कथाजवः ॥२५॥

इत्येते बह्‌वृचाः प्रोक्ताः संहिता यैः प्रवर्तिताः ॥२६॥

इति श्रीविष्णुपुराणे तृतीयेंऽशें चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP