मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे| ब्रह्मोवाच ॥ नतोऽस्म्यन... विष्णु स्तोत्रे मार्कण्डेय उवाच अवतारानहं... नमोऽस्तु नारायणमन्दिराय न... प्रलयोदन्वदुदीर्णजलविहारा... श्रीगणेशाय नमः । ॐ देवाना... मार्कण्डेय उवाच वामनेन स ... उदयरवि सहस्रद्योतितं रूक्... देवो नश्शुभमातनोतुदशधा नि... हेमाद्रिशिखराकारं शुद्धस्... प्रलयपयोधिजलेधृतवानसि वेद... नमामि ते देव पदारविन्दं प... मत्स्यं कूर्मं वराहं च वा... नारायण नारायण जय गोविन्द ... अग्रे कुरूणामथ पाण्डवानां... श्रीशुक उवाच- इथं शरत्स्... ॐ अथ पुरुषो ह वै नारायणॊऽ... लक्ष्मीभर्तुर्भुजाग्रे कृ... नारद उवाच- पुनर्दैत्यान्... प्रातः स्मरामि फणिराजतनौ ... महिम्नस्ते पारं विधिहरफणी... विष्णुस्तवराजः (कल्किपुरा... नमो मत्स्यकूर्मादिनानास्व... चिदंशं विभुं निर्मलं निर्... गौरगणोद्देशदीपिका गौरगोविन्दर्चनस्मरणपद्धति प्रस्तावना श्रीगणेशाय नमः ॥ नूनं त... श्रीगणेशाय नमः ॥ देवा ऊचु... ऋष्य ऊचुः ॥ जितं जितं त... ब्रह्मोवाच ॥ नतोऽस्म्यन... श्रीगणेशाय नमः । श्रीमत... अदितिरुवाच । यज्ञेशयपक्... अदितिरुवाच । नमस्ते देव... नृसिंहस्तोत्रम् - ब्रह्मोवाच ॥ नतोऽस्म्यन... श्रीविष्णुने सज्जनांच्या उद्धारासाठी या पृथ्वीतलावर दहावेळा अवतार घेतले.There are ten incarnations of Lord Vishnu. These incarnations are termed as the 'avatars' of Lord Vishnu. Tags : godgoddessstotravishnuदेवतादेवीनृसिंहविष्णुस्तोत्र नृसिंहस्तोत्रम् Translation - भाषांतर ब्रह्मोवाच ॥ नतोऽस्म्यनंताय दुरन्तशक्तये विचित्रवीर्याय पवित्रकर्मणे । विश्वस्य सर्गस्थितिसंयमान्गुणैः स्वलीलया संदधतेऽव्ययात्मने ॥ १ ॥ श्रीरुद्र उवाच ॥ कोपकालो युगांतस्ते हतोऽयमसुरोऽल्पकः । तस्सुतं पाह्यु पसृतं भक्तं ते भक्तवत्सल ॥ २ ॥ इन्द्र उवाच ॥ प्रत्यानीताः परम भवता त्रायता नः स्वभागा दैत्याक्रान्तं ह्रदयकमलं त्वद्गृहं प्रत्यबोधि । कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते मुक्तिस्तेषां नहि बहुमता नारसिंहापरैः किम् ॥ ३ ॥ ऋषय ऊचुः ॥ त्वं नस्तपः परममात्थ यदात्मतेजो येनेदमादिपुरुषात्मगतं ससर्ज ॥ तद्विप्रलुप्तममुनाद्य शरण्यपाल रक्षागृहीतवपुषा पुनरन्वमंस्थाः ॥ ४ ॥ पितर ऊचुः ॥ श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजैर्दत्तानि तीर्थसमयेऽपिबत्तिलाम्बु । तस्योदरान्नखविदीर्णवपाद्य आर्च्छत्तस्मै नमो नृहरयेऽखिलधर्मगोप्त्रे ॥ ५ ॥ सिद्धा उचुः ॥ यो नो गतिं योगसिद्धामसाधुरहार्षीद्योगतपोबलेन । नानादर्प तं नखैर्निर्ददार तस्मै तुभ्यं प्रणताः स्मो नृसिंह ॥ ६ ॥ विद्याधरा ऊचुः ॥ विद्यां पृथग्धारणयाऽनुराद्धां न्यषेधदज्ञो बलवीर्यदृप्तः । स येन संख्ये पशुवद्धतस्तं मायानृसिंहं प्रणताः स्म नित्यम् ॥ ७ ॥ नागा ऊचुः ॥ येन पापेन रत्नानि स्त्रीरत्नानि ह्रतानि नः । तद्वक्षःपाटनेनासां दत्तानन्द नमोऽस्तु ते ॥ ८ ॥ मनव ऊचुः ॥ मनवो वयं तव निदेशकारिणो दितिजेन देव परिभूतसेतवः । भवत खलः स उपसंह्रतः प्रभो करवाम ते किमनुशाधि किंकरान् ॥ ९ ॥ प्रजापतय ऊचुः ॥ प्रजेशा वयं ते परेशाभिसृष्टा न येन प्रजा वै सृजामो निषिद्धाः । स एष त्वया भिन्नवक्षा नु शेते जगन्मंगलं सत्त्वमूर्तेऽवतारः ॥ १० ॥ गन्धर्वा ऊचुः ॥ वयं विभो ते नटनाट्यगायका येनात्मसाद्वीर्यबलौजसा कृताः । स एषा नीतो भवता दशामिमां किमुत्पथस्थः कुशलाय कल्पते ॥ ११ ॥ चारणा ऊचुः ॥ हरे तवांघ्रिपङकजं भवापवर्गमाश्रिताः । यदेष साधुह्रच्छयस्त्वयाऽसुरः समापितः ॥ १२ ॥ यक्षा ऊचुः ॥ वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञैस्त इह दितिसुतेन प्रापिता वाहकत्वम् । स तु जनपरितापं तत्कृतं जानता ते नरहर उपनीतः पंचतां पंचविंश ॥ १३ ॥ किंपुरुषा ऊचुः ॥ वयं किंपुरुषास्त्वं तु महापुरुष ईश्वरः । अयं कुपुरुषो नष्टो धिक्कृतः साधुभिर्यदा ॥ १४ ॥ वैतालिका ऊचुः ॥ सभासु सत्रेषु तवामलं यशो गीत्वा सपर्यां महतीं लभामहे । यस्तां व्यनैषीद् भृशमेष दुर्जनो दिष्ट्या हतस्ते भगवन्यथामहः ॥ १५ ॥ किन्नरा ऊचुः ॥ वयमीश किन्नर गणास्तवानुगा दितिजेन विष्टिममुनाऽनुकारिताः । भवता हरे सवृजिनोऽवसादितो नरसिंह नाथ विभवाय नो भव ॥ १६ ॥ विष्णुपार्षदा ऊचुः ॥ अद्वैतद्धरिनररूपमद्भुतं ते दृष्टं नः शरणद सर्वलोकशर्म । सोऽयं ते विधिकर ईश विप्रशप्तस्तस्येदं निधनमनुग्रहाय विद्मः ॥ १७ ॥ इति श्रीमद्भागवतांगर्गतं नृसिंहस्तोत्रं संपूर्णम् । N/A References : N/A Last Updated : July 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP