मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे| अदितिरुवाच । नमस्ते देव... विष्णु स्तोत्रे मार्कण्डेय उवाच अवतारानहं... नमोऽस्तु नारायणमन्दिराय न... प्रलयोदन्वदुदीर्णजलविहारा... श्रीगणेशाय नमः । ॐ देवाना... मार्कण्डेय उवाच वामनेन स ... उदयरवि सहस्रद्योतितं रूक्... देवो नश्शुभमातनोतुदशधा नि... हेमाद्रिशिखराकारं शुद्धस्... प्रलयपयोधिजलेधृतवानसि वेद... नमामि ते देव पदारविन्दं प... मत्स्यं कूर्मं वराहं च वा... नारायण नारायण जय गोविन्द ... अग्रे कुरूणामथ पाण्डवानां... श्रीशुक उवाच- इथं शरत्स्... ॐ अथ पुरुषो ह वै नारायणॊऽ... लक्ष्मीभर्तुर्भुजाग्रे कृ... नारद उवाच- पुनर्दैत्यान्... प्रातः स्मरामि फणिराजतनौ ... महिम्नस्ते पारं विधिहरफणी... विष्णुस्तवराजः (कल्किपुरा... नमो मत्स्यकूर्मादिनानास्व... चिदंशं विभुं निर्मलं निर्... गौरगणोद्देशदीपिका गौरगोविन्दर्चनस्मरणपद्धति प्रस्तावना श्रीगणेशाय नमः ॥ नूनं त... श्रीगणेशाय नमः ॥ देवा ऊचु... ऋष्य ऊचुः ॥ जितं जितं त... ब्रह्मोवाच ॥ नतोऽस्म्यन... श्रीगणेशाय नमः । श्रीमत... अदितिरुवाच । यज्ञेशयपक्... अदितिरुवाच । नमस्ते देव... वामनस्तोत्रम् - अदितिरुवाच । नमस्ते देव... श्रीविष्णुने सज्जनांच्या उद्धारासाठी या पृथ्वीतलावर दहावेळा अवतार घेतले.There are ten incarnations of Lord Vishnu. These incarnations are termed as the 'avatars' of Lord Vishnu. Tags : godgoddessstotravamanvishnuदेवतादेवीविष्णुस्तोत्र वामनस्तोत्रम् Translation - भाषांतर अदितिरुवाच । नमस्ते देवदेवेश सर्वव्यापिन जनार्दन । सत्त्वादिगुणभेदन लोकव्यापारकारण ॥ १ ॥ नमस्ते बहुरूपाय अरूपाय नमो नमः । सर्वैकाद्भुतरूपाय निर्गुणाय गुणात्मने ॥ २ ॥ नमस्ते लोकनाथाय परमज्ञानरूपिणे । सद्भक्तजनवात्सल्यशीलिने मंगलात्मने ॥ ३ ॥ यस्यावतररूपाणि ह्यर्चयन्ति मुनीश्वराः । तमादिपुरुषं देवं नमामीष्टार्थसिद्धये ॥ ४ ॥ यं न जानंति श्रुतयो यं न जानंति सूरयः । तं नमामि जगद्धेतुं मायिनं तममायिनम् ॥ ५ ॥ यस्यावलोकनं चित्रं मायोप्रद्रववारणम् । जगद्रूपं जगत्पालं तं वंदे पद्मजाधवम् ॥ ६ ॥ यो देवस्त्यक्तसंगानां शांतानां करुणार्णवः । करोति ह्यात्मना सङ्गं तं वंदे संगर्विजतम् ॥ ७ ॥ यत्पादाब्जजलक्लिन्नसेवारंजितमस्तकाः । अवापुः परमां सिद्धिं तं वंदे सर्ववंदितम् ॥ ८ ॥ यज्ञेश्वरं यज्ञभुजं यज्ञकर्मसु निष्ठितम् । नमामि यज्ञफलदं यज्ञकर्मप्रबोधकम् ॥९ ॥ अजामिलोऽपि पापात्मा यन्नामोच्चारणादनु । प्राप्तवान्परमं धाम तं वंदे लोकसाक्षिणम् ॥ १० ॥ ब्रह्माद्या अपि ये देव यन्मायापाशयंत्रिताः । न जानंति परं भावं तं वंदे सर्वनायकम् ॥ ११ ॥ ह्रत्पद्मनिलयोऽज्ञानां दुरस्थ इव भाति यः । प्रमाणातीतसद्भावं तं वंदे ज्ञानसाक्षिणम् ॥ १२ ॥ यज्मुखाद्ब्राह्मणो जातो बाहुभ्यः क्षत्रियोऽजनि । तथैव ऊरुतो वैश्यः पद्भ्यां शूद्रो अजायत ॥ १३ ॥ मनश्चंद्रमा जातो जातः सूर्यश्च चक्षुषः । मुखादिंद्रस्तथाग्निश्च प्राणाद्वायुरजायत ॥ १४ ॥ त्वमिंद्रः पवनः सोमस्त्वमीशानस्त्वमन्तकः । त्वमग्निर्निऋतिश्चैव वरुणस्त्वम दिवाकरः ॥ १५ ॥ देवाश्च स्थावराश्चैव पिशाचाश्चैव राक्षसाः । गिरयः सिद्धगंधर्वा नद्यो भूमिश्च सागराः ॥ १६ ॥ त्वमेव जगतामीश पुन्नामास्ति परात्परः । त्वद्रूपमखिलं तस्मात्पुत्रान्मे पाहि श्रीहरे ॥ १७ ॥ इति स्तुत्वा देवधात्री देवं मत्वा पुनः पुनः । उवाच प्रांजलिर्भूत्वा हर्षाश्रुक्षालितस्तनी ॥ १८ ॥ अनुग्राह्याऽस्मि देवेश हरे सर्वादिकारण । अकंटकश्रियं देहि मत्सुतानां दिवीकसाम् ॥ १९ ॥ अन्तर्यामिन् जगद्रूप सर्वभूत परेश्वर । तवाज्ञातं किमस्तीह किं मां मोहयसि प्रभो ॥ २० ॥ तथापि तव वक्ष्यामि यन्मे मनसि वर्तते । वृथापुत्राऽस्मिदेवेश रक्षोभिः परिपीडिता ॥ २१ ॥ एतान्न हंतुमिच्छामि मत्सुता दितिजातयः । तानहत्वा श्रियं देहि मत्सुतानामुवाच सा ॥ २२ ॥ इत्युक्तो देवदेवस्तु पुनः प्रीतिमुपागतः । उवाच हर्षयन्साध्वीं कृपयाऽभिपरिप्लुतः ॥ २३ ॥ श्रीभगवानुवाच । प्रीतोऽस्मि देवि भद्रं तं भविष्यामि सुतस्तव । यतः सपत्नीतनयेष्वपि वात्सल्यशालिनी ॥ २४ ॥ त्वया च मे कृतं स्तोत्रं पठंति भुवि मानवाः । तेषां पुत्रा धनं सम्पन्न हीयन्ते कदाचन ॥ २५ ॥ अन्ते मत्पदमाप्नोति यद्विष्णो परमं शुभम् ॥ २६ ॥ इति श्रीपद्मपुराने वामनस्तोत्रं समाप्तम । N/A References : N/A Last Updated : July 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP