मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे| श्रीगणेशाय नमः । श्रीमत... विष्णु स्तोत्रे मार्कण्डेय उवाच अवतारानहं... नमोऽस्तु नारायणमन्दिराय न... प्रलयोदन्वदुदीर्णजलविहारा... श्रीगणेशाय नमः । ॐ देवाना... मार्कण्डेय उवाच वामनेन स ... उदयरवि सहस्रद्योतितं रूक्... देवो नश्शुभमातनोतुदशधा नि... हेमाद्रिशिखराकारं शुद्धस्... प्रलयपयोधिजलेधृतवानसि वेद... नमामि ते देव पदारविन्दं प... मत्स्यं कूर्मं वराहं च वा... नारायण नारायण जय गोविन्द ... अग्रे कुरूणामथ पाण्डवानां... श्रीशुक उवाच- इथं शरत्स्... ॐ अथ पुरुषो ह वै नारायणॊऽ... लक्ष्मीभर्तुर्भुजाग्रे कृ... नारद उवाच- पुनर्दैत्यान्... प्रातः स्मरामि फणिराजतनौ ... महिम्नस्ते पारं विधिहरफणी... विष्णुस्तवराजः (कल्किपुरा... नमो मत्स्यकूर्मादिनानास्व... चिदंशं विभुं निर्मलं निर्... गौरगणोद्देशदीपिका गौरगोविन्दर्चनस्मरणपद्धति प्रस्तावना श्रीगणेशाय नमः ॥ नूनं त... श्रीगणेशाय नमः ॥ देवा ऊचु... ऋष्य ऊचुः ॥ जितं जितं त... ब्रह्मोवाच ॥ नतोऽस्म्यन... श्रीगणेशाय नमः । श्रीमत... अदितिरुवाच । यज्ञेशयपक्... अदितिरुवाच । नमस्ते देव... लक्ष्मीनृसिंहस्तोत्रम् - श्रीगणेशाय नमः । श्रीमत... श्रीविष्णुने सज्जनांच्या उद्धारासाठी या पृथ्वीतलावर दहावेळा अवतार घेतले.There are ten incarnations of Lord Vishnu. These incarnations are termed as the 'avatars' of Lord Vishnu. Tags : godgoddessstotraदेवतादेवीनृसिंहलक्ष्मीविष्णुस्तोत्र लक्ष्मीनृसिंहस्तोत्रम् Translation - भाषांतर श्रीगणेशाय नमः । श्रीमत्पयोनिधिनिकेतन चक्रपाणे भोगीन्द्रभोगमणिरंजितपुण्यमूर्ते । योगीश शाश्वत शरण्यभवाब्दिपोत लक्ष्मीनृसिंह मम देहि करावलंबम् ॥ १ ॥ ब्रह्मेन्द्ररुद्रमरुदर्ककिरीटकोटिसंघट्टितांघ्रिकमलामलकांतिकांत । लक्ष्मीलसत्कुचसरोरुहराजगंसलक्ष्मीनृसिंह मम देहि करावलंबम् ॥ २ ॥ संसारघोरगहने चरतो मुरारे मारोग्रभीकरमृगप्रवरार्दितस्य । आर्तस्य मत्सरनिदाहनिपीडितस्य लक्ष्मीनृसिंह० ॥ ३ ॥ संसारकूपमतिघोरमगाधमूलं संप्राप्य दुःखशतसर्पसमाकुलस्य । दीनस्य देव कृपणापदमागस्य लक्ष्मीनृसिंह० ॥ ४ ॥ संसारसागरविशलकरालकालनक्रग्रसननिग्रहविग्रहस्य । व्यग्रस्य रागरसनोर्मिनिपीडितस्य लक्ष्मीनृसिंह० ॥ ५ ॥ संसारवृक्षमघबीजमनंतकर्मशाखाशतं करणपत्रमनंगपुष्पम् । आरुह्य दुःखफलितं पततो दयालो लक्ष्मीनृसिंह० ॥ ६ ॥ संसारसर्पघनवक्त्रभयोग्रतीव्रद्रंष्ट्राकरालविषदग्धविनष्टमूर्ते । नागारिवाहन सुधाब्धिनिवास शौरे लक्ष्मीनृसिंह० ॥ ७ ॥ संसारदावदहनारुतभिकरोरुज्वालावलीभिरतिदग्धतनूरुहस्य । त्वत्पादपद्मसरसीशरणगतस्य लक्ष्मीनृसिंह० ॥ ८ ॥ संसारजालपतितस्य जगन्निवास सर्वेन्द्रियार्थबडिशार्थझषोपमस्य । प्रोत्खंडितप्रचुरतालिकमस्तकस्य लक्ष्मीनृसिंह० ॥ ९ ॥ संसारभीकरकरींद्रकलाभिघातनिष्पिष्टमर्मवपुषः सकलार्तिनाश । प्राणप्रयाणभवभीतिसमाकुलस्य लक्ष्मीनृसिंह० ॥ १० ॥ अंधस्य मे ह्रतविवेकमहाधनस्य चोरैः प्रभो बलिभिरिन्द्रियनामधेयैः । मोहांधकूपकुहरे विनिपातितस्य लक्ष्मीनृसिंह० ॥ ११ ॥ लक्ष्मीपते कमलनाभ सुरेश विष्णो वैकुंठ कृष्ण मधुसूदन पुष्कराक्ष । ब्रह्मण्य केशव जनार्दन वासुदेव देवेश देहि कृपणस्य करावलम्बम् ॥ १२ ॥ यन्माययोर्जितवपुःप्रचुरप्रवाहमग्नार्थमत्र निवहोरुकरावलंबम् । लक्ष्मीनृसिंहचरणाब्जमधुव्रतेन स्तोत्रं कृतं सुखकरं भुवि शंकरेण ॥ १३ ॥ इति श्रीमत्परमहंसश्रीमच्छंकराचार्याविरचितं लक्ष्मीनृसिंहस्तोत्रम् संपूर्णम् । N/A References : N/A Last Updated : July 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP