मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे| मार्कण्डेय उवाच अवतारानहं... विष्णु स्तोत्रे मार्कण्डेय उवाच अवतारानहं... नमोऽस्तु नारायणमन्दिराय न... प्रलयोदन्वदुदीर्णजलविहारा... श्रीगणेशाय नमः । ॐ देवाना... मार्कण्डेय उवाच वामनेन स ... उदयरवि सहस्रद्योतितं रूक्... देवो नश्शुभमातनोतुदशधा नि... हेमाद्रिशिखराकारं शुद्धस्... प्रलयपयोधिजलेधृतवानसि वेद... नमामि ते देव पदारविन्दं प... मत्स्यं कूर्मं वराहं च वा... नारायण नारायण जय गोविन्द ... अग्रे कुरूणामथ पाण्डवानां... श्रीशुक उवाच- इथं शरत्स्... ॐ अथ पुरुषो ह वै नारायणॊऽ... लक्ष्मीभर्तुर्भुजाग्रे कृ... नारद उवाच- पुनर्दैत्यान्... प्रातः स्मरामि फणिराजतनौ ... महिम्नस्ते पारं विधिहरफणी... विष्णुस्तवराजः (कल्किपुरा... नमो मत्स्यकूर्मादिनानास्व... चिदंशं विभुं निर्मलं निर्... गौरगणोद्देशदीपिका गौरगोविन्दर्चनस्मरणपद्धति प्रस्तावना श्रीगणेशाय नमः ॥ नूनं त... श्रीगणेशाय नमः ॥ देवा ऊचु... ऋष्य ऊचुः ॥ जितं जितं त... ब्रह्मोवाच ॥ नतोऽस्म्यन... श्रीगणेशाय नमः । श्रीमत... अदितिरुवाच । यज्ञेशयपक्... अदितिरुवाच । नमस्ते देव... दशावतरवर्णनं - मार्कण्डेय उवाच अवतारानहं... विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहेVishnu,also known as Narayana is the Supreme Being or Ultimate RealityIn the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe. Tags : stotravishnuविष्णुसंस्कृतस्तोत्र दशावतरवर्णनं Translation - भाषांतर मार्कण्डेय उवाचअवतारानहं वक्ष्ये देवदेवस्य चक्रिणः ।ताञ्शृणुष्व महीपाल पवित्रान् पापनाशनान् ॥१॥यथा मत्स्येन रूपेण दत्ता वेदाः स्वयम्भुवे ।मधुकैटभौ च निधनं प्रापितौ च महात्मना ॥२॥यथा कौर्मेण रूपेण विष्णुना मन्दरो धृतः ।तथा पृथ्वी धृता राजन् वाराहेण महात्मना ॥३॥तेनैव निधनं प्राप्तो यथा राजन् महाबलः ।हिरण्याक्षो महावीर्यो दितिपुत्रो महातनुः ॥४॥यथा हिरण्यकशिपुस्त्रिदशानामरिः पुरा ।नरसिंहेन देवेन प्रापितो निधनं नृप ॥५॥यथा बद्धो बलिः पूर्वं वामनेन महात्मना ।इन्द्रस्त्रिभुवनाध्यक्षः कृतस्तेन नृपात्मज ॥६॥रामेण भूत्वा च यथा विष्णुना रावणो हतः ।सगणाश्चदभुता राजन् राक्षसा देवकण्टकाः ॥७॥यथा परशुरामेण क्षत्रमुत्सादितं पुरा ।बलभद्रेण रामेण यथा दैत्यः पुरा हतः ॥८॥यथा कृष्णेन कंसाद्या हता दैत्याः सुरद्विषः ।कलौ प्राप्ते यथा बुद्धो भवेन्नारायणः प्रभुः ॥९॥कल्किरूपं समास्थाय यथा म्लेच्छा निपातिताः ।समाप्ते तु कलौ भूयस्तथा ते कथयाम्यहम् ॥१०॥हरेरनन्तस्य पराक्रमं यः शृणोति भूपाल समाहितात्मा ।मयोच्यमानं स विमुच्य पापं प्रयाति विष्णोः पदमत्युदारम् ॥११॥इति ।नरसिंहपुराण अध्याय ३६ श्लोकसंख्या ११श्रीनरसिंहपुराणे हरेः प्रादुर्भावानुक्रमणे षटत्रिंशोऽध्यायः ॥३६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP