मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे| ऋष्य ऊचुः ॥ जितं जितं त... विष्णु स्तोत्रे मार्कण्डेय उवाच अवतारानहं... नमोऽस्तु नारायणमन्दिराय न... प्रलयोदन्वदुदीर्णजलविहारा... श्रीगणेशाय नमः । ॐ देवाना... मार्कण्डेय उवाच वामनेन स ... उदयरवि सहस्रद्योतितं रूक्... देवो नश्शुभमातनोतुदशधा नि... हेमाद्रिशिखराकारं शुद्धस्... प्रलयपयोधिजलेधृतवानसि वेद... नमामि ते देव पदारविन्दं प... मत्स्यं कूर्मं वराहं च वा... नारायण नारायण जय गोविन्द ... अग्रे कुरूणामथ पाण्डवानां... श्रीशुक उवाच- इथं शरत्स्... ॐ अथ पुरुषो ह वै नारायणॊऽ... लक्ष्मीभर्तुर्भुजाग्रे कृ... नारद उवाच- पुनर्दैत्यान्... प्रातः स्मरामि फणिराजतनौ ... महिम्नस्ते पारं विधिहरफणी... विष्णुस्तवराजः (कल्किपुरा... नमो मत्स्यकूर्मादिनानास्व... चिदंशं विभुं निर्मलं निर्... गौरगणोद्देशदीपिका गौरगोविन्दर्चनस्मरणपद्धति प्रस्तावना श्रीगणेशाय नमः ॥ नूनं त... श्रीगणेशाय नमः ॥ देवा ऊचु... ऋष्य ऊचुः ॥ जितं जितं त... ब्रह्मोवाच ॥ नतोऽस्म्यन... श्रीगणेशाय नमः । श्रीमत... अदितिरुवाच । यज्ञेशयपक्... अदितिरुवाच । नमस्ते देव... वराहस्तोत्रम् - ऋष्य ऊचुः ॥ जितं जितं त... श्रीविष्णुने सज्जनांच्या उद्धारासाठी या पृथ्वीतलावर दहावेळा अवतार घेतले.There are ten incarnations of Lord Vishnu. These incarnations are termed as the 'avatars' of Lord Vishnu. Tags : godgoddessstotravishnuदेवतादेवीवराहविष्णुस्तोत्र वराहस्तोत्रम् Translation - भाषांतर ऋष्य ऊचुः ॥ जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं त्वां परिधुन्वते नमः । यद्रोमगर्तेषु निलिल्युरध्वरास्तस्मै नमः कारणसूकराय ते ॥ १ ॥ रूपं तवैतन्ननु दुष्कृतात्मनाम दुर्दर्शनं देव यदध्वरात्मकम् । छन्दांसि यस्य त्वचि बर्हिरोमस्वाज्यं दृशि त्वङघ्रिषु चातुर्होत्रम् ॥ २ ॥ स्रुक् तुण्ड आसीत्स्त्रुव ईश नाशयोरिडोदरे चमसाः कर्णरंध्रे । प्राशित्रमास्ये ग्रसने ग्रहास्तु ते यच्चर्वणं ते भगवन्नग्निहोत्रम् ॥ ३ ॥ दीक्षानुजन्मोपसदः शिरोधरं त्वं प्रायणीयोदयनीयदंष्ट्रः । जिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतोः सभ्यावसथ्यं चितयोऽसवो हि ते ॥ ४ ॥ सोमस्तु रेतः सवनान्यवस्थितिः संस्थाविभेदास्तव देव धातवः । सत्राणि सर्वाणि शरीरसंधिस्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः ॥ ५ ॥ नमो नमस्तेऽखिलमन्त्रदेवताद्रव्याय सर्वक्रतवे क्रियात्मने । वैराग्यभक्त्यात्मजयानुभावितज्ञानाय विद्यागुरवे नमो नमः ॥ ६ ॥ दंष्ट्राग्रकोट्या भगवंस्त्वया धृता विराजते भूधर भूः सभूधरा । यथा वनान्निःसरतो दता धृता मतंगजेन्द्रस्य सपत्रपद्मिनी ॥ ७ ॥ त्रयीमयं रूपमिदं च सौकरं भूमंडलेनाथ दता धृतेन ते । चकास्ति श्रृङ्गोढघनेन भूयसा कुलाचलेन्द्रस्य यथैव विभ्रमः ॥ ८ ॥ संस्थापयैनां जगतां सतस्थुषां लोकाय पत्नीमसि मातरं पिता । विधेम चास्यै नमसा सह त्वया यस्यां स्वतेजोऽग्निमिवारणावधाः ॥ ९ ॥ कः श्रद्दधीतान्यतमस्तव प्रभो रसां गताया भुव उद्विबर्हणम् । न विस्मयोऽसौ त्वयि विश्वविस्मये यो माययेदं ससृजेऽतिविस्मयम् ॥ १० ॥ विधुन्वता वेदमयं निजं वपुर्जनस्तपःसत्यनिवासिनो वयम् । सटाशिखोद्भूतशिवांबुबिंदुभिर्विमृज्यमाना भृशमीश पाविताः ॥ ११ ॥ स वै बत भ्रष्टमतिस्तवैष ते यः कर्मणां पारमपारकर्मणः । यद्योगमायागुणयोगमोहितं विश्वं समस्तं भगवन्विधेहि शम् ॥ १२ ॥ इति श्रीमद्भागवतांतर्गतं वराहस्तोत्रम् संपूर्णम् । N/A References : N/A Last Updated : July 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP