संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं| रामचापस्तवः पुस्तकं अमरकोषः अनेकार्थसङ्ग्रहः ब्रह्मसूत्रम् अनुभाष्यम् आर्या-सप्तशती आत्मविद्याविलासः बार्हस्पत्यानि नीतिसूत्राणि श्रीभक्तिचन्द्रिका भट्टिकाव्यं भिक्षाटनकाव्यम् ब्रह्मसूत्राणि बृहदारण्यकोपनिषद्भाष्यार्थ बृहद्देवता चाणक्यनीतिदर्पणाः चन्द्रालोकः चमत्कारचन्द्रिका चौरपंचाशिका श्रीशिवराजाभिषेकप्रयोग: । दण्डनीतिः दर्पदलनम् दर्पदलनम् पूर्वपीठिका उत्तरपीठिका दशरूपकम् धर्मसिंधु धर्मपदम् ध्वन्यालोकः विद्यागणपतिवाञ्छाकल्पलता गौतमीयधर्मशास्त्रेः गीतगोविन्दम् श्रीमद्भगवद्गीतामाहात्म्यम् गोंदवलेकर महाराज प्रवचन हरिपाठ: जानकीहरणम् काव्य सारावली श्रीकृष्णकर्णामृतम् काव्यमीमांसा कृष्णभक्तिरत्नप्रकाशः क्रिया-कैरव-चन्द्रिका बृहत्कथामञ्जरी कुमारसम्भवम् श्रीमच्छङ्करदिग्विजय: मालतीमाधवम् मनोबोधः मनुस्मृतिः मयमतम् संस्कृतकाव्यानि मेघदूत नैष्कर्म्यसिद्धिः नलोपाख्यानम् श्रीनारदपञ्चरात्रम् श्रीनारायणीयम् चाणक्यनीतिदर्पणः चाणक्य-सूत्राणि नीतिशतकम् नृसिंहाख्यान श्रीपादुकासहस्रम् सार्थपंचदश्याम् पंचरत्नगीता परशुराम कल्पसूत्र पस्पषाह्निक पतज्जलिचरितम् । प्रबोधसुधाकरः रघुवंश रत्नावली पाञ्चरात्रागमः ऋतुसंहारः साङ्ख्यकारिका सारस्वत चम्पू सौंदर्यलहरी सौत्रामणी शङ्करदिग्विजयम् व्यासशिक्षा शिवानन्दलहरी शिवभारत शिवधनुर्वेदः शिवसंहिता श्लोकवार्तिकभिधः शृंगारशतकम शुक्रनीतिः सिद्धसिद्धान्तपद्धतिः श्रीसूक्तविधानम् श्रीरङ्गनाथपादुकासहस्रम् स्तुतिकुसुमाञ्जलिः सुभाषितरत्नकोशः सुप्रभेदागमः तर्कसंग्रह तत्त्वचिन्तामणी तत्वमुक्ताकलापे उज्ज्वलनीलमणिः वैराग्यशतकम् वैशेषिकदर्शनम् वेदान्त परिभाषा वेदान्तशास्त्रमकरन्दः सर्ववेदान्तसिद्धान्तसारसंग्रहः वेणीसंहारः श्रीकृष्णविलासम् विवेकचूडामणीः वृत्तरत्नाकर याज्ञवल्क्यस्मृतिः योगवासिष्ठम् भल्लटशतकम् काव्यप्रकाश सांख्यकारिका श्रीपादसप्ततिः ब्रह्मविदाशीर्वादः कोकिलसन्देशः परमार्थसारम् परमार्थसारः कुट्टनीमतम् मुकुन्द मुक्तावली मुकुन्दमाला श्रीविचारदीपकः मानमाला अनुत्तराष्टिका रामचापस्तवः रामचापस्तवः रामचापस्तवः Tags : ram chaptsavरामचापस्तवः श्रीरामभद्रदीक्षितविरचितो रामचापस्तवः Translation - भाषांतर यन्मूले रघुनन्दनस्य जगतां त्रातेति कीर्त्यङ्कुरोदेवी चार्चति जानकी सविनयं यद्गन्धपुष्पाक्षतैः ।यत्कोट्या कृतलाञ्छनश्च जलधौ सेतुर्जगत्पावनोभद्रायास्तु जगत्त्रयस्तुतिपदं तद्राघवीयं धनुः ॥१॥यः शत्रुंजयकुञ्जरेश्वरशिरःसंघट्टनाकर्कशेवैदेहीकुचकुम्भपत्रमकरीविन्यासवैज्ञानिके ।चञ्चत्पञ्चवटीकुटीरजटिलव्यूहाय दत्ताभयेपाणौ कौणपवैरिणो विजयते चापाय तस्मै नमः ॥२॥दारुण्यप्यवलम्बिते कृतवतः साकेतराज्यश्रियंकेलिन्यासविधूतगौतमवधूदुःशीलमूलैनसः ।पादस्याक्रमणेन पूतमसकृत्कोटौ गुणारोपणेचापं चन्द्रवतंसचापमथितुर्देवस्य सेवामहे ॥३॥मद्रक्षाकथनेच्छयेव गतया देवस्य कर्णान्तिकंमौर्व्या मार्गणपक्षपातघटनापारीणया संगतम् ।कोटौ चामरहेमभूषणमिषात्कीर्तिप्रतापाङ्कुरौबिभ्राणं करवाणि रावणरिपोश्चापं शरण्यं प्रभोः ॥४॥लब्धोन्मेषविशेषभीषणशिखिज्वालाजटालेक्षण-श्लिष्टाभ्यन्तररुष्टरुद्रनिटिलस्निग्धं विशुध्द्यै गिराम् ।अन्तः संततकाञ्चनाञ्चितशरश्रीमञ्जरीपिञ्जरी-भूतं भातु पुरः कबन्धमथितुर्ज्याबन्धवामं धनुः ॥५॥कल्याणं वितनोतु नः करुणया काकुत्स्थचूडामणे-श्वापः कोपदुरापरुद्रविकटभ्रूवल्लरीविभ्रमः ।यत्रोद्घाटितनैटिलेक्षणपुटप्रोद्दामधूमध्वज-ज्वालावल्लिविडम्बडम्बरमयत्यापिञ्जरा शिञ्जिनी ॥६॥कर्षद्दक्षिणपाणिलग्नसशरज्यावल्लिचक्रीकृतंगृह्णद्वामकराङ्गुलीयकमणिच्छायोल्लसल्लस्तकम् ।संरब्धस्य निषेदुषो रघुपतेरालीढभङ्ग्या रणेधावद्राक्षससैनिकाक्षिविषयं क्षेमाय चापं भजे ॥७॥भास्वच्चन्द्रकलाग्रमाशरकुलासृग्लोहिताङ्गं बुध-ध्येयं चित्रशिखण्डजातघटितं वाल्मीकिकाव्यस्तुतम् ।मन्दस्यापि मतिप्रदं प्रणमतो बाणं रणे बिभ्रतेश्रीरामस्य शरासनाय शिरसि न्यस्ये नमस्याञ्जलिम् ॥८॥भद्रं यच्छति पापमत्ति भणितिं दत्ते यशः पुष्यतिप्रागल्भ्यं विवृणोति तस्य नुवति स्वं यो नरः सूक्तिभिः ।यो देवान्विरुणद्धि विप्रकुरुते विप्रान्निगृह्णाति तंचापं दाशरथेरिति श्रुतवता संसेव्यते तन्मया॥९॥आस्तामिन्द्रयमादिदिक्पतिकुलं तिष्ठन्तु देवास्त्रयोदेवो वा रघुनन्दनो विहरतु स्वैरं समं सीतया ।अस्माकं तु शरण्यमस्ति परमं तत्किंचन प्राणिनांकोटिस्पृष्टपयोधिसेतुसलिलैरेनः पुनानं धनुः ॥१०॥अन्ये केलिगृहीतकालियफणारङ्गस्थलीनर्तन-क्रीडामर्दलवाद्यहृद्ययमुनाकल्लोलकोलाहले ।देवे प्रेम वहन्त्वहं तु कुतुकी काकुत्स्थहस्तद्वयी-रङ्गोत्सङ्गनटे धनुष्यरिभटाक्रन्दोरुभेरीरवे ॥११॥कालव्यालकपालजालघटितस्रग्भारघोरं परेरुद्रं भद्रतृषाविषादकृतधीलोपा वृथोपासताम् ।श्रीमच्चामरबद्धमृद्धसुषुमज्यावल्लिकावेल्लितंदध्यां बुद्धिमहं तु राक्षसचमूहन्तुः प्रणन्तुं धनुः ॥१२॥धावंधावमबन्धगन्धगजवद्विन्ध्याद्रिवन्ध्याटवी-कल्पेऽप्यत्र जगत्त्रये सर इव स्नातुं ममेदं मनः ।नन्वन्विष्यति धन्व मन्वभिजनोत्तंसस्य हंसच्छद-स्वच्छोद्गच्छदभीशुपेशलशिरोबद्धोच्चलच्चामरम् ॥१३॥धर्मे निर्मलमाप्नुयामिति तथा विन्देय मन्देतरा-नर्थानित्यहमत्यये दिवि वधूर्भुञ्जीय मञ्जूरिति ।ब्रह्मानन्दविधायिनीर्मम पुनः प्रामाण्यवाचामपिध्यातव्ये रघुनन्दनस्य धनुषि त्रेधा मनो धावति ॥१४॥नाहं यष्टुमलं भवामि न घटे दातुं धनान्यर्थिनांका शक्तिर्मम दृश्यते तपसितुं दुर्निग्रहे मानसे ।आत्मज्ञानमवाप्नुयामिति तथाप्याराधयेयं गिरावाराशिस्मयघस्मरास्त्रमहसो वीरस्य सारं धनुः ॥१५॥मातुर्गर्भकुटीरमर्भकतनुः संप्राप्य कं प्रायशोनो जन्मानि कियन्त्यगाहिषि कियदुःखं च नाज्ञासिषम् ।दिष्टया संप्रति जायते मम नृणां जन्मात्ययध्वंसनेचापे चन्द्रवतंसचापमथितुर्देवस्य भावः स्थिरः ॥१६॥वल्गन्मन्दरशैलमूलमुखरक्षीरोदपूरोदर-क्षिप्तानर्गलनिर्गलन्नवसुधामाधुर्यधुर्या गिरः ।निर्गच्छन्तु निसर्गवेगविधुतस्वर्लोककल्लोलिनी-गर्वाः शर्वधनुर्विमर्दनधनुःस्तोत्राय वक्रान्मम ॥१७॥कालोन्मीलदमन्दकुन्दमुकुलस्पर्धानिबद्धादर-प्रौढोदारपरप्रबन्धरचनापाण्डित्यनाडिंधमम् ।अस्तु प्रस्तुतदुर्घटस्वमहिमस्तोत्रस्य मे त्रस्यतःखेदच्छेदकृतादरं भगवतश्चापं रुचा बन्धुरम् ॥१८॥गौरीतातगिरीशमञ्जुलदरीकेलीधुरीणामरी-वीणोरीकृतवैखरीमधुझरीपारीणरीतिक्रमम् ।मारीचारिधनुः सरीसृपपुरीनारीजनैरीडितंसारीकृत्य सरीसरीतु हृदि मे भूरीर्वचोमञ्जरीः ॥१९॥चित्रस्वीयचरित्रचिन्तनसुधाकृष्टाय तुष्टूषवेमह्यं स्निह्यतु दातुमुक्तिमवनीपुत्रीशमित्रं धनुः ।श्लाघान्दोलितचन्द्रचूडमकुटीविभ्राम्यदभ्रापगा-पाथःपातगृहीतगर्वगिरिजानेत्रान्तपात्रीकृताम् ॥२०॥पापार्थस्मरणेन जातु जनितं पापं कृपापक्ष्मलोगौरीकान्तशरासनान्तकधनुर्दूरीकरोतु [द्रुतम्] ।नैवं चेत्कथमेष भीषणदवज्वालाकरालाटवी-विक्राम्यद्भवचक्रनिग्रहविधौ प्रागल्भ्यमभ्येतु मे ॥२१॥शस्त्राचार्यभुजंगभूषणधनुर्भङ्गप्रसङ्गश्रव-प्रादुर्भूतरुषः कराद्भृगुपतेर्यद्गृह्णति प्रेयसि ।ईर्ष्यारोषकषायिता दरदलत्कह्लारगर्भश्रियोजानक्या निहिता दृशो हृदि वयं तत्कार्मुकं कुर्महे ॥२२॥सङ्घीभूय कुतूहलेन गगने स्थित्वा मुहुः पश्यतांसंतानद्रुमपुष्पवृष्टय इव स्वर्गौकसां दृष्टयः ।यत्र क्षत्रियकण्ठलाविपरशोर्वीरादुपात्तेऽपत-न्कुर्यामुत्तरकोसलेन्द्रधनुषे तस्मै प्रणामाञ्जलिम् ॥२३॥हेलाकालमुहुर्गृहीतकमलाचेलान्तदृश्यस्तन-श्रीखण्डद्रवमुद्रिताच्युतकरस्पर्शस्फुरत्सौरभम् ।शश्वद्दुप्प्रतिलम्भसंभवमनःशर्मण्यधर्मे ममप्रावण्यं प्रणुदेद्विदेहतनयाप्राणेशबाणासनम् ॥२४॥त्रासोद्भ्रान्तशकुन्तसंततिजवव्याधूतचूताटवी-शाखाशेखरमञ्जरीपरिगलन्माध्वीनिषिक्ताध्वनि ।गोदावर्युपकण्ठसीम्नि कुहनागोकर्णहत्त्यै गुणंयस्यारीरणदीश्वरो रघुभुवां तद्धन्व मन्ये गतिम् ॥२५॥पश्चात्पश्यति बाणपातचकिते शश्वन्निवृत्त्याननंविद्राणे कुहनामृगे विकिरितुं बाणो यदारोपितः ।देवेन श्रवणान्तकृष्टकपिलज्यावल्लि तत्कार्मुकंकेकागर्भितकण्ठकाननशिखिप्रेक्षापदं पातु नः ॥२६॥वेगभ्रंशितवृक्षनीडविहगव्यागीर्णविद्रावित-क्रीडद्रोहितपङ्क्ति दर्भकवलव्यावृत्तमत्तद्विपम् ।द्रागुत्थापितसुप्तकेसरि जनस्थाने खरायोधनेज्याघोषं जहति प्रभोर्धनुषि मे चेतो मुहुर्धावति ॥२७॥वीर्योत्सिक्तखरप्रयुक्तसमरप्रक्रान्तचक्रभ्रमी-चञ्चत्काञ्चनपञ्जरोदरचरश्रीरामकीरार्भके ।धावत्येव मनो विनोदरसिकं दिक्षु प्रविक्षिप्तयाविष्वग्घट्टितहेमपट्टकपिशे चापे रुचा पेशले ॥२८॥त्रासोल्लासविलोललोचननदीपर्यन्तनिर्यन्मृगी-घासग्रासनिरासशासनगिरा ज्यागर्जितेनोर्जिते ।कीशाधीशविनाशसाशयशरव्यामोक्षभीमोद्यमेश्रीमद्रामशरासने सरति मे भद्राय भद्रा मतिः ॥२९॥तद्दिग्भागनिविष्टदृष्टिमचिरव्यापन्नदोर्विक्रमंचेतःस्फीतभयप्ररोहमुदितप्रत्यङ्गरोमोद्गमम् ।उद्यद्गद्गदकण्ठनादमुरसि द्राङ्न्यस्ततीक्ष्णाशुगंकुर्वद्वालिनमाहवे भगवता कृष्टज्यमीडे धनुः ॥३०॥चञ्चच्चामरदामरश्मिहसितैर्व्याप्तोदरौदन्वत-त्वङ्गत्तुङ्गतरङ्गगर्वगरिमप्रध्वंससंसूचनम् ।कोदण्डं कलिखण्डनाय कलये रामस्य भीमस्य त-त्क्षिप्तोद्दीप्तशराग्रजाग्रदनलज्वालाकरालाम्बरम् ॥३१॥यन्मौर्व्यामिपुमोचनाय जलधावास्फालितायां प्रभो-रङ्गुल्या चिरकालविस्मृतमहीकन्याकुचस्पर्शया ।टङ्कारो निरुणद्धि कर्णविवराण्यन्यानि दिग्दन्तिनांशुण्डादण्डमुखेन गाढपिहितात्तन्मे शरण्यं धनुः ॥३२॥वेलाशैलगुहाविहारिवनकर्यादानमोदाकुल-क्रामद्भीमविलासकेसरिमुखव्याकर्षणैकक्षमम् ।तारज्यारवमुद्वमद्रचयितुं भव्यं शरव्यं पयो-राशिं मे शिवलम्भकं भवतु तद्देवस्य तावद्धनुः ॥३३॥कालीयानकरालकण्ठनिनदन्यक्कारलीलासख-ज्याकर्षस्तनितात्तगन्धचकितक्रन्दद्दिशादन्तिनि ।गर्जन्निर्झरिणीशतर्जनदशानिर्यच्छरे धीरियंसीताकान्तकरान्तकेलिसदने काण्डासने खेलति ॥३४॥पारावारतटीकुटीरविटपिस्त्यायत्कुलायस्थित-श्येनोड्डीनविधानकेलिरसिकज्याघोषणाघोरया ।वारिप्रेरितसायकायतशिखाचक्रत्रुटन्नक्रयाभास्वद्वंशवतंसचापलतया नूनं मनो नन्दति ॥३५॥वन्दे कार्मुकमीशकार्मुकभिदो वीरस्य यस्मिन्रुषाकल्पान्तानलकल्पमब्धिहतये बाणाग्निमुन्मुञ्चति ।कन्थादाहधिया करेण ममृशे चूडानदी शंभुनापीठप्लोषविशङ्किना च विधिना स्पृष्टा पयः कुण्डिका ॥३६॥ज्यामौखर्यविदार्यमाणनदराट्पर्यन्तगिर्यन्तरंस्थैर्यौदार्यनिवार्यमेरुमदमत्यैश्चर्यकार्यर्थिनाम् ।पर्यन्तार्णववार्यजीर्यदिषुचर्याश्चर्यधुर्ये नम-स्कुर्यामर्यमवंशजार्यकरयोः पर्यायधार्ये धनुः ॥३७॥ज्याविद्धेषुसमिद्धपावकशिखासंनद्धगाढोद्धत-क्रीडद्वाडवपीडनाचटचटाकुर्वाणसर्वाण्डजात् ।अब्धेर्लब्धतरङ्गमङ्गलमृदङ्गारावधारावता-त्सीतावल्लभचापवल्लिरुदयल्लीलामतल्लीसखी ॥३८॥मौर्वीविद्धशराग्निदग्धकमठीपाठीनगाढोल्लुठ-त्कल्लोलोद्भटपूरपूरणरणत्पर्यन्तगिर्यन्तरे ।अप्राप्तप्रतिबिम्बडम्बरवपुःसिन्धौ कबन्धद्विषःकोदण्डं गुणमण्डितं मम शुचः स्यात्खण्डने पण्डितम् ॥३९॥ज्याविक्षिप्तपृषत्कवल्गदनलक्काथोद्भवद्बुद्बुद-क्षारक्षीरधिपाचिताचिततिमिक्रव्यग्रहव्यग्रया ।त्रासत्यक्तनिवासमब्धिजठराद्दूरे वधूरेखयासाकं कैकसलोकमाकलितवद्देवस्य सेवे धनुः ॥४०॥लङ्कातङ्कविशङ्किशंकरगिरिप्रक्षोभिरक्षोऽभितो-निक्षिप्ताप्तनिशाटपाटनपटुस्फोटप्लवङ्गच्छटे ।विष्वग्विष्वणदिष्वरिष्ववतरज्जन्ये रजन्येधितेमन्ये धन्व शमन्ययाय(?) हृदये मान्यस्य धन्विप्रभोः॥ ४१॥नन्दन्निर्जरवृन्दमुक्तकुसुमैः सुग्रीवविग्रीकृत-प्रक्रान्ताहवकुम्भकर्णदुरवापामन्दगन्धग्रहैः ।सामोदं मनसा मनूद्वहधनुर्ज्याटंक्रियान्धोरग-द्वन्द्वान्योन्यदुरीक्षकेलिविरसाधोलोकमालोकये ॥४२॥सक्रोधप्लवगाग्रणीनखरदश्रेणीनिकृत्तश्रवो-नासत्रासदकुम्भकर्णवदनव्यालोककालोचितम् ।कर्तुं योऽक्षिसहस्रमीलनमलं नासीत्तदा सीदत-स्तस्येन्द्रस्य मनोरथप्रदशरं चापं प्रभोश्चिन्तये ॥४३॥हेषामश्वगणस्य बृंहितमिभव्यूहस्य चक्रक्रम-क्रेकारं रथमण्डलस्य समरे क्ष्वेलां भटानामपि ।भेरीभांकृतिमायुधव्यतिकरध्वानं पृथङ्मागध-स्तोत्रोद्धोषमपि ज्यया परिभवद्देवस्य वन्दे धनुः ॥४४॥एकं देहभृतामुभे हुतनुजस्त्रीण्यामयानां प्रभो-श्चत्वारि द्रुहिणस्य पञ्च विषमापाङ्गस्य षट् शाङ्करेः ।सप्त त्रीणि च रावणस्य फणिनां पत्युः सहस्रं तुद-ज्ज्यानादेन शिरांसि संयति धनुर्यातुद्रुहः पातु नः ॥४५॥शाक्रं स्मारय चाण्डिकं विकलय ब्राह्मं समुत्सारयस्कान्दं तर्जय यानमित्यधिरणं यत्क्रीडति ज्यास्वनैः ।तूर्णे विस्मितसिद्धचारणगणप्रस्तूयमानस्तव-व्याप्ताशेषदिशे नमोऽस्तु धनुषे सप्ताश्ववंशप्रभोः ॥४६॥नश्यन्निद्रमहापुमांसि नटनक्रीडाचलक्रौञ्चभि-द्वाहाञ्चत्तनुरूंहि सुम्भदमनायानाहितक्रुन्धि च ।सीदत्कुम्भिककुम्भि सिद्धपरिरम्भारम्भियोषिन्ति खेकुर्वाणं गुणटंकृतानि समरे कोदण्डमीडे विभोः ॥४७॥यन्मौर्वीनिनदे निरुन्धति युधि द्यावापृथिव्यन्तरंदृग्भिर्द्वादशभिर्विलोक्य शिखिनो यानस्य नृत्तं पुनः ।पड्भिः स्तौति गुहो मुखैः प्रियतमापर्यायपीताधरैःसीतान्तःपुरधन्व तन्मृडजटाशीतांशुवक्रं भजे ॥४८॥स्वं पाशाङ्कुशदन्तमोदकधृतौ दोष्णां चतुष्कं दिश-न्हेरम्बो निजवल्लभामभिमृशन्काञ्चीपदे शुण्डया ।कर्णौ च्छादयितुं विषीदति चिराद्दोरन्तरासंभवा-द्यज्ज्याघोषविजृम्भणे युधि धनुस्तद्राघवीयं भजे ॥४९॥यद्धोषप्रथमप्रबोधितरमाप्राणेशवामेक्षण-च्छायामीलितनाभिपङ्कजकुटीगर्भस्थितोऽप्यब्जभूः ।कर्णैरष्टभिरात्मनोऽप्यकलितामेवाध्यगीष्ट त्रयींनद्धं तेन गुणेन राघवधनुर्विद्येत हृद्येव नः ॥५०॥कल्पापायवितर्ककर्कशहरव्यामुक्तभीमध्वनिंव्यामृष्टान्तरविन्ध्यकन्दरशिलाविष्टब्धदुष्टद्विपम् ।ज्याघोषक्षणमक्षिपत्किल विधिर्यस्य त्रसद्भारती-जिह्वात्यागगृहीतकण्ठवसतिस्तद्रामचापं भजे ॥५१॥कल्पान्तक्षणबद्धकौतुककरप्रस्फालितोरूत्पत-द्भर्गोन्मुक्तमहाट्टहासपरुषज्याघोषविप्रो' 1शार्ङ्गभृतः सुखेन वहता लघ्वीभवन्तीं तनुंचक्रीन्द्रेण कृतस्तवं युधि विभोश्चापं शरण्यं मम ॥५२॥संवर्तव्यतिषङ्गभङ्गुरकृपभ्रूभङ्गगङ्गाधर-क्ष्वेडाचण्डिमगर्वखण्डननिजज्यानाददीनात्मनि ।व्यालेन्द्रस्य दृशां सहस्रयुगले पातालवास्तव्ययाप्रस्ताव्यस्तवविस्तरं जनतया नाथस्य चापं भजे ॥५३॥काकुत्स्थस्य धनुस्तदेव कलये गर्जासृजा यज्ज्ययाबाधिर्ये भुवनत्रयस्य जनिते का मेऽस्तु का मेऽस्त्विति ।बाणोत्खण्डितयातुवीरसुरवाग्गुम्भेन मामेहि मा-मेहीत्यप्सरसां वचांसि च समं कुण्ठीभवन्ति द्यवि ॥५४॥अव्यादव्ययदीव्यदाशुगजवव्याधूतदिव्यापगा-नव्याब्जव्यवसृप्तभव्यमधुपव्याजाभ्रसेव्याम्बरम् ।क्रव्यादव्यथनोत्थनाव्यरुधिरव्याप्ताजि केव्युक्तिभि-र्व्यङ्क्तव्यश्र्यपसव्यसव्यभगवत्पाणिव्यवस्थं धनुः ॥५५॥दुर्लङ्घाशरसङ्घसङ्गरपरिक्रामद्धनूमल्लल-ल्लाङ्गूलाग्रनियन्त्रितप्रतिभटक्रव्यादरोदध्वनिः ।यज्ज्यागर्जितपूर्णकर्णविवरैर्नामानि वैमानिकैःशर्मार्थे नमिकर्म धार्मिकविभोस्तत्कुर्महे कार्मुकम् ॥५६॥खड्गान्पातयतः शरान्विकिरतः शक्तीस्तनौ मुञ्चतःपद्भ्यां मृद्गति मुष्टिना घ्नति तलेनाविध्यति द्वेषिणः ।उत्साहं जनयत्प्रभञ्जनसुते तत्साधु भूयो रणेज्यानादै रघुनाथकार्मुकवरं शर्माणि निर्मातु नः ॥५७॥एकद्वान्वपुषा दृशा त्रिचतुरान्पादाहतैः पञ्चषा-न्सप्ताष्टान्करताडनैर्नवदशाञ्जानुप्रहारैररीन् ।युद्धे द्रावयता कृतं हनुमता चण्डाट्टहासध्वनिंज्यानादेन विवर्धयद्रघुपतेश्चापं भजे संपदे ॥५८॥आढ्यंभावुकमर्चिषा सरभसान्धंभावुकारातिनास्थूलंभावुकहर्षवानरचमूदृष्टिप्रियंभावुकम् ।तत्पायाद्धनुरुत्पतिष्णुविशिखं वर्धिष्णुघण्टारवंरोचिष्णुज्यमलंकरिष्णु समरं वर्तिष्णु हस्ते विभोः ॥५९॥कालीकेलिकरालमांसलरणक्ष्माधूलिपालीजल-क्ष्वेलापेतवलीमुखालिकवलीकालिव्यलीकच्छिदम् ।खेलन्तं गलदर्यरालकुरलाधारालदृक्कज्जलंकालव्यालकुलीनकालियनिभं चापं विभोः शीलये ॥६०॥द्रानिश्चूषितरक्तबीजरुधिरप्राग्भारधारामिल-च्चामुण्डामुखमण्डलोदरचलज्जिह्वालताह्वायिना ।विद्धारिव्रजबिस्रविस्रवदसुग्व्याप्तेन दीप्तौजसाचापः साभरणः शरेण स रणे पायादपायात्प्रभोः ॥६१॥यत्क्षिप्तैरिषुभिर्गृहीतशिरसामायोधने रक्षसांसद्यः स्वर्गमुपेयुषां सुरवधूतुङ्गस्तनालिङ्गिनाम् ।वाग्भिर्मन्मथकेलिगद्गदगिरां प्राचीनवैरत्यजांप्रक्रान्तस्तुति मे चकास्तु हृदये तद्राघवीयं धनुः ॥६२॥स्वर्गस्त्रीग्रहणाद्भयं विदधिरे ये यातुधानाः पुरातैरेव स्वविमुक्तबाणदलितग्रीवैर्दिवं प्रापितैः ।स्वैरं हारयदप्यमर्त्ययुवतीरेषा ममैषा ममे-त्यारब्धस्तुति हृष्यता वलजिता तद्रामचापं भजे ॥६३॥रोषश्लेषखराक्षराक्षसचमूपादातदातद्रुत-क्रोशत्कीशभयापयानपरमज्याघोषघोषद्दिशम् ।चापं तापनिविष्टविष्टपमनःशोकान्तकान्तक्रियंरक्षत्वक्षकुमारमारणमहादूतस्य धन्विप्रभोः ॥६४॥नाराचक्षतयातुवीरवरणव्यापारिपौरंदर-स्थानस्त्रीजननिस्तलस्तनतटीपाटीररेणूत्करैः ।भ्रश्यद्भिः शिशिरांशुरश्मिभिरिव स्फारभ्रमीवारितै-रप्राप्ताटनि ताटकारिपुधनुः पापानि मे पाटयेत् ॥६५॥भक्षालम्पटकङ्कसङ्घचटुलत्रोटीविघट्टत्रुट-द्रक्षःकोटिकरोटिकोटिरटितप्रोद्धाटितक्रूरते ।युद्धे विद्धपतद्धयद्विपतनूविस्रंसिविस्रामिषा-कृष्टक्रोष्टुनि विष्टपत्रयपतेः क्रीडत्तदीडे धनुः ॥६६॥घण्टाचण्डनिनादमण्डितनिजज्यानादनानादल-व्योम्नः स्थेमविधायकायतकुशीनीकाशनैकाशुगम् ।चापं तापविलोपदायि भजतां ध्यायामि मायामृग-प्राणप्रीणितबाणरिङ्खणगुणालंकारि लङ्कारिपोः ॥६७॥हस्ते दाशरथेर्दिशो गुणरवैर्भक्ताय भद्रं द्विषा-माटोपं मरुतां भयं हरिचमूं जेतुं रणे वैरिणः ।भाति प्राति ददाति दाति हरति प्रीणाति जानाति य-त्तद्वाञ्छामि च पूजयामि च धनुर्ध्यायामि च स्तौमि च॥६८॥चक्षुर्लक्षितलोकरक्षि तरुणक्षीबामरैणेक्षणा-द्राक्षेक्षुद्रवमाक्षिकाक्षिपवचः संधुक्ष्यमाणस्तवम् ।अक्षीणाक्षमराक्षसक्षयविधारूक्षेषुविक्षेपणंस्यादैक्ष्वाकऋभुक्षपक्ष्यमशुभक्षोदैकदक्षं धनुः ॥६९॥अक्षुभ्यन्मरुदक्षिवीक्षितरणक्षीवर्क्षकीशाक्षय-क्ष्वेडाधुक्षणदक्षिणक्रियमृभुक्ष्यस्त्रेण भिक्ष्योपमम् ।रक्षस्तत्क्षणशिक्षणक्षमशरक्षेपक्षरज्ज्यास्वन-क्षुण्णक्षेमफणीन्द्रचक्षुरवतादैक्ष्वाकपक्ष्यं धनुः ॥७०॥कान्त्या क्षेपयतीन्द्रकार्मुकमदं मन्दांश्च सेनाहरी-उज्याघोषेण दुरासदं प्रथयति स्वं रक्षसां च व्यथाम् ।बाणं प्रापयति द्विषो यदपि तान्स्वर्वारवामभ्रुवांसंग्रामे तदुमेशचापमथितुश्चापं शुभायास्तु नः ॥७१॥वन्दे मन्दरशैलकन्दरकुटीवास्तव्यजायापति-श्रद्धाभक्तिकृताभिधाजपविधेरीशस्य शस्यं धनुः ।यज्ज्यारावभरावकर्णनदशासातङ्कलङ्कावधू-गर्भस्रावहृतास्रवासववधूवन्दीपुरन्ध्रीनुतम् ॥७२॥तन्वानन्तरशिञ्जिनीरवकिरा शक्रायुधस्य भ्रमंतन्वानं दिवि देवदानवततेरालोकयन्त्या रणम् ।मन्वानं शरणार्थिनामभिमतं यच्छेयमित्यन्वहंमन्वानन्त्यवदन्वयोदधिमणेरन्वेमि धन्वेशितुः ॥७३॥पाणिच्छादितकर्णपत्ति भयभृत्सूतावसीदद्रथंदूरभ्रान्ततुरङ्गमङ्कुशशिखादुर्वारवेगद्विपम् ।लङ्कानाथवरूथिनीं विकलयत्तारेण घोरेण चज्यानादेन रणे धनुर्भगवतो जागर्तु भद्राय नः ॥७४॥सक्रोधं दशकन्धरेण सभयं रक्षोभटानां गणैःसाश्चर्ये कपिसैनिकैः सकुतुकं गन्धर्वविद्याधरैः ।सश्लाघं च विभीषणेन सजयाशंसं च सौमित्रिणादृष्टं शक्रसुतद्विषा युधि धनुर्विष्फार्यमाणं भजे ॥७५॥कालीयप्रतिवंशविंशतिभुजालंकारलङ्कापुरी-नाथकोधनिरोधसाधनकलाधौरेयधीरध्वनिः ।जीवा यस्य वयस्यतामुपगतैवायस्यतो रक्षसांशिक्षायै कलुषक्षयाय भवतात्तद्रामचापं मम ॥७६॥युद्धे यद्गुणघोषणानिशमनप्रोन्मीलदीर्ष्यामिथः-श्लिष्यद्दन्तपरम्पराकटकटाकारातिघोरैर्मुखैः ।पौलस्त्ये दशभिः प्रदर्शितवति क्रोधं वरो धन्विनांश्लाव्यस्यामुमुदे रिपोरुपगमात्तच्चापमर्च्ये मम ॥७७॥प्रत्यग्रप्रणयापराधसमयानानन्दमन्दोदरी-पादाम्भोरुहताडनैरपि सुखाकुर्वद्भिरप्रस्तुतान् ।कुर्वद्गर्वितराक्षसेश्वरशिरःस्तोमान्निरस्तोपमा-ञ्ज्यावल्लिस्तनितेन राघवधनुर्धूनोतु दैन्यं मम ॥७८॥मा युद्धे प्रवृतो मदुज्झितशरैर्मा तेऽसवो विस्रस-न्मा रुद्रं हृदि विस्रभः शरणितं मा ते रुचज्जाल्मता ।इत्याहेव दशास्यमाहवमहीवास्तव्यमस्तव्यय-ज्यानादेन यदानयेदभिमतं तद्रामभद्रायुधम् ॥७९॥स्यादैक्स्वाकसमीकविभ्रमसखं चापं मम श्रेयसेयस्य ज्यानिनदस्तनूकृतदशग्रीवाट्टहासो रणे ।लङ्कोद्याननिरुद्धमुग्धवसुधाकन्याकपोलस्थली-रोमाञ्चव्यतिषङ्गमङ्गलसमारम्भैकभेरीरवः ॥८०॥कुप्यन्मातलिनुन्नवाहनवहत्संक्रन्दनस्यन्दना-क्रामच्चक्रसमुत्थभूमिरजसामोघेन मोघा दृशः ।विभ्राणस्य दशाननस्य वधिरीभावं श्रवोविंशतौकुर्वज्ज्यारसितेन कोसलपतेः कोदण्डमीडे रणे ॥८१॥कल्पान्तोद्भटचण्डमारुतजवप्राग्भारसंघट्टन-क्षुभ्यन्नीरदगर्भनिर्भरमिलन्निर्घोषघोरश्रुतिम् ।ज्यानादं निशमय्य यस्य विवशश्चक्राम मन्दोदरी-कान्तः शान्तमदो मृधे स जगतां नेतुर्धनुः पातु नः ॥८२॥वैरिक्षारितशक्रविक्रमकथानीशानदाशानन-श्लाघालाघवखिन्नकिन्नरवधूहर्षप्रकर्षप्रदम् ।घोरज्यारसितेन मानवपतेः कुर्वे धनुर्वेधसागेयं सायकभूषमेष मनसि क्षेमाय भीमायतम् ॥८३॥लङ्कानाथनिमाथनाथनविधापर्यायपर्यापत-द्गीर्वाणीमुखवाद्यवाद्यपटुतादुर्वारमौर्वीरवम् ।वक्रप्रक्रमदुष्टदिष्टदमनं शक्रायुधप्रक्रिया-निष्णातं रघुमल्लवल्लभधनुर्मुष्णातु तृष्णां मम ॥८४॥मौर्वीकर्पणमण्डलीकृतिवशादुर्वीकुमारीपतेःप्राप्तायाम्बररत्नबिम्बतुलनां सङ्ग्रमरङ्गाङ्गणे ।दुर्दान्ताशरनाथदुर्दमभुजावीर्याम्बुसंशोषणींनाराचद्युतिमञ्जरीं विकिरते चापाय तस्मै नमः ॥८५॥चेतश्चातकपोतकल्पचलितानल्पामरालोकित-श्रीमद्रामशरीरनीरदशचीनाथायुधे धन्वनि ।पङ्तिस्कन्धशरप्रबन्धदलनाधौरंधरीबन्धुरज्याविद्धेषुविमर्ददुर्दिनहरिच्चक्रे मम क्रीडति ॥८६॥दृप्यद्राक्षसराजविंशतिभुजीराजीवनालावली-लावार्धेन्दुमुखेपुमोचनविधिव्याकृष्टमौर्वीरवे ।रन्ध्रं रुन्धति खस्य भिन्दति भृशं कुम्भांश्च दिक्कुम्भिनांतुष्टास्तुष्टुविरे पुरायममरास्तं नौमि चापं विभोः ॥८७॥चण्डीनाथवलीकृतानि चटुलभ्रूवल्लरीकिंकरी-भूतामर्त्यकुलानि मृत्युविमुखीकाराट्टहासानि च ।नाराचेन निराचिकीर्षु समरे शीर्षाणि लङ्कापते-र्मारीचारिकराब्जचारि महता भावेन सेवे धनुः ॥८८॥कल्पान्तोद्भटकालरुद्रवदनव्यादानकेलिस्फुर-द्दंष्ट्राविक्रमगौरवक्रमगलग्राही जिताहीनिषून् ।मुञ्चन्पञ्चशरार्तिकीर्तितपरस्त्रीनामनानामुखेपौलस्त्ये रघुवीरहस्ततुलितश्चापोऽस्तु नस्त्राणदः ॥८९॥यज्ज्यावल्लिविमुक्तशंकरजटाचन्द्राभवक्त्राशुग-च्छिन्नभ्रंशितपङ्क्तिकन्धरशिरोमुण्डावलीताण्डवे ।वेतालाः करतालयन्ति विविधं गायन्ति गोमायवःपश्यन्ति त्रिदशाश्च कश्चन विभोश्चाप: स मे पालकः॥९०॥पौनःपुन्यविलूनपातितनटत्पौलस्त्यदोर्मस्तक-श्रेणीदर्शनभीतसिद्धवनिताप्रोन्मुक्तसंदर्शनम् ।दूरद्रावितरौद्रराक्षसचमूनाथश्रवोदुःश्रव-ज्यानादं जगदीशचापमगदीकर्तुं प्रवर्तेत नः ॥९१॥दंष्ट्राभ्रूकुटिभीमवक्त्रदशकक्रोधाट्टहासप्रभा-निष्पिष्टस्मयहारयष्टिनि दशग्रीवस्य बाह्वन्तरे ।विस्रम्भानुपलम्भकं स्वनुदधज्जम्भारिकौतूहलंनाराचान्निखनद्रणे रघुपतेराराधयामो धनुः ॥९२॥मुष्टीमुष्टि तलातलि प्रचलितं कव्यावशाखामृग-व्यूहस्याहवमैहलौकिककथाप्रस्तारविस्तारकम् ।दृष्ट्वा कष्टमिति त्रिविष्टपजने शंसत्यरं साधयं-स्तत्कामं शरकृत्तरावणवपुश्चापो विभोर्मे गतिः ॥९३॥शश्वन्नश्वरजीवितेश्वरमुखश्रीदृश्वविश्वामरी-,निश्वासश्वसनश्वयद्भुजमहो वैश्वानराश्वेडितम् ।पूर्वं दुर्वहशर्वपर्वतभृतो निर्वाप्य गर्वं द्विषःकुर्वत्सर्वसुपर्वनिर्वृतिमवेदौर्वीसुतेशं धनुः ॥९४॥पौलस्त्योपरमे परस्परबलग्राहावहेलाग्रह-व्यग्रोद्ग्रवलीमुखावलिमुखव्यालोलकोलाहले ।भूकन्याकमनैकपाणिनलिनन्यासेन धन्याटनि-श्वापस्तम्भितशंभुकङ्कणनिभः शर्माणि निर्मातु नः ॥९५॥सिद्धस्त्रीमुखबद्धहासचपलत्वङ्गत्प्लवङ्गच्छटा-वक्त्रानुक्रियमाणकौणपतरुण्याक्रन्दितप्रक्रमे ।युद्धान्ते धनुरिद्धमुद्धतदशग्रीवोन्तवान्ताशर-स्थैर्ये हृन्मम रामभद्रकरभृत्कोटीकमाटीकते ॥९६॥गृह्णद्रामकरारविन्दनखरश्रीपुञ्जमिश्रान्तरा-मश्रान्तं परिचिन्तये हृदि धनुर्वल्लीं रुजाशान्तये ।लङ्कानाथनिपातजातकुतुकव्योमाङ्कसङ्घीभव-द्गीर्वाणीरमणीयगीतिसरणीनिष्पन्नपुष्पामिव ॥९७॥माद्यद्यातु विभिद्य यधुधि शरैरामोद्य विद्याधरी-स्तद्वक्रोद्यतगद्यपद्यनुतिभिः सद्योऽभवद्योजितम् ।धन्व द्योमणिवंशनद्यधिपतिप्रद्योतिशीतद्युते-र्देवाद्यस्य तदद्य हृद्यनुपमां विद्यां प्रदद्यान्मम॥९८॥बाणाशीविषशीर्णशीकरदशीभूताम्बुराशीडितंजन्यं शीतलशीलशालिरधुभूशीतांशुशीघ्रोद्यतम् ।वाताशीशवशीकृतश्रि दशशीर्षाशीःऋशीयस्त्वकृ-त्क्रव्याशीकुलशीधुशीलनहरं चिन्वीत चापं वचः ॥९९॥चञ्चत्कुण्डलगण्डकाण्डरुहभूवाङ्मण्डलीवर्णितंतद्ब्रह्माण्डकरण्डखण्डनगुणोच्चण्डस्वनालंकृतम् ।चण्डीशानशिखण्डखण्डशशभृत्पाण्डित्यवैतण्डिकंमार्ताण्डान्वयमण्डनस्य हृदि मे कोदण्डमाहिण्ड्यते॥१००॥बाणः श्रीरमणो गुणः फणिपतिर्लक्ष्यं पुराणां त्रयंवोढा धूर्जटिरेव यस्य बिसवत्तद्येन लूनं धनुः ।तेन श्रीरघुवीरबाहुयुगलेनारोपणीयं रणेयत्कृच्छ्राद्भवति श्रियं दिशतु मे तच्चापमुच्चावचाम् ॥१०१॥ये स्निह्यन्ति तपस्विनः कथमपि प्रत्याहृतैर्मानसै-र्ये वैते विषयानुरक्तमनसो द्रुह्यन्ति नक्तंचराः ।यल्लीलाव्यपनीयमानतमसः स्वर्यान्ति तेऽपि द्वयेतत्पुण्यं शरणीकरोमि धेरणीकन्यापरिण्यो धनुः ॥१०२॥पुष्यत्तक्षकभोगविभ्रमजुषां येषामभूत्कन्दुक-क्रीडाकौतुकहेतुरद्रिरभवच्च(तुलश्च)न्द्रार्धचूडामणेः ।मौर्व्यै दुर्विनमं दशाननभुजैस्तैरेव शैवं धनु-र्भङ्क्तुर्धन्व विभोः शरण्यमुररीकुर्यामुपर्यायुषे ॥१०३॥कण्ठं रुन्धति भैषजेन महतामच्छिद्यमाने कफेमार्गालाभपरिप्लवेन मरुतां संधौ तनोस्त्रुट्यति ।तामुल्लिख्य दशां विषादविवशं चेतः सुखावाप्तये' चापे दाशरथेर्विषण्णजगतां बन्धाविदं धावति ॥१०४॥यावत्पावकपुञ्जपिञ्जरदृशो हस्तव्युदस्तायुधारुन्धि च्छिन्धि जहीति भीतिदगिरो नृत्यन्ति मृत्योर्भटाः ।तावद्धावतु चित्तमुत्तमगुणाकल्पे ममाल्पेतर-क्षेमस्थेमकरे शरासनवरे रामस्य नाम स्वयम् ॥१०५॥यावद्भीषणवेषकालमहिषग्रीवासमालम्बिनीघण्टा चण्डमुदञ्चयत्यनुपदं नादं जवादम्बरे ।तावद्धावितदूतपातचकितव्यावृत्तकीनाशयामौर्वीटंक्रियया भयं शमयतामौर्वीसुतेशं धनुः ॥१०६॥एषा दक्षिणतो दिगस्तु महतो यस्यां पथो नावधिःपान्थास्तत्र चरन्तु येषु भयदा भ्राम्यन्ति याम्या भटाः ।तेभ्यः पातकिनां व्यथा भवतु या शक्या न सोढुं नृणांका भीतिर्मम यस्य शर्मणि धनुर्जागर्ति सीतापतेः ॥१०७॥यत्तेजस्यति कीर्तिकाम्यति युधि प्रह्वान्कुमारीयतिप्रासादीयति देवहस्तकमले भासेन्द्रचापायते ।रत्नैः पर्वसु लोहितायति भृतैः शब्दायते च ज्ययातन्नः पातु नमस्यतो रघुपतेश्चित्रीयमाणं धनुः ॥१०८॥कल्पत्यर्थिनि कालिकाति रसिते कालाग्नियत्योजसिस्थैर्ये मेरवति श्रिते पितरति श्रीराघवे यायति ।यच्चाप्यर्यमणत्यबोधतमसि द्वीपीनति द्विण्मृगेचापेऽस्मिंस्तपनीयपट्टघटिते कुर्मो नमः कर्मताम् ॥१०९॥योऽपास्यन्नपि मार्गण [निभिमतं] दत्ते जनायार्थिनेस्वीकुर्वन्नपि वक्रिमाणमधिकं यः सद्गुणालंकृतः ।यः श्रीमानपि शश्वदीश्वरकरालम्बेन मध्येकृश-स्तं चापं चलचामराञ्चितशिखं स्तुध्वं खरध्वंसिनः ॥११०॥पुत्रेणेव शिलीमुखेन ऋजुना सज्जाययेव ज्ययारज्ज्यन्त्या सुभटैरुपात्तरुचिभिः सौवर्णपट्टैरपि ।आराध्यस्य रघुप्रवीरधनुषस्त्रैलोक्यरक्षामणेःप्राचीनेन फलोन्मुखेन तपसा दासा वसामो वयम् ॥१११॥इति श्रीरामभद्रदीक्षितविरचितो रामचापस्तवः संपूर्णः । N/A References : N/A Last Updated : February 11, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP