संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं| अनुत्तराष्टिका पुस्तकं अमरकोषः अनेकार्थसङ्ग्रहः ब्रह्मसूत्रम् अनुभाष्यम् आर्या-सप्तशती आत्मविद्याविलासः बार्हस्पत्यानि नीतिसूत्राणि श्रीभक्तिचन्द्रिका भट्टिकाव्यं भिक्षाटनकाव्यम् ब्रह्मसूत्राणि बृहदारण्यकोपनिषद्भाष्यार्थ बृहद्देवता चाणक्यनीतिदर्पणाः चन्द्रालोकः चमत्कारचन्द्रिका चौरपंचाशिका श्रीशिवराजाभिषेकप्रयोग: । दण्डनीतिः दर्पदलनम् दर्पदलनम् पूर्वपीठिका उत्तरपीठिका दशरूपकम् धर्मसिंधु धर्मपदम् ध्वन्यालोकः विद्यागणपतिवाञ्छाकल्पलता गौतमीयधर्मशास्त्रेः गीतगोविन्दम् श्रीमद्भगवद्गीतामाहात्म्यम् गोंदवलेकर महाराज प्रवचन हरिपाठ: जानकीहरणम् काव्य सारावली श्रीकृष्णकर्णामृतम् काव्यमीमांसा कृष्णभक्तिरत्नप्रकाशः क्रिया-कैरव-चन्द्रिका बृहत्कथामञ्जरी कुमारसम्भवम् श्रीमच्छङ्करदिग्विजय: मालतीमाधवम् मनोबोधः मनुस्मृतिः मयमतम् संस्कृतकाव्यानि मेघदूत नैष्कर्म्यसिद्धिः नलोपाख्यानम् श्रीनारदपञ्चरात्रम् श्रीनारायणीयम् चाणक्यनीतिदर्पणः चाणक्य-सूत्राणि नीतिशतकम् नृसिंहाख्यान श्रीपादुकासहस्रम् सार्थपंचदश्याम् पंचरत्नगीता पस्पषाह्निक पतज्जलिचरितम् । प्रबोधसुधाकरः रघुवंश रत्नावली पाञ्चरात्रागमः ऋतुसंहारः साङ्ख्यकारिका सारस्वत चम्पू सौंदर्यलहरी सौत्रामणी शङ्करदिग्विजयम् व्यासशिक्षा शिवानन्दलहरी शिवभारत शिवधनुर्वेदः शिवसंहिता श्लोकवार्तिकभिधः शृंगारशतकम शुक्रनीतिः सिद्धसिद्धान्तपद्धतिः श्रीसूक्तविधानम् श्रीरङ्गनाथपादुकासहस्रम् स्तुतिकुसुमाञ्जलिः सुभाषितरत्नकोशः सुप्रभेदागमः तर्कसंग्रह तत्त्वचिन्तामणी तत्वमुक्ताकलापे उज्ज्वलनीलमणिः वैराग्यशतकम् वैशेषिकदर्शनम् वेदान्त परिभाषा वेदान्तशास्त्रमकरन्दः सर्ववेदान्तसिद्धान्तसारसंग्रहः वेणीसंहारः श्रीकृष्णविलासम् विवेकचूडामणीः वृत्तरत्नाकर याज्ञवल्क्यस्मृतिः योगवासिष्ठम् भल्लटशतकम् काव्यप्रकाश सांख्यकारिका श्रीपादसप्ततिः ब्रह्मविदाशीर्वादः कोकिलसन्देशः परमार्थसारम् परमार्थसारः कुट्टनीमतम् मुकुन्द मुक्तावली मुकुन्दमाला श्रीविचारदीपकः मानमाला अनुत्तराष्टिका अनुत्तराष्टिका अभिनवगुप्तः Tags : anuttarashtikaअनुत्तराष्टिका अनुत्तराष्टिका Translation - भाषांतर संक्रामोऽत्र न भावना न च कथायुक्तिर्न चर्चा न च ध्यानं वा न च धारणा न च जपाभ्यासप्रयासो न च । तत्किं नाम सुनिश्चितं वद परं सत्यं च तच्छ्रूयतां न त्यागी न परिग्रही भज सुखं सर्वं यथावस्थितः ॥ १ ॥ संसारोऽस्ति न तत्त्वतस्तनुभृतां बन्धस्य वार्तैव का बन्धो यस्य न जातु तस्य वितथा मुक्तस्य मुक्तिक्रिया । मिथ्यामोहकृदेष रज्जुभुजगच्छायापिशाचभ्रमो मा किंचित्त्यज मा गृहाण विहर [१] स्वस्थो यथावस्थितः ॥ २ ॥ पूजपूजकपूज्यभेदसरणिः केयं कथानुत्तरे संक्रामः किल कस्य केन विदधे को वा प्रवेशक्रमः । मायेयं न चिदद्वयात्परतया भिन्नाप्यहो वर्तते सर्वं स्वानुभवस्वभावविमलं चिन्तां वृथा मा कृथाः ॥ ३ ॥ आनन्दोऽत्र न वित्तमध्यमदवन्नैवाङ्गनासङ्गवत् दीपार्केन्दुकृतप्रभाप्रकरवन्नैव प्रकाशोदयः । हर्षः संभृतभेदमुक्तिसुखभूर्भारावतारोपमः सर्वाद्वैतपदस्य विस्मृतनिधेः प्राप्तिः प्रकाशोदयः ॥ ४ ॥ रागद्वेषसुखासुखोदयलयाहङ्कारदैन्यादयो ये भावाः प्रविभान्ति विश्ववपुषो भिन्नस्वभावा न ते । व्यक्तिं पश्यसि यस्य यस्य सहसा तत्तत्तदेकात्मतासंविद्रूपम् अवेक्ष्य किं न रमसे तद्भावनानिर्भरः ॥ ५ ॥ पूर्वाभावभवक्रिया हि सहसा भावाः सदाऽस्मिन् भवे मध्याकारविकारसंकरवतां तेषां कुतः सत्यता । निःसत्ये चपले प्रपञ्चनिचये स्वप्नभ्रमे पेशले शङ्कातङ्ककलङ्कयुक्तिकलनातीतः प्रबुद्धो भव ॥ ६ ॥ भावानां न समुद्भवोऽस्ति सहजस्त्वद्भाविता भान्त्यमी निःसत्या अपि सत्यतामनुभवभ्रान्त्या भजन्ति क्षणम् । त्वत्सङ्कल्पज एष विश्वमहिमा नास्त्यस्य जन्मान्यतः तस्मात्त्वं विभवेन भासि भुवनेष्वेकोप्यनेकात्मकः ॥ ७ ॥ यत्सत्यं यदसत्यमल्पबहुलं नित्यं न नित्यं च यत् यन्मायामलिनं यदात्मविमलं चिद्दर्पणे राजते । तत्सर्वं स्वविमर्शसंविदुदयाद्रूपप्रकाशात्मकं ज्ञात्वा स्वानुभवाधिरूढमहिमा विश्वेश्वरत्वं भज ॥ ८ ॥ ॥ इति श्रीमदाचार्याभिनवगुप्तपादैर्विरचितानुत्तराष्टिका समाप्ता ॥ N/A References : N/A Last Updated : January 30, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP