संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्| अध्याय ७८ अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ विषयानुक्रमणिका अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ७८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ७८ Translation - भाषांतर ॥ ईश्वर उवाच ॥अष्टसप्ततिकं विद्धि अविमुक्तेश्वरं प्रिये ॥यस्य दर्शनमात्रेण तीर्थयात्राफलं लभेत् ॥१॥शाकले नगरे देवि चित्रसेनो महीपतिः ॥बभूव भुवि विख्यातो रूपवान्मन्मथाधिकः ॥२॥तस्य चन्द्रप्रभा भार्या प्राणे भ्योऽपि गरीगसी ॥पतिव्रता धर्मशीला रूपयौवनशालिनी ॥३॥अपुत्रस्यापि नृपतेः पुत्री जाता मनोरमा ॥तस्या नाम तदा चक्रे पिता पार्थिवसत्तमः ॥४॥सर्वलक्षणसंपन्ना कन्या लावण्यवत्यपि ॥सापि जातिस्मरा देवी सस्मार च पुरातनम् ॥५॥वैराग्याद्ब्रह्मचर्यं च चचार तनुमध्यमा ॥कदाचिद्यौवनं प्राप्ता सा च पृष्टा नृपेण वै ॥६॥उत्संगे च निजे कृत्वा मूर्ध्नि चाघ्राय हर्षितः ॥पुत्रि प्रदानकालस्ते कस्मै देया वराय च ॥७॥नृपाय नृपपुत्राय संमताय द्विजाय वा ॥वृद्धाय बहुभार्याय ग्रामीणाय च पुत्रिणे ॥हर्षेण चावृतो राजा पुनः पप्रच्छ तां सुताम् ॥८॥पृष्टा च सा यदा देवी न चोवाच नृपं प्रति ॥अधोमुखी च संजाता पुनः प्रोक्ता नृपेण तु ॥९॥यदि मद्वचनं पुत्रि प्रतिभाति न सांप्रतम् ॥वरणं स्वेच्छया पुत्रि कुरु तर्हि स्वयंवरम्॥१०॥इत्युक्ता सा नृपतिना पित्रा प्रोक्ता पुनःपुनः ॥रुरोद सा वै करुणं श्रुत्वा तां कुत्सितां गतिम् ॥११॥जहास चातिहासेन पुनः श्वासांश्च मुंचति ॥प्रहर्षं च पुनः क्षिप्रं प्राप्य वाष्पं च मुंचति ॥१२॥तामवस्थां गतां दृष्ट्वा पुत्री मुन्मत्ततां गताम्॥किमेतदिति भूपालो ग्रसिता किं ग्रहेण वै ॥१३॥भूतेन वा पिशाचेन मत्सुता लक्षणैर्युता ॥इति चिन्तापरो राजा यदा जातो यशस्विनि ॥१४॥तदा प्रोक्तस्तया पुत्र्या मा तात विमना भव ॥नाहं ग्रस्ता ग्रहेणेह न भूतेन न रक्षसा ॥१५॥न पिशाचेन यक्षेण तव कन्या महीपते ॥जातिस्मराहमुत्पन्ना श्रूयतां मम जन्म च ॥१६॥प्राग्ज्योतिषे पुरे विप्रो हरस्वामी बभूव ह ॥भार्याहं दुर्भगा जाता तस्य विप्रस्य पार्थिव ॥१७॥रूपयौवनसंपन्ना तस्य नाहं प्रिया विभो ॥सदा विद्वेषसंयुक्तो मयि निष्ठुरजल्पकः ॥१८॥नान्यस्य कस्यचिद्द्वेष्टा मुक्त्वा मां पृथिवीपते ॥पाणिग्रहणकाले तु ग्रहैः पापैर्विलोकिता ॥१९॥अहमूढां कुलीनेन द्विजेनातिगुणेन च ॥स चावलोकितो विप्रो ग्रहैः पुण्यैर्नराधिप ॥२०॥तेन मे वल्लभो राजन्न चाहं तस्य वल्लभा ॥स सदाचारसंयुक्तो वेदाध्ययनतत्परः ॥२१॥नान्यत्र कुरुते भावं ब्रह्मचर्यव्रते स्थितः ॥ततोऽहं क्रोधसंयुक्ता वशीकरणलंपटा ॥अपृच्छं प्रमदास्तात यास्त्यक्ताः पतिभिः किल ॥२२॥ताभिरुक्ता ह्यहं भूप वश्यो भर्त्ता भविष्यति ॥अस्माकं प्रत्ययो जातस्तस्मात्त्वं कर्तुमर्हसि ॥२३॥भेषजैर्विविधैश्चूर्णैर्मंत्रैर्मोहकरैः परैः ॥तैस्तैस्तु कृतलेपोऽपि भविता दासवत्पतिः ॥२४॥ततोऽहं त्वरिता गत्वा तासां वाक्येन भूपते ॥चूर्णं मन्त्रं गृहीत्वा च प्राप्ता भर्तृगृहं पुनः ॥२५॥प्रदोषे पयसा युक्तश्चूर्णो भर्त्तरि योजितः ॥ग्रीवायां च मया मन्त्रो न्यस्तः सर्वांगसंधिषु ॥२६॥यदा पीतश्च चूर्णस्तु मन्त्रेणातीव गुंठितः ॥वशगस्तत्क्षणाज्जातो मंत्रचूर्णप्रभावतः ॥२७॥द्वारदेशे स्थितः क्रंदन्दासोऽस्मि तव शोभने ॥त्राहि मां शरणं प्राप्तं त्वद्वशोहं च शोभने ॥२८॥तत्तस्य रुदितं ज्ञात्वा मंत्रमाहात्म्यतो नृप ॥स्वस्थीकरणयोगेन तदा स्वस्थः कृतः पतिः ॥२९॥ततः प्रभृति कांतो मे वश्योऽभूद्भवने स्थितः ॥पंचत्वं च गता काले तथा नारकयातनाम्॥३०॥ताम्रभ्राष्ट्रे च दग्धाहं युगानि दश पंच च॥सूक्ष्माणि तिलमात्राणि कृत्वा खंडान्यनेकशः॥छेदिता कालसूत्रेण पीडिता घ्राणयंत्रके॥३१॥क्वाथीभूता तप्ततैलैर्घटे दर्व्याथ लोडिता॥पिष्टा चैव शिलापृष्ठे कुट्टिता लोहमुद्गरैः ॥३२॥दलिता दंतदलने दग्धाहं रौरवे भृशम्॥अधोमुखी विनिक्षिप्ता त्वमेध्ये पूयशोणिते ॥३३॥यान्यापि युवती तात भर्तुर्वश्यं समाचरेत् ॥वृथा धर्मादुराचारा पच्यते नरके भृशम् ॥३४॥भर्त्ता नाथो गुरुर्भर्ता भर्त्ता वै दैवतं परम् ॥भर्त्ता स्वमी सुहृद्भर्त्ता भर्ता च परमं पदम् ॥३५॥तुष्टे भर्त्तरि नारीणां तुष्टाः स्युः सर्वदेवताः ॥विमुखे विमुखाः सर्वे तस्मात्सेव्यः सदा पतिः ॥भस्मीभवति सा नारी यया भर्त्ता न तोषितः ॥३६॥यस्य प्रसादात्प्राप्यंते भोगाश्च विविधाः सदा ॥तं वश्यं कुरुते या च सा कथं सुखमाप्नुयात् ॥३७॥तिर्यग्योनिशतं याति कृमिपक्षिशतानि च ॥तस्मात्तत्तत्सदा कार्यं स्त्रीभिर्भर्तृवचः किल ॥३८॥एवं पुनर्मया भुक्ता नरका भृशदारुणाः ॥तिर्यग्योनिसहस्रं तु कर्मणा कुत्सितेन च ॥३९॥किंचित्पातकशुद्ध्यर्थं चंडालस्य च वेश्मनि ॥जाताहमतिरूपेण पीडिता विविधैर्व्रणैः ॥४०॥सारमेयैर्वृता दीना भक्ष्यमाणा पुनःपुनः ॥दुष्टाहं भक्ष्यमाणापि मार्गे रुद्धा वृकैरहम् ॥तैरहं तुद्यमानापि महाकालवनं गता ॥४१॥दृष्टो मया महादेवो दैवतो मृगमाणया ॥समीपे देवदेवस्य पिप्पलादेश्वरस्य च ॥४२॥तस्य दर्शनमात्रेण गता शक्रपुरं प्रति ॥विमानेन सुदीप्तेन किंकिणीजालमालिना ॥दिव्यांबरधरा दिव्या दिव्यमालाविभूषणा ॥४३॥तत्राहं पूजिता देवैः स्तुताहं चारणैस्तथा ॥दर्शनात्तस्य लिंगस्य जाताहं तव वेश्मनि ॥४४॥वल्लभा रूपसंपन्ना शाकले नगरे शुभे ॥स्मृत्वा तु कुत्सितां योनिं विलापश्च कृतो मया ॥४५॥स्मृत्वा लिंगस्य माहात्म्यं हर्षो जातस्तु तत्क्षणात् ॥तन्मे नैव च वातूल्यं गृहीता न ग्रहेण च ॥४६॥जाता जातिस्मरा तात ब्रह्मचर्यव्रते स्थिता ॥अतो यास्यामि तं देवं दर्शनार्थं पुनः प्रभो ॥यथा न भूयो मे जन्म स्याच्च संसारसागरे ॥४७॥इति पुत्रीवचः श्रुत्वा चित्रसेनो महीपतिः ॥सभृत्यमंत्रिसहितो महाकालवनं गतः ॥४८॥ददर्श तत्र तल्लिंगं पूजयामास भक्तितः ॥सापि दृष्ट्वैव तल्लिंगं तस्मिंल्लिंगे लयं गता ॥४९॥राजा च पुत्रवाञ्जातो लिंगदर्शनतः प्रिये ॥बभूव चक्रवर्ती स यथा स्वायंभुवो मनुः ॥५०॥एतस्मिन्नंतरे देवि दृष्ट्वा देवे लयं गताम् ॥राजपुत्रीं महादेवि कृतं नाम मुदान्वितैः ॥५१॥अविमुक्तस्य लिंगस्य दर्शनादेव तत्क्षणात् ॥अविमुक्तेश्वरो देव इति ख्यातो भवत्विति ॥५२॥योऽसौ काश्यां प्रसिद्धोऽस्ति देवो विश्वेश्वरः शिवः ॥स चैवात्र सुविख्यातोऽविमुक्तेश्वरसंज्ञया ॥५३॥वाराणसी यथा पुण्या तथावंती च मुक्तिदा ॥तस्या दशगुणं पुण्यं श्रूयतेऽत्र विशेषतः ॥५४॥तस्माद्विश्वेश्वरो देवः समायातः कुशस्थलीम्॥यत्रागत्य सुविद्वांसो मानवाः शंसितव्रताः ॥५५॥पश्यंति परया भक्त्या ह्यविमुक्तेश्वरं शिवम् ॥तेषां मुक्तिर्न संदेहो भविष्यति सुनिश्चला ॥५६॥अमुक्ता नैव पश्यंति मुक्ताः पश्यंति सर्वदा ॥ब्रह्मचर्यव्रतैः सम्यगिष्टैः सर्वमखैर्भवेत् ॥५७॥तत्फलं प्राप्यते सम्यगविमुक्तेशदर्शनात् ॥नैःश्रेयसी गतिः पुण्या दर्शनादेव जायते ॥५८॥या गतिः प्राप्यते सांख्यैयोगैर्वा या गतिर्भवेत् ॥सा गतिः नाप्यते सम्यगविमुक्तेशदर्शनात् ॥५९॥जन्ममृत्युभयं हित्वा स याति परमां गतिम् ॥यः पूजयति भावेन ह्यविमुक्तेश्वरं शिवम् ॥६०॥ब्रह्महापि च यो गच्छेदविमुक्तेश्वरं यजेत् ॥तस्य लिंगस्य माहात्म्यात्सर्व्वपापान्निवर्त्तते ॥६१॥शाठ्येनापि च यः पश्येदविमुक्ते श्वरं शिवम्॥स मुंचति जरां मृत्युं जन्म चैतदशाश्वतम् ॥६२॥स्मृतः संपूजितो भक्त्या स्तुतो वा विविधैः स्तवैः ॥मुक्तिं ददाति देवेशो ह्यवि मुक्तेश्वरः शिवः ॥६३॥एष ते कथितो देवि प्रभावः पापनाशनः ॥अविमुक्तेश्वरेशस्य हनुमत्केश्वरं शृणु ॥६४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवन्त्यखण्डे चतुरशीतिलिंगमाहात्म्य उमामहेश्वरसंवादे हनुमत्केश्वरमाहात्म्यवर्णनंनामैअष्टशीतितमोऽध्यायः ॥७८॥ N/A References : N/A Last Updated : December 05, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP