संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्| अध्याय ७ अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ विषयानुक्रमणिका अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ७ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ७ Translation - भाषांतर ॥ श्रीमहादेव उवाच ॥त्रिविष्टपेश्वरं देवि सप्तमं पर्वतात्मजे ॥यस्य दर्शनमात्रेण लभ्यते तत्त्रिविष्टपम् ॥१॥पुरा वाराहकल्पे तु देवर्षिर्नारदोऽमलः ॥त्रिविष्टपं गतो देवि द्रष्टुकामः शतक्रतुम् ॥२॥तत्रोद्यानवने रम्ये कल्पवृक्षैर्विराजिते ॥सर्वत्र कुसुमामोदसुखस्पर्शानिलाकुले ॥३॥वीणावेणुरवैर्घुष्टे देवगंधर्वसेविते ॥वज्रेंद्रनीलवैदूर्यचंद्रकांतादिदीपिते ॥४॥ब्रह्मलोकादिभिर्लोकैरनौपम्यगुणे शुभे ॥ददर्श तत्र देवेशमुपविष्टं शतक्रतुम् ॥स्तूयमानं मुदा देवैः सि द्धचारणकिन्नरैः ॥५॥पृष्टस्तु नारदो देवि वासवेन महामुनिः ॥कथयामास माहात्म्यं महाकालवनस्य च ॥६॥महाकालवनं रम्यं सदानंदकरं शुभम् ॥सेव्यं पुण्यं पवित्रं च तीर्थानामुत्तमोत्तमम् ॥७॥पुण्यं पश्यंति ये लोका महाकालवनं शुभम् ॥ब्रह्महत्यादिकं पापं तेषां नश्यति निश्चि तम् ॥८॥स्वयं तिष्ठति देवोऽत्र सर्वभूतगणैर्वृतः ॥तस्मात्तत्तीर्थमुख्यानां प्रवरं कथ्यते बुधैः ॥९॥पृथिव्यां नैमिषं पुण्यं सर्वपापप्रणाशनम् ॥तस्माद्दशगुणं प्रोक्तं पुष्करं तीर्थमुत्तमम् ॥१०॥ततो दशगुणं प्रोक्तं प्रयागं सर्वकामिकम् ॥तस्माद्दशगुणं प्रोक्तं विख्यातममरेश्वरम् ॥११॥प्राची सरस्वती पुण्या तस्माद्दशगुणा स्मृता ॥तस्मादशगुणं प्रोक्तं गयाकूपं विशिष्यते ॥१२॥तस्माद्दशगुणं देवि कुरुक्षेत्रं विशिष्यते ॥कुरुक्षेत्राद्दशगुणा पुण्या वाराणसी तथा ॥१३॥तस्या दशगुणं श्रेष्ठं महाकालं विशिष्यते ॥महाकालवनं शक्र किल त्रैलोक्यभूषणम् ॥१४॥षष्टि कोटिसहस्राणि षष्टिकोटिशतानि च ॥लिंगानि तत्र विद्यंते भुक्तिमुक्तिकराणि च ॥१५॥शक्तयो नव कोट्यस्तु तस्मिन्क्षेत्रे वसन्ति हि॥१६॥कृमिकीटपतंगाश्च मृता यत्र ततः क्रतौ ॥यांति दिव्यैर्विमानैश्च रुद्रलोकं सनातनम् ॥माहात्म्यमद्भुतं श्रुत्वा नारदात्सुरसत्तमः ॥१७॥सर्वदेव गणैः सार्द्धमाजगाम त्वरान्वितः ॥वासवः श्रीमहाकालवनं हर्षसमन्वितः ॥१- ॥दृष्ट्वा तथाविधं रम्यं महाकालवनं शुभम् ॥त्रिविष्टपादप्यधिकं प्रलयेऽप्यक्षयं स्मृतम् ॥१९॥विचित्राणि च हर्म्याणि कांचनानि शुभानि च ॥प्रासादाः शतशो भौममणिविद्रुमभूषिताः ॥२०॥वज्रेंद्रनीलरचिताः शुद्धस्फटिकसंनिभाः ॥तोरणानि विचित्राणि माणिक्यरचितानि च ॥दृष्ट्वा तथाविधं रम्यं महाकालवनोत्तमम् ॥२१॥नारदं प्रशशंसुस्ते सर्वे देवा मुदान्विताः ॥देवर्षीणां महाप्राज्ञा येनेयं कथिता कथा ॥२२॥न कैलासं गमिष्यामो न च मेरुं तथाविधम् ॥न मंदरं गमिष्यामो न यास्यामस्त्रिविष्टपम् ॥२३॥एषामरावती श्रेष्ठा ह्येषा भोगवती शुभा ॥एषा पैतामहो लोको विष्णुलोकस्तथैव च ॥२४॥एतस्मिन्नंतरे देवि शून्यं जातं त्रिविष्टपम् ॥ज्ञात्वा शून्यमथात्मानं चिंतयित्वा पुनःपुनः ॥गमनाय मतिं चक्रे कृत्वा देहमथात्मनः ॥२५॥त्यक्त्वा मां त्रिदशाः सर्वे महाकालवनं गताः॥अहं तत्रैव यास्यामि यत्र ते त्रिदशा गताः ॥२६॥इत्युक्त्वा तत्क्षणं प्राप्तो महाकालवनोत्तमे ॥कौतुकात्सोऽथ वै श्रेष्ठं तीर्थं तत्रापि भूतले ॥ददर्श रमणीयं तैर्देवैः परिवृतं तदा ॥२७॥एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥भोभोस्त्रिविष्टपात्रैव स्वनाम्ना स्थापयस्व माम् ॥कर्कोटकस्य पूर्वे तु महामायाश्च दक्षिणे ॥२८॥इत्युक्तो देवदेवेन हृष्टस्तद्गतचेतसा ॥स्वनाम्ना स्थापयामास देवं त्रिविष्टपेश्वरम् ॥२९॥पूजयित्वा शुभैः पुष्पैरुवाचेदं वरानने ॥अद्यप्रभृति भूर्लोको नाम्ना ख्यातिं गमिष्यति ॥३०॥ये त्वां पश्यंति यत्नेन अपि दुष्कृत कारिणः ॥ते यास्यंति परं स्थानं दिव्यालंकारभूषिताः ॥३१॥अष्टम्यां च चतुर्द्दश्यां संक्रांतौ वा विशेषतः ॥यः करिष्यति पूजां च भक्तियुक्तो हि मानवः ॥३२॥विमानवरमास्थाय कामगं रत्नभूषितम् ॥उदितादित्यसंकाशं मत्समीपे वसिष्यति ॥३३॥किं दानैर्विविधैर्दत्तैः किं यज्ञैर्विविधैः कृतैः ॥ते प्राप्स्यंति फलं सर्वं ये त्वां द्रक्ष्यंति भक्तितः ॥३४॥यंयं काममभिध्याय पूजयिष्यंति मानवाः ॥तत्तन्मनोरथप्राप्तिर्भविष्यति न संशयः ॥३५॥त्रिदशैश्च पुनः प्रोक्तं दृष्ट्वा मल्लिंगमुत्तमम् ॥त्रिविष्टपेन धन्येन स्थापितं देवमीश्वरम् ॥३६॥पूजयिष्यंति ये धन्या देवं त्रिविष्टपेश्वरम् ॥तेषां वासोऽक्षयो दिव्यो भविष्यति त्रिविष्टपे ॥३७॥इत्युक्त्वा पूजयामास भूयो लिंगं त्रिविष्टपम् ॥सार्द्धं त्रिविष्टपेनैव पुनः स्थानं स्वकं गतः ॥३८॥एष ते कथितो देवि प्रभावः पापनाशनः ॥श्रवणात्कीर्त्तनाद्वापि स्वर्गलोकोऽक्षयो भवेत् ॥३९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये त्रिविष्टपेश्वरमाहात्म्यवर्णनंनाम सप्तमो ऽध्यायः ॥७॥ N/A References : N/A Last Updated : December 02, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP