संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्| अध्याय ५ अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ विषयानुक्रमणिका अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ५ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ५ Translation - भाषांतर ॥ श्रीरुद्र उवाच ॥अनादिकल्पेश्वरं देवं पंचमं विद्धि पार्वति ॥सर्वपापहरं नित्यमनादिर्गीयते सदा ॥१॥कल्पस्यादौ पुरा देवि लिंगमेतद्विनिर्गतम् ॥यदा नाग्निर्न चादित्यो न भूमिर्न दिशो न खम् ॥२॥न वायुर्न जलं चैव न द्यौर्ने न्दुर्ग्रहा न च ॥न देवासुरगंधर्वा न पिशाचा न राक्षसाः ॥३॥अतो लिंगात्समुद्भूतं जगत्स्थावरजंगमम् ॥कालेन च लयं याति लिंगेऽस्मिन्पर्वतात्मजे ॥४॥अस्माल्लिंगात्समुद्भूता वंशा देवर्षिपैतृकाः ॥मन्वंतराणि वंशानि वंश्यानुचरितं च यत् ॥५॥यावत्यः सृष्टयश्चैव यावंतः प्रलयास्तथा ॥समुद्राः पर्वताश्चैव निम्नगाः काननानि च ॥६॥भूर्लोकाद्याश्च ये लोकाः पातालाः सप्त ये स्मृताः ॥गतिस्तथार्कसोमादिग्रहर्क्ष ज्योतिषामपि ॥७॥दृश्यादृश्यं च तत्सर्वमतो लिंगाद्वरानने ॥अनादिकारणं यत्तदव्यक्ताख्यं महर्षयः ॥यदाहुः पुरुषं सूक्ष्मं नित्यं सदसदा त्मकम् ॥८॥ध्रुवमक्षयमजरममेयं नान्यसंश्रयम् ॥गंधरूपरसैर्हीनं शब्दस्पर्शविवर्जितम् ॥९॥अनाद्यंतं जगद्योनिं त्रिगुणप्रभवाव्ययम् ॥असादृश्यमविज्ञेयं लिंगं प्रोक्तं महर्षिभिः ॥१०॥प्रलयस्यांते तेनेदं दिव्यमासीदशेषतः ॥११॥अहमुर्व्यां प्रबुद्धस्तु जगदादिरनादिमान् ॥सर्वहेतुरचिंत्यात्मा परः कोऽप्यपरक्रियः ॥१२॥प्रकृतिं पुरुषं चैव प्रदर्श्याशु जगत्पतिः ॥क्षोभयामास योगेन परेण परमेश्वरः ॥१३॥यथा संनिधिमात्रेण गंधः क्षोभाय जायते ॥मनसो नोपकर्तृत्वात्तथासौ परमेश्वरः ॥अनादिः कथ्यते देवो जगत्कारणतत्परम् ॥१४॥प्रधानं क्षोभ्यमाणं तु तेन लिंगेन पार्वति ॥जायते भुवनाधारो ब्रह्मांड इति विश्रुतः ॥१५॥यस्मिन्नंडे जगत्सर्वं सदेवासुरमानुषम् ॥उत्पन्नं च विलीनं च यस्यांतोऽपि न लभ्यते ॥१६॥स एव क्षोभकः पूर्वं स क्षोभ्यः पृथिवीपतिः ॥स संकोचविकासाभ्यां प्रधानत्वे व्यवस्थितः ॥१७॥उत्पन्नः स जगन्नाथो निर्गुणोऽपि रजोगुणः ॥भुंजन्प्रवर्तते सर्गं ब्रह्मत्वं समुपागतः ॥१८॥ब्रह्मत्वे सृजते लोकांस्ततः सत्त्वातिरेकतः ॥विष्णुत्वमेत्य धर्मेण करोति परिपालनम् ॥१९॥ततस्तमोगुणोद्भिन्नो रुद्रत्वेनाखिलं जगत् ॥उपसंहृत्य वै शेते त्रैलोक्यं त्रिगुणोऽगुणः ॥२०॥यथा प्राग्वापकः क्षेत्री पालको लावकस्तथा ॥स संज्ञा याति तद्वच्च ब्रह्मविष्णुत्वरुद्रताः ॥२१॥ब्रह्मत्वे सृजते लोकानुद्रत्वे संहरत्यपि ॥विष्णुत्वे पाति तान्सर्वांस्तिस्रोऽवस्थाः स्मृताः सदा ॥२२॥रजो ब्रह्मा तमो रुद्रः सत्त्वं विष्णुर्जगत्पतिः ॥एत एव त्रयो वेदा एत एव त्रयो नराः ॥२३॥कल्पे कल्पे ह्यनादिस्तु गीयते त्रिदशैः सदा ॥पितृभिश्च गणैः सिद्धैरतोऽनादिकल्पेश्वरः ॥२४॥नाम प्राप्तं विशालाक्षि महाकालवनं सदा ॥यदा जातो विवादस्तु ब्रह्मणः केशवस्य च ॥२५॥अहं ज्यायानहं ज्यायान्कल्पादौ सृष्टिकारणात् ॥दिव्या समुत्थिता वाणी निरालंबा तदांबरात् ॥२६॥महाकालवने लिंगं कल्पेश्वरेति संज्ञकम् ॥तस्यादिमथवांतं च यः पश्यति स च प्रभुः ॥भविष्यति न संदेहो न वादः क्रियता मिति ॥२७॥ततो देवि गतो ब्रह्मा ऊर्द्ध्वलोकमनंतकम् ॥अधोलोकं गतो विष्णुस्तेन वाक्येन सत्वरम् ॥२८॥नादिर्दृष्टो न चांतश्च ब्रह्मणा केशवेन तु ॥तदा तौ विस्मयापन्नौ तुष्टुवाते परस्परम् ॥२९॥वेदोक्तसूक्तैर्विविधैरभिनंद्य पुरःस्थितौ ॥नादिरस्ति न चांतश्च न च कल्पोऽत्र दृश्यते ॥३०॥तस्मादनादिकल्पोऽयमद्यप्रभृति भूतले ॥ख्यातिं यास्यति नाम्ना च महाकालवनोत्तमे ॥३१॥पञ्चपातकसंयुक्तो यो मर्त्यो दुष्टमानसः ॥सोऽपि गच्छेच्छिवं दृष्ट्वानादिकल्पेश्वरं शिवम् ॥३२॥शिवमस्तु सदा तेषां येषां त्वं दर्शनं गतः ॥ते धन्या मानुषे लोके ये त्वां शरणागताः ॥३३॥सर्वतीर्थाभिषेकैस्तु यत्पुण्यं प्राप्यते नरैः ॥तत्सर्वमधिकं देव लभ्यते तव दर्शनात् ॥३४॥तावत्पतंति संसारे सुखदुःखसमाकुले ॥तावन्न दृश्यते देव संसारार्णवतारकः ॥३५॥यदा पापक्षयः पुंसां तदा त्वद्दर्शनं भवेत् ॥३६॥ब्रह्महा वा सुरापो वा स्तेयी च गुरुतल्पगः ॥तत्संसर्गी नरो यस्तु महाकिल्बिषकारकः ॥सोऽपि याति परं स्थानं पुनरावृत्तिवर्जितम् ॥३७॥यत्फलं चाश्वमेधेन राजसूयेन यत्फलम् ॥तत्फलं समवाप्नोति तव देव समर्चनात् ॥३८॥ते नराः पशवो लोके तेषां जन्म निरर्थकम् ॥यैर्न दृष्टो महादेवोऽना दिकल्पेश्वरः शिवः ॥३९॥इत्युक्त्वा केशवो देवो ब्रह्मा चैव वरानने ॥वामे दक्षिणभागे च तस्य लिंगस्य संस्थितौ ॥४०॥एष ते कथितो देवि प्रभावः पापनाशनः ॥यस्य श्रवणमात्रेण लभ्यते परमं पदम्॥ ४१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखंडे चतुरशीतिलिंगमाहात्म्येऽनादिकल्पेश्वरमाहात्म्यवर्णनंनाम पंचमोऽध्यायः ॥५॥ N/A References : N/A Last Updated : December 02, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP