संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्| अध्याय ५८ अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ विषयानुक्रमणिका अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ५८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ५८ Translation - भाषांतर ॥ ईश्वर उवाच ॥प्रयागेश्वरसंज्ञं तु सर्वकामकरं परम् ॥अष्टाधिकं विजानीहि पंचाशत्तममीश्वरम् ॥१॥आसीत्प्रथमकल्पे तु मनुः स्वायंभुवः पुरा ॥तस्य प्रियव्रतः पुत्रो यज्वा परमधार्मिकः ॥२॥स चेष्ट्वा बहुभिर्यज्ञैः समाप्तवरदक्षिणैः ॥सप्तद्वीपेषु संप्राप्य भरतादीन्सुतान्प्रिये ॥३॥स्वयं विशालां बदरीं गत्वा तेपे महत्तपः ॥कालेन बहुना तत्र नारदः समुपस्थितः ॥४॥पूजितो विष्टरार्घेण राज्ञा प्रियव्रतेन च ॥स पृष्टः पूजयित्वा तु किमाश्चर्यं वदस्व मे ॥५॥इत्युक्तः कथयामास नारदो मुनिसत्तमः ॥श्वेतद्वीपे मया राजन्कन्या दृष्टा सरोवरे ॥६॥सा च पृष्टा विशालाक्षी कस्माद्वससि निर्जने ॥कासि भद्रे कथं वासि किंवा कार्यमिह त्वया ॥७॥कर्त्तव्यं चारुसर्वांगि तन्ममाचक्ष्व शोभने ॥एवमुक्ता मया सा हि मां दृष्ट्वा मीलितेक्षणम् ॥८॥स्मृत्वा तूष्णीं स्थिता यावत्तावन्मे ज्ञानमुत्तमम् ॥विस्मृताः सर्ववेदाश्च सर्वशास्त्राणि चैव हि ॥९॥ततोऽहं विस्मयाविष्टश्चिंतामोहसमन्वितः ॥तामेव शरणं गत्वा यावत्पश्यामि पार्थिव ॥१०॥तावद्दिव्यः पुमांस्तस्याः शरीरे समदृश्यत ॥तस्यापि पुंसो ह्रदये द्वितीयस्तस्य चोरसि ॥तस्यापि हृदये चान्यस्तृतीयस्तु व्यवस्थितः ॥११॥ततः पृष्टा मया देवी सा कुमारी कथंचन ॥वेदा नष्टा ममाशेषा भद्रे किं ब्रूहि कारणम् ॥१२॥॥ कन्योवाच ॥माताहं सर्ववेदानां सावित्रीनाम नामतः ॥मां न जानासि येन त्वमतो वेदा हृतास्तव ॥१३॥एवमुक्ते मया पृष्टा विस्मयेन महीपते ॥वेदानां त्वं तु माता वै कथयस्व ममानघे ॥१४॥त्वदीय हृदये देवि क एते पुरुषास्त्रयः ॥१५॥॥ कन्योवाच ॥य एष मच्छरीरस्थः शुभांगश्चारु शोभनः ॥एष ऋग्वेदनामा तु यजुर्वेदो द्वितीयकः ॥१६॥सामवेदस्तृतीयस्तु त्रयो वेदा मयि स्थिताः ॥त्रयोऽग्नयस्त्रयो देवा मच्छरीरे स्थिता द्विज ॥१७॥इत्युक्त्वा सा तदा कन्या पश्यतो मम भूपते ॥अंतर्द्धानं गता सद्यस्ततोऽहं विस्मितोऽभवम् ॥१८॥किं करोमि क्व गच्छामि शरणं यामि कं प्रभुम् ॥ कथमाविर्भविष्यंति वेदाः शास्त्राणि सांप्रतम् ॥१९॥कामिकस्तीर्थराजस्तु प्रयागः श्रूयते श्रुतौ ॥अहं तत्र गमिष्यामि ज्ञानं सम्यग्भविष्यति ॥२०॥नष्टवेदेन रैभ्येण प्राप्ता सिद्धिरनुत्तमा ॥सावित्री श्रूयते तत्र अक्षय्यवटसन्निधौ ॥२१॥एवं मनसि संध्याय गतोऽहं नृपसत्तम ॥प्रयागं कामिकं तीर्थं सर्वदेवनमस्कृतम् ॥२२॥तपस्तीव्रं मया तत्र तप्तं परमदुष्करम् ॥अथाजगाम राजेंद्र प्रयागो मूर्त्तिमान्स्वयम् ॥२३॥उक्तोऽहं प्रणयात्तेन न मां तापय नारद ॥ब्रह्मपुत्र प्रयागोऽहं भीषितस्तपसा तव ॥२४॥भवतः पार्श्वमायातः प्रणयेन तपोधन ॥धन्योऽसि सर्वथा ब्रह्मंस्तपसा च विशेषतः ॥२५॥मया सार्धं त्वया ब्रह्मन्गतिः कार्याऽविकल्पतः ॥महाकालवने रम्ये तत्र ते ज्ञानमुत्तमम् ॥भविष्यति न संदेहो मम कीर्तिश्च सुस्थिरा ॥२६॥एवं हि ब्रुवतस्तस्य प्रयागस्य नृपोत्तम ॥प्रादुर्बभूव सहसा पीतवासा जनार्द्दनः ॥२७॥शङ्खचक्रगदापाणिर्गरुडस्थो वियद्गतः ॥उवाच मेघगंभीरं वाक्यं स पुरुषोत्तमः ॥२८॥एहि नारद गच्छामः प्रयागो यत्र यास्यति ॥कृष्णस्य वचनं श्रुत्वा मया प्रोक्तो जनार्दनः ॥२९॥ज्ञानं मे देहि देवेश कथं यास्यामि तद्वनम्॥महाकालं जगन्नाथ श्रुतज्ञानविवर्जितः ॥३०॥इत्युक्तः श्रीधरेणाहं महाकालवनं नृप ॥आनीतस्तत्क्षणाच्छीघ्रं प्रयागसहितस्तदा ॥३१॥।घंटेश्वरस्य पूर्वे तु नवनद्यास्तु दक्षिणे ॥तत्र लिंगमनादि तु ज्योतीरूपं सनातनम् ॥३२॥प्रयागः पूजयामास पश्यतो मम भूपते ॥लिंगेनोक्तं प्रसन्नेन किमर्थं त्वमिहागतः ॥३३॥प्रयाग प्रयतो भूत्वा प्रसन्नोऽहं सदा तव॥दर्शनं च मदीयं तु विफलं न भविष्यति ॥३४॥इत्युक्तस्तेन लिंगेन मदर्थं प्रार्थितस्तदा ॥ज्ञानं देहि द्विजायास्मै नारदाय महात्मने ॥३५॥नष्टा वेदाश्च शास्त्राणि सावित्र्या दर्शनात्प्रभो ॥३६॥ततो लिंगात्समुत्तस्थौ ब्रह्मा वेदैर्वृतस्तदा ॥षडंगैः सरहस्यैश्च पुराणैः सहितस्तदा ॥३७॥इत्युक्तोऽहं तदा देव्या सावित्र्या नृपसत्तम ॥लिंगस्यास्य प्रभावेण प्रयागाभ्यर्थितस्य वै ॥३८॥प्रतिभास्यंति ते वेदा धर्मशास्त्राणि नारद ॥इत्युक्ते वचने भूयः प्राप्ता वेदा मया नृप ॥३९॥ज्ञानं षडंगसहितं शास्त्राणि विविधानि च ॥लब्धज्ञानेन राजेंद्र मया प्रोक्तं वचस्तदा ॥४०॥प्रयागेनार्चितो देवो मम ज्ञानस्य कारणात् ॥प्रयागेश्वरसंज्ञस्तु ख्यातिं लोकेषु यास्यति ॥४१॥तदाप्रभृति तल्लिंगं तीर्थकोटिशतैर्वृतम् ॥स्वर्गापवर्गफलदं तत्र त्वं गंतुमर्हसि ॥४२॥किमनेनाश्वमेधेन इष्टेन नृपसत्तम ॥अश्वमेधशतफलं जायते तस्य दर्शनात् ॥४३॥तपसा किं सुतप्तेन कायक्लेशकरेण तु ॥वाञ्छितं लभते सद्यः प्रयागेश्वरदर्शनात् ॥४४॥॥ ईश्वर उवाच ॥नारदस्य वचः श्रुत्वा स्वायंभुवसुतो नृपः ॥प्रियव्रतो महादेवि महाकालवनं गतः ॥४५॥ददर्श तत्र तल्लिंगं नवनद्यास्तु दक्षिणे ॥दर्शनात्तस्य लिंगस्य मत्समीपं समागतः ॥४६॥मया संमानितो देवि गणानामधिपः कृतः ॥ये पश्यंति नरा भक्त्या प्रयागेश्वरमीश्वरम् ॥ते धन्या मानुषे लोके क्लिश्यन्त्यन्ये निरर्थकाः ॥४७॥या गतिर्योगयुक्तस्य सत्त्वस्थस्य मनीषिणः ॥सा गतिर्जायते सम्यक्प्रयागेश्वरदर्शनात् ॥४८॥माघमासे समेष्यंति प्रयागेश्वरदर्शनम् ॥कर्त्तुं ये मानुषास्तेषामश्वमेधः पदेपदे ॥४९॥एष ते कथितो देवि प्रभावः पापनाशनः ॥प्रयागेश्वरदेवस्य शृणु सिद्धेश्वरं परम् ॥५०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्य खंडे चतुरशीतिलिङ्गमाहात्म्ये प्रयागेश्वरमाहात्म्यवर्णनंनामाष्टपंचाशत्तमोऽध्यायः ॥५८॥ N/A References : N/A Last Updated : December 05, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP