संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्| अध्याय २ अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ विषयानुक्रमणिका अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय २ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २ Translation - भाषांतर श्रीरुद्रउवाच ॥शृणु गुहेश्वरं लिंगं द्वितीयं पापनाशनम् ॥यस्य दर्शनमात्रेण जायते सिद्धिरुत्तमा ॥१॥पुरा राथंतरे कल्पे देवदारुवने शुभे ॥ऋषिर्मंकणकोनाम वेदवेदांगपारगः ॥योगाभ्यासरतो नित्यं शांतिदांतिसमास्थितिः ॥२॥सिद्धिकामस्तपस्तेपे कथं सिद्धो भवाम्यहम् ॥रक्तमयविकारोयं कथं यास्यति संक्षयम् ॥३॥इति संचिंत्य हृदये प्रारब्धं तप उत्तमम् ॥बहून्यब्दसहस्राणि तस्यातीतानि पार्वति ॥४॥कस्मिंश्चिदथ काले तु विद्धस्य पर्वतात्मजे ॥कराच्छाकरसो जातः कुशाग्रेण तदैव हि ॥५॥स च दृष्ट्वा तदाश्चर्यं विस्मयं परमं गतः ॥मेने सिद्धिं परां प्राप्तां सगर्वो वाक्यमब्रवीत् ॥६॥अहो तपःप्रभावोऽयं प्राप्ता सिद्धिर्मयाद्य वै ॥मत्तुल्यो नास्ति वै विप्रो येन सिद्धिः समागता ॥७॥शरीरं कुत्सितं चेदं मलमूत्रेण संयुतम् ॥मन्त्रस्नायुवसापृक्तमांसशोणितपूरितम् ॥हर्षेण महता युक्तः स ननर्त्त द्विजस्तथा ॥८॥एतस्मिन्नृत्यति विप्रे जगत्स्थावर जंगमम् ॥अनृत्यद्रागसंयुक्तं प्रभावात्तस्य वै मुनेः ॥९॥न स्वाध्यायो वषट्कारः कर्मकांडो न च क्वचित् ॥१०॥एतस्मिन्नंतरे देवा ब्रह्मविष्णु पुरःसराः ॥मामूचुर्विस्मिताः सर्वे नाथ नृत्यं तदा कुरु ॥११॥ऋषौ मंकणके देव नृत्यति नृत्यति सर्वतः ॥सदेवासुरमानुष्यं सर्वं लोकत्रयं विभो ॥१२॥चलिताः पर्वताः स्थानात्क्षुभिता मेघपंक्तयः ॥शिखराणि विशीर्यंते धरणी पीडिता भृशम् ॥१३॥स्रोतोमात्रा महानद्यो ग्रहा उन्मार्गतः स्थिताः ॥१४॥त्रैलोक्यं व्याकुलीभूतं यावन्नायाति संक्षयम् ॥तावन्निवारयस्वैनं नान्यः शक्तो विना त्वया ॥१५॥तेषां तद्वचनं श्रुत्वा त्रिदशानां यशस्विनि ॥प्रतिज्ञातं मयात्यर्थं गत्वा तस्य समीपतः ॥१६॥द्विजरूपं समास्थाय मया पृष्टो द्विजोत्तमः ॥किमर्थं नृत्यसि ब्रह्मन्कस्मात्ते हर्ष आगतः ॥१७॥विरुद्धमृषिधर्माणां कामरागेण नर्त्तनम् ॥गीतं च नर्त्तनं चैव युवतीजनवल्लभम् ॥१८॥ब्राह्मणस्य तपो भ्रंशः सदाचारस्य सत्तम ॥इति मत्वा द्विजश्रेष्ठ किमर्थं नृत्यसे भृशम्॥ १९॥॥ ऋषिरुवाच ॥किं न पश्यसि भो ब्रह्मन्कराच्छाकरसं च्युतम् ॥अतएव हि मे नृत्यं सिद्धोऽहं नात्र संशयः ॥२०॥तस्य तद्वचनं श्रुत्वा हासोऽतीव मया कृतः ॥अंगुष्ठस्ताडितः स्वीयोंगुल्यग्रेण च पार्वति ॥२१॥ततो विनिर्गतं भस्म तत्क्षणाद्धिमपांडुरम् ॥हासेनोक्तो विशालाक्षि सगर्वो ब्राह्मणो मया ॥२२॥पश्य मेंऽगुष्ठतो ब्रह्मन्भूरि भस्म विनिर्गतम् ॥न नृत्येहं न मे हर्षस्तथापि मुनिस्सम ॥२३॥तद्दृष्ट्वा महदाश्चर्यं लज्जितो द्विजसत्तमः ॥धैर्यं च तादृशं दृष्ट्वा विस्मयं परमं गतः ॥२४॥अब्रवीत्प्रांजलिर्भूत्वा विस्मितेनांतरात्मना ॥नान्यं देवमहं मन्ये त्वां मुक्त्वा वृषभध्वजम् ॥२५॥नान्यस्य विद्यते शक्ति रीदृशी भुवनत्रये ॥तस्मात्क्षमस्व देवेश मयाज्ञानादनुष्ठितम् ॥२६॥तपःक्षयकरं कर्म विरुद्धं नर्त्तनं सताम्॥बहुकालार्जितं पुण्यं तपसा दुष्क रेण तु ॥तद्गतं सहसा देव मदीयं नर्त्तनेन सु ॥२७॥तस्य तद्वचनं श्रुत्वा मयोक्तो द्विजसत्तमः ॥वरं वरय भद्रं ते तुष्टोऽहं द्विजसत्तम ॥२८॥ज्ञानेनानेन विप्रेंद्र कं ते कामं करोम्यहम् ॥२९॥ऋषिरुवाच ॥यदि देव प्रसन्नस्त्वं शरणागतवत्सल ॥यथा न स्यात्तपोहानिस्तथा नीतिर्विधीयताम्॥३०॥मया प्रोक्तं प्रसन्नेन तस्य विप्रस्य पार्वति ॥तपस्ते वर्द्धतां विप्र महाकालवनं व्रज॥३१॥तत्रास्ते सर्वदा पुण्या सप्तकल्पोद्भवा गुहा॥पिशाचेश्वरदेवस्य उत्तरेण व्यवस्थिता ॥३२॥तत्र द्रक्ष्यसि यल्लिंगं सप्तकल्पोद्भवं शुभम्॥तस्य दर्शनमात्रेण तपस्ते वृद्धिमेष्यति ॥३३॥काम क्रोधोद्भवं पापं लोभमोहसमन्वितम् ॥ईर्ष्यामत्सरजं चैव नाशं याति च किल्बिषम् ॥३४॥मदीयं वचनं श्रुत्वा स विप्रो वेदपारगः ॥श्रुत्वा च नियमं देवि मदुक्तं स ततो द्विजः ॥३५॥निःसृतो नियतो भूत्वा नमस्कृत्य पुनःपुनः ॥आजगाम गुहा यत्र महाकालवनोत्तमे॥ ३६॥ददर्श तत्र तल्लिंगं तपसो वर्द्धनं परम् ॥द्वादशादित्यसंकाशो जातो वै लिंगदर्शनात् ॥३७॥एतस्मिन्नंतरे देवि देवैरुक्तं नभस्तले ॥गोप्यं लिंगं गुहोत्थं तु दृष्टं मंकणकेन तु ॥३८॥सिद्धिः प्राप्ता द्विजेनैव दर्शनेन सुदुर्लभा ॥तस्माद्गुहेश्वरो देवि भविष्यति महीतले ॥३९॥भक्त्या परमयोपेता ये द्रक्ष्यंति गुहेश्वरम् ॥न तेषां जायते विघ्नो धर्मस्य तपसस्तथा ॥४०॥अष्टम्यां वा चतुर्दश्यां दर्शनं यः करिष्यति ॥ब्रह्मलोकं गमिष्यंति पितरस्तस्य देहिनः ॥४१॥अत्रागत्य प्रयत्नेन दर्शनं यः करिष्यति ॥उद्धरिष्यति चात्मानं पुरुषानेकविंशतिम्॥ ४२॥कृत्वा पापसहस्राणि दर्शनं यः करिष्यति ॥स याति परमं स्थानं यत्र देवो महेश्वरः ॥४३॥ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ॥दर्शनात्तस्यलिंगस्य सर्वं यास्यति संक्षयम् ॥४४॥यत्किंचिदशुभं कर्म जन्मकोटिशतार्जितम् ॥क्षयं यास्यति तत्सर्वं स्पर्शमात्रेण नान्यथा ॥४५॥महापातकयुक्ता हि देहिनो ये महीतले ॥तेऽपि लिंगं समासाद्य मुच्यंते सर्वपातकैः ॥४६॥इत्युक्त्वा स द्विजो देवि दिव्यो मंकणको मुनिः ॥कृत्वाश्रमपदं पुण्यं तत्रैव तपसि स्थितः ॥४७॥एष वै कथितो देवि प्रभावः पापनाशनः ॥श्रवणात्कीर्त्तनाद्वापि सर्वपापैः प्रमुच्यते ॥४८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्ये गुहेश्वरमाहात्म्यवर्णनंनाम द्वितीयोऽध्यायः ॥२॥ N/A References : N/A Last Updated : December 02, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP