संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्| अध्याय ३३ अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ विषयानुक्रमणिका अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ३३ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ३३ Translation - भाषांतर ॥ श्रीहर उवाच ॥त्रयस्त्रिंशत्तमं देवमानंदेश्वरमीश्वरम् ॥विद्धि पापहरं पुण्यं सर्वसंपत्करं सदा ॥१॥पुरा राथंतरे कल्पे बभूव पृथिवीपतिः ॥अनमित्र इति ख्यातः सार्वभौमो महीतले ॥२॥धर्मात्मा महात्मा च पराक्रमधनो नृपः ॥अतीत्य सर्वभूतानि बभौ भानुरिवाव्ययः ॥३॥समः शत्रौ च पुत्रे च मित्रे च परधर्म्मवित् ॥गिरिभद्रा गिरेः पुत्री तेनोढा वरवर्णिनी ॥४॥अतीव वल्लभा सा च प्राणेभ्योऽपि गरीयसी ॥आनंद इति पुत्रोऽभूत्तस्य ज्ञानरतः सुधीः ॥५॥जातमात्रो निजोत्संगे स्थिरमुल्लाप्य वै पुनः ॥परिष्वजति हार्देन उल्लापयति पुनःपुनः ॥६॥स जातिस्मरणो जातो मातुरुत्संगमास्थितः ॥जहास च तदा माता संक्षुब्धा वाक्यमव्रवीत् ॥७॥भीतास्मि किमिदं वत्स हासो यद्वदने तव ॥अकालबोधः संजातः किंस्वित्पश्यसि शोभनम् ॥८॥इत्युक्तो मातरं प्राह सर्वोऽपि स्वार्थमीहते ॥मां नेतुमिच्छति पुरो मार्जारी किं न पश्यसि ॥अंतर्धानगता चेयं द्वितीया जातहारिणी ॥९॥पुत्रप्रीत्या च मातस्त्वमतः स्वार्थं समीहसे ॥उल्लाप्योल्लाप्य बहुशः परिष्वजसि मां बत ॥१०॥उद्भूते बालके स्नेहात्संभ्रमात्स्त्रीजनोऽप्ययम् ॥ततोयमागतो हासः शृणु चाप्यत्र कारणम् ॥११॥स्वार्थे प्रसक्ता मार्जारी लोलुपा मामवेक्षते ॥तथांतर्द्धानगा चेयं द्वितीया जातहारिणी ॥१२॥त्वं तु क्रमेणोपभोग्यं मत्तः फलमभीप्ससि ॥न मां जानासि कोऽप्येवं न वै चोपकृतं मया ॥१३॥संगतिर्नाति बालानां पंचसप्तदिनात्मकम् ॥तथापि स्निह्यसि प्रीत्या परिष्व जसि संततम् ॥१४॥ततेति वत्स भो भद्र इत्यलीकं ब्रवीषि माम् ॥पुत्रस्य वचनं श्रुत्वा क्रुद्धा माताऽब्रवीदिदम् ॥१५॥नाहं त्वामुपकारार्थं वत्स प्रीत्या परिष्वजे ॥स्वार्थो मया परित्यक्तो यस्त्वत्तो मे भविष्यति ॥१६॥इत्युक्त्वा सा तमुत्सृज्य निष्क्रांता सूतिकागृहात् ॥जहार तत्परित्यक्तं सा तदा जातहारिणी ॥१७॥सा हृत्वा तं तदा बालं पूर्वजातिस्मरं प्रिये ॥हैमिन्याः शयने न्यस्यद्विक्रांतस्य महीभृतः ॥१८॥मत्वा स्वकीयं पुत्रं तु विक्रांतेन महीभृता ॥कृतं वै नामकरणमानंद इति विश्रुतम् ॥१९॥विक्रांतस्य सुतो नीतो बोधस्य च द्विजन्मनः ॥चैत्रनामा कृतस्तेन संस्कृतो वेदमंत्रकैः ॥२०॥तृतीयं भक्षयामास बोधपुत्रं निशाचरी॥जातिस्मरोऽप्यथानंदः कृतोपनयनस्तदा ॥२१॥गुरुणा समनुज्ञातं क्रियतामभिवादनम् ॥जनन्याः प्रागुपस्थानमित्युक्तो वाक्यमब्रवीत् ॥२२॥वंद्या मे कतमा माता जनित्री पालिनी च वा ॥आनंदस्य वचः श्रुत्वा गुरुर्वचनमब्रवीत् ॥२३॥नन्वियं ते महाभाग जनित्री जनकात्मजा ॥विक्रांतस्याग्रमहिषी हैमिनीनाम नामतः ॥२४॥॥आनंद उवाच ॥चैत्रस्य प्रसवित्रीयं चैत्रोऽयं द्विजवेश्मनि ॥संस्कृतो ब्राह्मणैर्मंत्रैर्गिरिभद्रासुतस्त्वहम् ॥२५॥गुरुराह ततः कस्त्वं चैत्रः को वा त्वयोच्यते ॥ततः स कथयामास पूर्ववृत्तांतमादितः ॥२६॥॥ गुरुरुवाच ॥अतीव गहनं वत्स संकटं महदागतम् ॥न वेद्मि किंचिन्मोहेन भ्रमंति मम बुद्धयः ॥२७॥॥ आनंद उवाच ॥मोहस्यावसरः कोऽत्र जगत्येवं व्यवस्थितः ॥कः कस्य पुत्रो विप्रर्षे को वा कस्य न बांधवः ॥२८॥अतः संसारता हंति संसारं प्राणिनामिह ॥महामोहहतं चेतश्चित्रमत्र कथं गुरो ॥२९॥ब्रह्मपुत्रस्य दुष्टस्य दुःसहस्य सुता भुवि ॥जातहारिणिकानाम परिवर्त्तयते सुतान् ॥३०॥मातृद्वयं मया प्राप्तमस्मिन्नेव हि जन्मनि ॥मातृद्वयमथो प्राप्तं जातिं संस्मरता सता ॥३१॥सोऽहं तपः करिष्यामि चैत्र आनीयतामिति ॥ततः सुविस्मितो राजा सभार्यः सह बंधुभिः ॥३२॥तस्मान्निवर्त्त्य ममता मनुमेने च तं प्रति ॥चैत्रमानीय तनयं राज्ययोग्यं चकार सः ॥३३॥सन्मान्य ब्राह्मणं येन पुत्रबुद्ध्या स पालितः ॥सोऽप्यानंदस्तपस्तेपे महाकालवने शुभे ॥३४॥इंद्रेश्वरस्य देवस्य पश्चिमे लिंगमुत्तमम् ॥भक्त्या ह्याराधयामास तपसा दुष्करेण तु ॥३५॥तपस्यंतं ततस्तं तु देवः प्राह शुचिस्मिते ॥किमर्थं तप्यसे वत्स तपस्तीव्रं ब्रवीमि ते ॥३६॥मनुना भवता भाव्यं षष्ठेन व्रज तत्कुरु ॥अलं ते तपसा तस्मिंस्ततो मुक्तिमवाप्स्यसि ॥३७॥इत्युक्तो देवदेवेन तथेत्याह महामतिः ॥बभूव स मनुर्देवि ब्रह्मतुल्यो महायशाः ॥३८॥पुत्रानुत्पादयामास लिंगस्यास्य समर्चनात् ॥कृतं नाम तदा देवैरानंदेश्वरमुत्तमम् ॥३९॥आनंदेन यतः प्राप्ता सिद्धिर्देवि सुदुर्ल्लभा ॥अतो नाम सुविख्यातमानंदेश्वरमीक्ष्यताम् ॥४०॥ये पश्यंति विशालाक्षि आनंदेश्वरमीश्वरम् ॥ते पुत्रपौत्रसंपन्ना भविष्यंति महीतले ॥४१॥येषां क्षीणं नृणां पापं कोटिजन्मशतोद्भवम् ॥तेषां भवति सा भक्तिरानंदेश्वरदर्शनात् ॥४२॥तदैव पुरुषो मुक्तो जन्ममृत्युजरादिभिः ॥यदा पश्यति देवेशमानंदेश्वरसंज्ञकम् ॥४३॥मयोक्तं मुक्तिदं नृणामानन्देश्वरदर्शनम् ॥स्वर्गापवर्गदं देवमानंदं लिंगमुत्तमम् ॥अत्र देवैर्विशालाक्षि पूजितं लिंगमुत्तमम् ॥४४॥एष ते कथितो देवि प्रभावः पापनाशनः ॥आनंदेश्वरदेवस्य शृणु त्वं कंथडेश्वरम् ॥४५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्य आनंदेश्वरमाहात्म्यवर्णनंनाम त्रयस्त्रिंशोऽध्यायः ॥३३॥ N/A References : N/A Last Updated : December 05, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP