संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्| अध्याय ५० अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ विषयानुक्रमणिका अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ५० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ५० Translation - भाषांतर ॥ श्रीमहादेव उवाच ॥शृणु देवि प्रयत्नेन पंचाशत्तममीश्वरम् ॥यस्य दर्शनमात्रेण ग्रहबाधा न जायते ॥१॥संज्ञानाम रवेर्भार्या सा सुता विश्वकर्मणः ॥भर्त्तुस्तेजोऽसहंत्याथ कदाचिच्चैव संज्ञया ॥छायामयी चात्मनस्तु निर्मिता तरसा तया ॥२॥सा प्रोक्ता सादरेणैव स्थीयतां सूर्यसंनिधौ ॥पृष्ट्यापि न वाच्यं ते मदीयं गमनं रवेः ॥३॥इत्युक्त्वा सा तदा संज्ञा जगाम भवनं पितुः ॥संज्ञेयमिति मन्वानो द्वितीयायां दिवस्पतिः ॥जनयामास तनयं नामतो यः शनैश्चरः ॥४॥तस्मिञ्जाते भयं जग्मुः सदेवासुरमानुषाः ॥त्रैलोक्यं जातमात्रेण आक्रांतं सचराचरम् ॥५॥इन्द्रोऽपि भयसंत्रस्तो ब्रह्माणं शरणं गतः ॥सूर्यपुत्रस्य वृत्तांतं कथयामास गद्गदम् ॥६॥भिन्नं तु रोहिणीचक्रं व्याप्तं नक्षत्रमंडलम् ॥जातमात्रेण चाक्रांतं त्रैलोक्यं रविसूनुना ॥७॥वासवस्य वचः श्रुत्वा ब्रह्मा लोकपितामहः ॥आहूय सहसा सूर्यं वचनं चेदमब्रवीत् ॥८॥मर्यादा क्रियतां भानो वार्यतां पुत्र औरसः ॥आक्रांतं तेजसा तेन त्रैलोक्यं भूभुवादिकम्॥ ९॥ब्रह्मणो वचनं श्रुत्वा रविणा प्रोक्तमीदृशः ॥असाध्योऽयं मम सुतो वार्यतां स्वयमेव तम् ॥१०॥पश्य मे चरणौ दग्धौ दृष्टिमात्रेण लीलया॥ब्रह्मापि भयसंत्रस्तो जगाम मनसा हरिम् ॥११॥सूर्यस्य वचनं श्रुत्वा हरिः प्राप्तस्तु तत्क्षणात् ॥ब्रह्मणो वचनं श्रुत्वा भीतः कृष्णोऽब्रवीदिदम् ॥१२॥गम्यतां तत्र यत्रास्ते देवदेवो महेश्वरः ॥कृष्णस्य वचनात्सर्वे ममांतिकमुपागताः ॥१३॥वृत्तांतः कथितः सर्वो रविपुत्रस्य पार्वति ॥मया स्मृतस्तु संप्राप्तः सूर्यपुत्रस्तु तत्क्षणात् ॥१४॥अधोदृष्टिर्मया दृष्टो वक्रांगो रूपतोऽसितः ॥स्थैर्यं कृत्वा नमस्कृत्य विज्ञप्तोऽहं शनैःशनैः ॥१५॥किमर्थं वै स्मृतो देव देह्याजां मम शंकर ॥आदेशे तव तिष्ठामि किं करोमि प्रशाधि माम् ॥१६॥इत्युक्तोऽहं तदा तेन रविपुत्रेण पार्वति ॥मया स वारितोऽत्यर्थं मा पीडय जगत्त्रयम् ॥१७॥तेनोक्तं देहि मे स्थानं पानमाहारमेव च ॥मया दत्तं विशालाक्षि पूजार्थं स्थानमुत्तमम् ॥१८॥मेषादिराशिसंस्थः संस्त्रिंशन्मासान्प्रपीडय ॥मानुषान्क्रमशो वत्स तत्र तृप्तिमवाप्स्यसि॥ १९॥अष्टमश्च चतुर्थश्च द्वितीयो जन्मसंस्थितः ॥द्वादशराशिसंस्थोऽपि विरुद्धो भव सर्वदा ॥२०॥एकादशो वा षष्ठो वा तृतीय स्थानगोथवा ॥भव भव्यतरो नॄणामतः पूजा भविष्यति ॥२१॥पंचमो नवमश्चैव उदासीनस्तु सप्तमः ॥भव राशिगतो नित्यं मानुषे कर्म भिर्युते ॥२२॥पूजां प्राप्स्यसि चात्यर्थं ग्रहाणामधिकं सदा ॥गतिः स्थिरा भवित्री ते वरः श्रेष्ठोभिधीयते ॥२३॥अतस्ते स्थावरं नाम भविष्यति महीतले ॥शनैश्चरस्त्वं राशिस्थो ग्रहाणामधिको यतः ॥२४॥अतः शनैश्चरोनाम भविष्यसि सदा भुवि ॥गजगण्डनिभाकारो मम कण्ठसमोपि च ॥२५॥वर्णतो ह्यसितो नाम भविष्यसि महीतले ॥ग्रहमध्ये ह्यधोदृष्टिर्गतिर्मंदा भविष्यति ॥तुष्टो ददासि राज्यं च रुष्टो वै हरसि क्षणात् ॥२६॥देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः ॥त्वत्क्रूरदृष्टिनिहता नाशं यास्यंति नान्यथा । २७॥तव प्रसादात्प्राप्स्यंति मनोऽभीष्टं सुदुर्ल्लभम् ॥अन्यच्च ते प्रदास्यामि स्थानं गुह्यं मनोहरम् ॥२८॥मनोभीष्टकरं पुण्यं देवदानवदुर्लभम् ॥प्रलयेऽप्यक्षयं प्रोक्तं महाकालवनं परम्॥ २९॥तत्र गच्छ ममादेशत्त्वपृथुकेश्वरपश्चिमे ॥विद्यते तत्र यल्लिंगं तत्ते नाम्ना भविष्यति ॥३०॥कीर्त्तिरेषा त्वदीयापि त्रैलोक्ये भविता धुवम्॥ ३१॥इत्युक्तः स्थावरो देवि ममाज्ञापालकस्तदा ॥जगाम त्वरितो रम्यं महाकालवनं शुभम् ॥३२॥दृष्ट्वा तत्रैव तल्लिंगं स्थानं लब्धं सुशोभनम्॥तल्लिंगं भुवने ख्यातं नामतः स्थावरेश्वरम् ॥३३॥शनिनोक्तं तदा देवि येऽत्र द्रक्ष्यंति भक्तितः ॥मया प्रपूजितं लिंगं विख्यातं स्थावरेश्वरम् ॥तेषां पीडा मदीया तु न भविष्यति कर्हिचित् ॥३४॥मदीये च दिने यो वै नियमेन प्रपश्यति ॥तस्याहं सकलां बाधां शमयिष्याम्यसंशयम् ॥३५॥धक्ष्यामि सततं पीडामन्यग्रहकृतामपि ॥मदीयं च भयं तस्य स्वप्नेऽपि न भविष्यति ॥३६॥न ग्रहा न पिशाचाश्च न यक्षा न च राक्षसाः ॥विघ्नं कुर्वंति तस्यापि मयि तुष्टे न संशयः ॥३७॥संक्रांतौ शनिवारे च व्यतीपातेऽयने तथा॥ये पश्यंति नरा भक्त्या लिंगं वै स्थावरेश्वरम् ॥भविष्यत्यक्षयस्तेषां स्थिरो वासस्त्रिविष्टपे ॥३८॥नियमेन प्रपश्यंति मम वारेऽत्र ये नराः ॥न तेषां दुष्कृतं किंचिद्दुष्कृतोत्था न चापदः ॥३९॥भविष्यति न दारिद्र्यं न चैवेष्टवियोजनम् ॥दास्यामि पुत्रकामस्य फलं पुत्रकृतं सदा ॥४०॥अधनस्य धनं चैव भयार्त्तस्याभयं तथा ॥स्वर्गं वै स्वर्गकामस्य प्रयच्छामि च वांछितम् ॥४१॥इत्युक्त्वा पूजयामास भूयो लिंगं शनैश्चरः ॥पूजयित्वा शुभैः पुष्पैर्भक्त्या तत्रैव संस्थितः ॥४२॥एष ते कथितो देवि प्रभावः पापनाशनः ॥स्थावरेश्वरदेवस्य शूलेश्वरमथो शृणु ॥४३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये स्थावरेश्वरमाहात्म्य वर्णनंनाम पंचाशत्तमोऽध्यायः ॥५०॥ N/A References : N/A Last Updated : December 05, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP