संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|पुरुषोत्तमजगन्नाथमाहात्म्यम्| अध्याय ४९ पुरुषोत्तमजगन्नाथमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ विषयानुक्रमणिका पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय ४९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय ४९ Translation - भाषांतर ॥मुनय ऊचुः ॥भगवञ्जैमिने सर्वं वेदवेदांगपारग ॥त्वदनुग्रहतोऽस्माभिर्माहात्म्यं जगदीशितुः ॥१॥क्षेत्रराजस्य तस्यैव यात्राणां चैव सर्वशः ॥भगवद्भोजनोच्छिष्टप्राशनादिफलं तथा ॥२॥इंद्रद्युम्नस्य राज्ञो वै वृत्तांतमतिदुर्लभम् ॥नीलमाधवरूपं तु दारुब्रह्मप्रकाशनम् ॥३॥श्रुतं त्वद्वदनांभोजाद्गलितं तद्यथाविधि ॥इदानीं श्रोतुमिच्छामस्त्वत्तो हि वदतां वर ॥४॥सर्वं विस्तरतो ब्रह्मन्वयं सर्वे मुदान्विताः ॥पुराणश्रवणस्यैव यदुक्तं फलमेव तत् ॥५॥को वा तस्य विधिश्चैव केन वा स्यात्तु सांगकम्॥अस्मासु चेदनुक्रोशो यथावद्वक्तुमर्हसि ॥६॥॥जैमिनिरुवाच ॥साधु साधु मुनिश्रेष्ठा यत्पृष्टं परया मुदा ॥तत्र मे प्रीतिरतुला जाता रोमांचकारिणी ॥७॥तद्वः सर्वं प्रवक्ष्यामि शृणुध्वं सावधानतः ॥पुराणश्रवणारंभे यथाविभवमात्मनः ॥८॥आदौ संकल्प्य विधिवद्ब्राह्मणं शुद्धवंशजम् ॥अव्यंगावयवं शांतं स्वशाखं स्वपुरोधसम् ॥९॥सर्वशास्त्रार्थतत्त्वज्ञं भूषणैरतिशोभनैः ॥वस्त्रचंदनमाल्याद्यैर्वृणुयात्पाठसंश्रुतौ ॥१०॥कृतांजलिपुटो भूत्वा ततः संप्रार्थयेद्द्विजम् ॥त्वं विष्णुर्विष्णुरेव त्वं न तु भेदः कदाचन ॥११॥निर्विघ्नं मे भवत्वेव त्वत्प्रसादात्प्रसीद च ॥ततो वृतं ब्राह्मणं च बहुमूल्यासने शुभे ॥१२॥वासयित्वा च तस्यैव गले मालां विनिक्षिपेत् ॥मस्तके पुष्पगर्भं च चंदनैरनुलेपयेत् ॥१३॥यस्मात्तस्मिंश्च समये विप्रो व्याससमो मतः ॥तेनैव ब्राह्मणेनैव पुस्तके विष्णुरूपके ॥१४॥कारयेद्व्यासपूजां च श्रीखण्डागुरुपुष्पकैः ॥नानोपचारै रुचिरैर्भक्ष्यभोज्यादिकैरपि ॥१५॥भक्त्या चासनदानादिविधिः कार्यो दिने दिने ॥सांप्रतं कथयाम्येवं श्रूयतां श्रोतृलक्षणम् ॥१६॥गतानुगतिकानां च निवासार्थं तथा द्विजाः ॥आसनानि यथायोग्यं रचयित्वा स्वयं तथा ॥१७॥शुभासनांतरस्थो हि भवेदुत्कण्ठमानसः ॥अथवा संस्कृते देशे सर्वैः सह वसेद्भुवि ॥१८॥व्यासस्याग्रे निवसतिरासने नोच्च एव च ॥कृतस्नानो मुदा युक्तो धारयंञ्छुक्लवाससी ॥१९॥आचांतः शंखचक्रादितिलकान्वितविग्रहः ॥मनसा भावयेद्विष्णुं विश्वासं कारयेद्भृशम् ॥२०॥पुराणे ब्राह्मणे चैव देवे च मंत्रकर्मणि ॥तीर्थे वृद्धस्य वचने विश्वासः फलदायकः ॥२१॥अतो मुनिवराः सर्वं पुण्यं विश्वासकारणम् ॥पाषंडादिकसंभाषं वृथालापं प्रयत्नतः ॥२२॥पुराणश्रवणे काले सर्वचिंतां च वर्जयेत् ॥अनेन विधिना विप्राः प्रत्यहं शृणुयान्मुदा ॥२३॥ततः पाठे समाप्ते च करतालादिकैर्मुहुः ॥जय कृष्ण जगन्नाथ हर इत्यादिनामभिः ॥२४॥विस्तारयेद्यथाकाशे श्रूयते शब्द एव सः ॥एवं च प्रत्यहं कुर्यात्प्रीतये मुरवैरिणः ॥२५॥ततो ग्रंथसमाप्तौ च विष्णुप्रीणनतत्परः ॥विशेषाद्वस्त्रमाल्यादिचंदनैर्भूषणैस्तथा ॥भूषयेत्परया भक्त्या विप्रं व्याससमं द्विजाः ॥२६॥आत्मशक्त्या प्रदद्याच्च दक्षिणां वै यथाविधि ॥ये ये प्रदद्युर्यद्यच्च मत्तस्तच्छृणुताधुना ॥२७॥राजानः करिणो दद्युः सालंकारान्सुलक्षणान् ॥क्षत्रिया एवमेवं च ते वै राजसमा मताः ॥२८॥ब्राह्मणाः पुस्तकांश्चैव विष्णोरर्चाकरंडिकाः ॥कनकं रजतं चैव धान्यं वस्त्रं स्वभक्तितः ॥२९॥विशश्च रत्नभूषाढ्यान्सिन्धुदेशोद्भवानपि ॥गाश्च लक्षणसंयुक्ताः सवत्साश्च पयस्विनीः ॥३०॥अन्यच्च कनकाद्यं च त्यजेयुर्धर्मतत्पराः ॥शूद्राः प्रदद्युः परया मुदा संयुक्तमानसाः ॥३१॥वासांसि च सुवर्णं च धान्यं रत्नानि गास्तथा ॥नानालंकारयुक्ताश्च घटोघ्नीर्बालगर्भिणीः ॥३२॥एवं वै दक्षिणां दद्याद्येन संतुष्यते गुरुः ॥आत्मनः शक्तितो विप्रा वित्तशाठ्यं न कारयेत् ॥३३॥शांतिकं पौष्टिकं चैव व्रतोद्वाहादि कर्म च ॥मोक्षस्य साधकं कर्म पुराणश्रवणं तथा ॥३४॥यज्ञादिकं च दानं च व्रतं नानाविधं तथा ॥यदि चेद्दक्षिणाहीनं तदा भवति निष्फलम्॥३५॥असुराः कर्मणस्तस्य हरंति फलमेव तत् ॥यथा स्त्रीणां च लावण्यं भर्तृस्नेहविवर्जितम् ॥३६॥युद्धात्पलायितानां च पृष्ठं कृत्वा धनुष्मताम् ॥विना धावनमश्वानां दुष्टत्वं हि यथा द्विजाः ॥३७॥मूकत्वेनेव पांडित्यं सर्वशास्त्रविपश्चिताम् ॥हीनं दक्षिणया यद्यत्कर्म तद्वच्च निष्फलम् ॥३८॥दानेन क्षीयते यस्मादुरितानां कदंबकम् ॥दक्षिणेति तथा विप्रा गीयते शास्त्रवेदिभिः ॥३९॥ततो विप्रान्भोजयेद्वै यथाशक्तिप्रकल्पितैः ॥कर्पूरेण च खंडेन सर्पिषा पायसैर्युतैः ॥४०॥षड्विधैरन्नपानाद्यैः सुस्वादैरमृतोपमैः ॥तेभ्योपि स्वर्णवस्त्रादि यथाशक्त्या प्रदापयेत् ॥४१॥एतद्वः कथितं सर्वं पुराणश्रवणस्य च ॥सांगोपांगविधानं च येन स्यात्सफलं त्विदम् ॥इदानीं भो मुनिश्रेष्ठाः किमन्यज्ज्ञातुमिच्छथ ॥४२॥॥ मुनय ऊचुः ॥अहोऽस्माकं महाभाग्यं यत्पापौघविनाशनम् ॥पुराणश्रवणस्यैव फलमस्माभिरेव च ॥४३॥सांगोपांगविधानं च श्रुतं त्वन्मुखपंकजात् ॥धन्याः स्म कृतपुण्याः स्म संसारे विगतज्वराः ॥४४॥इदानीमात्मशक्त्या वै दीयते भवते मुने ॥दक्षिणा फलसंप्राप्त्यै प्रसन्नस्त्वं गृहाण च ॥४५॥इत्युक्तवंतो मुनयो ह्यकिंचनाः समित्कुशं पुष्पफलाक्षतादिकम् ॥क्लृप्त्वा च तस्मै मुनयः सुमुक्ताः क्षेत्रोत्तमं जग्मुरतिप्रहर्षिताः ॥४६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्र माहात्म्ये जैमिनिऋषिसंवाद एकोनपंचाशत्तमोऽध्यायः ॥४९॥इति वैष्णवखण्डे द्वितीयं श्रीपुरुषोत्तम (जगन्नाथ) क्षेत्रमाहात्म्यं समाप्तम् ॥ N/A References : N/A Last Updated : October 28, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP