संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|पुरुषोत्तमजगन्नाथमाहात्म्यम्| अध्याय १ पुरुषोत्तमजगन्नाथमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ विषयानुक्रमणिका पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय १ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय १ Translation - भाषांतर ॥ अथ श्रीस्कांदे महापुराणे द्वितीये वैष्णवखंडे पुरुषोत्तम (जगन्नाथ) क्षेत्र- माहात्म्य प्रारंभः ॥॥ श्रीगणेशाय नमः ॥अथ पुरुषोत्तम (जगन्नाथ) क्षेत्रमाहात्म्य प्रारम्भः ॥नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥१॥॥ मुनय ऊचुः ॥भगवन्सर्वशास्त्रज्ञ सर्वतीर्थमहत्त्ववित् ॥कथितं यत्त्वया पूर्वं प्रस्तुते तीर्थकीर्तने ॥पुरुषोत्तमाख्यं सुमहत्क्षेत्रं परमपावनम् ॥२॥यत्रास्ते दारवतनुः श्रीशो मानुषलीलया ॥दर्शनान्मुक्तिदः साक्षात्सर्वतीर्थफलप्रदः ॥३॥तन्नो विस्तरतो ब्रूहि तत्क्षेत्रं केन निर्मितम् ॥ज्योतिःप्रकाशो भगवान्साक्षान्नारायणः प्रभुः ॥४॥कथं दारुमयस्तस्मिन्नास्ते परमपूरुषः ॥वद त्वं वदतां श्रेष्ठ सर्वलोकगुरो मुने ॥५॥श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि नः ॥॥ जैमिनिरुवाच ॥शृणुध्वं मुनयः सर्वे रहस्यं परमं हि तत् ॥६॥अवैष्णवानां श्रवणे भक्तिस्तव न जायते ॥यस्य संकीर्तनादेव सकलं लीयते तमः ॥७॥यद्यप्येष जगन्नाथः सर्वगः सर्वभावनः ॥स्कन्देन कथितं पूर्वं श्रुत्वा शंभोर्मुखाम्बुजात् ॥संति क्षेत्राणि चान्यानि सर्वपापहराणि वै ॥८॥एतत्क्षेत्रं परं चास्य वपुर्भूतं महात्मनः ॥स्वयं वपुष्मांस्तत्रास्ते स्वनाम्ना ख्यापितं हि तत् ॥९॥तत्र ये स्थातुमिच्छंति तेपि सर्वे हतांहसः ॥किं पुनस्तव तिष्ठंतो ये पश्यन्ति गदाधरम् ॥१०॥अहो तत्परमं क्षेत्रं विस्तृतं दशयोजनम् ॥तीर्थराजस्य सलिलादुत्थितं वालुकाचितम् ॥११॥नीलाचलेन महता मध्यस्थेन विराजितम् ॥एकस्तनमिव पृथ्व्याः सुदूरात्परिभावितम् ॥१२॥वराहरूपिणा पूर्वं समुद्धृत्य वसुन्धराम् ॥सर्वतः सुसमां कृत्वा पर्वतैः सुस्थिरीकृताम् ॥१३॥सृष्ट्वा चराचरं सर्वं तीर्थानि सरिदब्धिकान् ॥क्षेत्राणि च यथास्थानं संनिवेश्य यथा पुरा १४॥ब्रह्मा विचिन्तयामास सृष्टिभारनिपीडितः ॥पुनरेतां क्रियां गुर्वीं नारभेय कथं त्विति ॥१५॥तापत्रयाभिभूता हि मुच्यंते जंतवः कथम् ॥एवं चिन्तयमानस्य मतिरासीत्प्रजापतेः ॥१६॥मुक्त्येककारणं विष्णुं स्तोष्ये ऽहं परमेश्वरम् ॥॥ ब्रह्मोवाच ॥नमस्ते जगदाधार शङ्खचक्रगदाधर ॥१७॥यन्नाभिपंकजादेव जातोऽहं विश्वसृष्टिकृत् ॥परमार्थस्वरूपं ते त्वं वै वेत्सि जगन्मय ॥१८॥यन्मायया जगत्सर्वं निर्मितं महदादिकम् ॥यन्निःश्वाससमुद्भूतं शब्दब्रह्म त्रिधाऽभवत् ॥१९॥उपजीव्य तदेवाहमसृजं भुवनानि वै ॥त्वत्तो नान्यः स्थूलसूक्ष्मदीर्घह्रस्वादि किंचन ॥२०॥विकारभेदैर्भगवंस्त्वमेवेदं चराचरम् ॥कटकादि यथा स्वर्णं गुणत्रयविभागशः ॥२१॥स्रष्टा सृज्यं त्वमेवात्र पोष्टा पोष्यं जगत्प्रभो ॥आधारो ध्रियमाणं च धर्त्ता त्वं परमेश्वर ॥२२॥त्वत्प्रेरितमतिः सर्वश्चरते च शुभाऽशुभम् ॥ततः प्राप्नोति सदृशीं त्वयैव विहितां गतिम् ॥२३॥जगतोऽस्य गतिर्भर्त्ता साक्षी त्वं परमेश्वर ॥चराचरगुरो सर्वजीवभूत कृपामय ॥प्रसीदाद्य जगन्नाथ नित्यं त्वच्छरण्यस्य मे ॥२४॥॥ जैमिनिरुवाच ॥एवं संस्तूयमानश्च ब्रह्मणा गरुडध्वजः ॥नीलजीमूतसंकाशः शंखचक्रादिचिह्नितः ॥२५॥पतगेंद्रसमारूढः स्फुरद्वदनपंकजः ॥आविरासीद्द्विजश्रेष्ठा विवक्षुः स्फुरिताधरः ॥२६॥॥ श्रीभगवानुवाच ॥यदर्थं मां स्तुषे ब्रह्मन्न शक्यः प्रतिभाति सः ॥२७॥अनाद्यविद्या सुदृढा सुश्छेद्या कर्मबंधनैः ॥प्रभवंत्यां कथं तस्यां ह्रीयेते मृतिजन्मनी ॥२८॥तथापि चेदत्र कृते व्यवसायस्तवानघ ॥क्रमेण येन हि भवेत्तत्ते वक्ष्यामि कारणम् ॥२९॥अहं त्वं त्वमहं ब्रह्मन्मन्मयं चाखिलं जगत् ॥चिस्ते यत्र मे तत्र नान्यथेति विचारय ॥३०॥सागरस्योत्तरे तीरे महानद्यास्तु दक्षिणे ॥स प्रदेशः पृथिव्यां हि सर्वतीर्थफलप्रदः ॥३१॥तत्र ये मनुजा ब्रह्मन्निवसंति सुबुद्धयः ॥जन्मांतरकृतानां च पुण्यानां फलभागिनः ॥३२॥नाल्पपुण्याः प्रजायंते नाभक्ता मयि पद्मज ॥एकाम्रकाननाद्यावद्दक्षिणोदधितीरभूः ॥३३॥पदात्पदाच्छ्रेष्ठतमः क्रमात्परमपावनः ॥सिन्धुतीरं तु यो बह्मन्राजते नीलपर्वतः ॥३४॥पृथिव्यां गोपितं स्थानं तव चापि सुदुर्लभम् ॥सुरासुराणां दुर्ज्ञेयं माययाछादितं मम ॥३५॥सर्वसंगपरित्यक्तस्तत्र तिष्ठामि देहभृत् ॥क्षराक्षरावतिक्रम्य वर्त्तेऽहं पुरुषोत्तमे ॥३६॥सृष्ट्या लयेन नाक्रान्तं क्षेत्रं मे पुरुषोत्तमम् ॥यथा मां पश्यसि ब्रह्मन्रूपं चक्रादिचिह्नितम् ॥३७॥ईदृशं तत्र गत्वैव द्रक्ष्यसे मां पितामह ॥नीलाद्रेरंतरभुवि कल्पन्यग्रोधमूलतः ॥३८॥वारुण्यां दिशि यत्कुण्डं रौहिणं नाम विश्रुतम् ॥तत्तीरे निवसन्तं मां पश्यन्तश्चर्मचक्षुषा ॥३९॥तदम्भसा क्षीणपापा मम सायुज्यमाप्नुयुः ॥तत्र व्रज महाभाग दृष्ट्वा मां ध्यायतस्तव ॥४०॥प्रकाशं यास्यते तस्य क्षेत्रस्य महिमाऽपरः ॥आश्चर्यभूतः परमस्तवापि च भविष्यति ॥४१॥श्रुतिस्मृतीहासपुराणगोपितं मन्मायया तन्न हि कस्य गोचरम् ॥प्रसादतो मे स्तुवतस्तवाधुना प्रकाशमायास्यति सर्वगोचरम् ॥४२॥व्रतेषु तीर्थेषु च यज्ञदानयोः पुण्यं यदुक्तं विमलात्मनां हि तत् ॥अहर्निवासाल्लभतेऽत्र सर्वं निःश्वास वासात्खलु चाश्वमेधिकम् ॥४३॥इत्यादिश्य विधिं विप्रास्तदासौ पुरुषोत्तमः ॥पश्यतस्तस्य तत्रैव प्रभुरन्तरधीयत ॥४४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे प्रथमोऽध्यायः ॥१॥ N/A References : N/A Last Updated : September 30, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP