संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|पुरुषोत्तमजगन्नाथमाहात्म्यम्| अध्याय २३ पुरुषोत्तमजगन्नाथमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ विषयानुक्रमणिका पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय २३ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय २३ Translation - भाषांतर ॥ नारद उवाच ॥दौवारिकाय राजर्षिरिंद्रद्युम्नो महायशाः ॥सार्वभौमो वैष्णवाग्र्यो धातारं द्रष्टुमागतः ॥१॥यात्वयं पुरतस्तस्य यदि त्वमनुमन्यसे ॥इत्युक्तस्तं पुनः प्राह नारदं मणिकोदरः ॥२॥स्वामिंस्त्वयागतो योऽसौ न सामान्यो हि बुध्यते ॥यत्र पश्यसि दिक्पालान्पितॄन्मन्वंतराधिपान् ॥३॥तत्रायं मर्त्त्यनिलयस्तिष्ठेदपि हि पौरुषम् ॥भवान्गत्वा पद्मयोनिं विज्ञाप्यैनं प्रवेशय ॥४॥सभाद्वारगतो योऽसौ दिक्पालैः सह यास्यति ॥एकाग्रचित्तो भगवान्गायने चतुराननः ॥५॥अस्माकं द्वारि युक्तानां प्रतीक्ष्योऽवसरो ध्रुवम् ॥न क्रोधो मयि कर्त्तव्यो दासे तव पितुश्च ते ॥६॥इत्युक्तो नारदो गत्वा ब्रह्माणं जगतां पतिम् ॥नत्वा साष्टांगपतनं विज्ञप्तो वसुधाधिपः ॥७॥कटाक्षेणादिशत्सोऽथ इन्द्रद्युम्नप्रवेशनम् ॥नोवाच किंचिद्भगवान्गाने दत्तावधानतः ॥८॥दिव्यगायनसंगीते कौतुकाविष्टमानसः ॥ज्ञात्वेंगितं नारदोऽथ इंद्रद्युम्नं नृपोत्तमम् ॥प्रवेशयामास ततः शक्राद्यैः सुनिरीक्षितः ॥९॥दृष्ट्वा पितामहं दूरात्स्रष्टारं जगतां नृपः ॥अमन्यत द्विजश्रेष्ठाः साक्षाद्दारुमयं हरिम् ॥१०॥शनैः शनैर्ययौ भूपः प्रणमंश्च कृतांजलिः ॥स्तुवन्नमन्प्रणिपतन्साध्वसस्खलितं व्रजन् ॥किंचिद्दूरे स्थितो भूपो नारदस्य निदेशतः ॥११॥ततः पुण्यं गीयमानं चरितं सिंधुजापतेः ॥शृण्वंश्चतुर्मुखस्तस्थौ मुहू्र्त्तं द्विजपुंगवाः ॥१२॥सावित्रीशारदाभ्यां च वीज्यमानस्तु पार्श्वयोः ॥शुद्धदेहधरैर्वेदैः स्तूयमानः स्वयंभुवः ॥१३॥कलाकाष्ठानिमेषादि कल्पयन्युगपर्ययम् ॥न जराजन्ममरणं रूपादिपरिणामनम् ॥१४॥यस्य लोकगतानां वै नाधयो व्याधयस्तथा ॥मन्वतरादयो यत्र युगावर्त्तादयस्तथा ॥१५॥कल्पांताद्या न विद्यंते स साक्षात्परमेश्वरः ॥गीतावसाने तं भूपमुवाच प्रहसन्निव ॥१६॥इंद्रद्युम्न महासत्त्व साक्षात्त्वं भगवत्प्रियः ॥अन्यस्य दुर्लभो लोकः सत्याख्यो विदितस्तव ॥१७॥अत्रागतिं हि वांछंतो मुनयः क्षीणकल्मषाः ॥तपोनिष्ठाश्च तिष्ठंति यावदाभूतसंप्लवम् ॥१८॥चतुर्दशसु लोकेषु सृष्टानां प्राणिनां हि यत् ॥चैतन्यादिविचित्राणि सर्वेषामाश्रयो ह्यसौ ॥१९॥जानन्नपि हि तत्कार्यं मानयन्नृपसत्तमम् ॥उवाच परमप्रीत इंद्रद्युम्नं पितामहः ॥२०॥किमर्थमागतोस्यत्र तद्ब्रूहि हृदयस्थितम् ॥मयि दृष्टे न दुष्प्रापममृतं किन्नु वांछितम् ॥२१॥॥ इन्द्रद्युम्न उवाच ॥अंतर्यामिन्हि भगवंस्त्वदज्ञातं कुतो भवेत्॥तथापि प्रश्नो यो नाथ मय्यनुक्रोश एव सः ॥२२॥मूर्ध्न्याधाय तवानुज्ञां कथितं तव सूनुना ॥इष्टाः सहस्रं क्रतवस्तदंते दारुदेहभृत् ॥२३॥आविर्बभूव भगवान्भूतभव्यभवत्प्रभुः ॥त्वदनुग्रहसंपत्तिवशादेवावलोकयन् ॥२४॥तादृशं पुंडरीकाक्षं येन त्वल्लोकमागतः ॥यस्यारब्धो मया देव प्रासादस्तत्र चेत्स्वयम् ॥२५॥गत्वा देवं जगन्नाथं स्थापयिष्यसि चेत्प्रभो ॥त्वदनुग्रहस्तु सफलो भवेन्मे लोकभावन ॥२६॥एतदर्थं जगत्स्वामिन्नारदेन सहाधुना ॥त्वत्पादपद्मयुगलं द्रष्टुं त्वल्लोकमागतः ॥२७॥प्रसीद मां कुरुष्वेदं जगन्नाथस्त्वमेव हि ॥त्वमेव स जगन्नाथो न भेदो युवयोर्विभो ॥२८॥स्थाप्यः स्थापयिता चासि वेद्यो वेदयिता भवान् ॥२९॥॥ जैमिनिरुवाच ॥एवं विज्ञापनांते तु दुर्वासा स महामुनिः ॥प्रणम्य साष्टांगपातं कृतांजलिरुपस्थितः ॥प्रोवाच विनयान्नीचो धातारं जगतां गुरुम् ॥३०॥विभो द्वारप्रवेशेऽत्र दौवारिकनिवारिताः ॥लोकपालाः सपितरस्तथा मन्वंतराधिपाः ॥३१॥तिष्ठंति दीनजनवत्सुचिराल्लोकभावन ॥तदाज्ञापय पश्यंतु तव पादसरोरुहम् ॥३२॥तच्छ्रुत्वा देवदेवस्तु तदा दुर्वाससो वचः ॥प्रहस्य वचनं प्राह नैषां प्रस्ताव एव हि ॥३३॥इंद्रद्युम्नेन स्पर्द्धंते किं तु मोहवशानुगाः ॥जीवन्मुक्तोऽयं नृपतिः क्षीणकर्माघसंहतिः ३४॥मत्संततेः पंचमोऽयं वैष्णवो विष्णुतत्परः ॥एते हि सुखभोगाय कर्मणा प्राप्तपौरुषाः ॥३५॥अत्रागतिं प्रार्थयंतस्तपस्तप्त्वा हि देवताः ॥ममानुग्रहत एते आयाता मदुपासने ॥३६॥तथापि त्वदनुज्ञाता आयांतु मम दर्शने ॥ततः प्रविष्टास्ते देवा दुर्वासोवचनेन वै ॥३७॥दूरात्प्रणेमुर्ब्रह्माणं गायनानां समीपतः ॥इंद्रद्युम्नं नरपतिं संलपंतं कृतांजलिम्॥ ३८॥ताँल्लोकपालान्प्रणतान्कटाक्षेण जगत्प्रभुः ॥अनुजग्राह कथयन्निंद्रद्युम्नं ससादरम् ॥३९॥राजन्कृतस्त्वया सत्यं प्रासादो भगवत्स्थितौ ॥नायं कालस्तथा राज्यं न वा त्वत्संततिर्नृप ॥४०॥गीतगानावसरतो भूयान्कालो गतस्तव ॥मन्वंतरो हि दिव्यानां युगानामेकसप्ततिः ॥४१॥तव वंशोऽपि विच्छिन्नः कोटिशः क्षितिपा गताः ॥देवोंऽतिमश्च प्रासादो द्वयमत्रावशिष्यते ॥४२॥द्वितीयस्य मनोरादियुगं स्वारोचिषस्य तु ॥ममांतिकेऽत्र वसतोमृत्युर्वा न जरा तथा ॥४३॥विपर्ययमृतूनां वा न कालपरिणामता ॥तद्गच्छ भूमौ राजेंद्र देवं प्रासादमेव च ॥४४॥आत्मसंबंधिनं कृत्वा पुनरायाहि वेगवान् ॥अथवाहं प्रयास्यामि तवानुपदमेव हि ॥४५॥त्वमग्रतो धरां गत्वा यावत्संभारमृद्धिमत् ॥करिष्यसि महाभाग तावदेव व्रजाम्यहम् ॥४६॥इत्याज्ञाप्येंद्रद्युम्नं तं भगवान्स पितामहः ॥देवान्पुरःस्थितानाह विनयानतकंधरान् ॥४७॥बद्धांजलीन्साध्वसांस्तांस्तत्पादन्यस्तवीक्षणान् ॥उवाच भगवान्स्निग्धगंभीरवचसा द्विजाः ॥४८॥किमर्थमागताः सर्वे युगपत्तु दिवौकसः ॥यत्कार्यं वो मया कार्यं विज्ञापयत मा चिरम् ॥४९॥॥ जैमिनिरुवाच ॥इति श्रुत्वा वचो धातुस्त्रिदशा विगतज्वराः ॥प्रत्यूचुर्हर्षिताः सर्वे भगवंतं पितामहम् ॥५०॥॥ देवा ऊचुः ॥उपासितः पुरास्माभिर्यो नीलाद्रौ मणीमयः ॥अन्तर्हितः कथं देव इदानीं दारुदेहधृक् ॥५१॥आविर्भूतः क्रतोरंत इन्द्रद्युम्नस्य भूपतेः ॥एतस्य कारणं ज्ञातुं भवतः पादपंकजम् ॥५२॥आराधितुमिहायाताः प्रसीद कथयस्व तत् ॥इत्युक्ते त्रिदशैर्देवो भगवान्पंकजासनः ॥५३॥रहस्यमेतद्भो देवाः कस्यचिन्नोदितं पुरा ॥सर्वे समुदिता यस्मादपृच्छत चिरागताः ॥५४॥ततो वः कथयिष्यामि सुराणां गुह्यमुत्तमम् ॥पूर्वे परार्द्धे भो देवाः क्षेत्रं श्रीपुरुषोत्तमम् ॥५५॥नीलाश्मवपुरास्थाय न तत्याज जनार्दनः ॥सांप्रतं मे द्वितीयं तु परार्द्धं समुपस्थितम् ॥५६॥मनुः स्वायम्भुवो नाम श्वेतवाराहकल्पके ॥प्रवर्त्ततेऽयं कालो वै प्रातराद्यदिनस्य च ॥५७॥दारुमूर्तिरयं देवो भुवनानां हि मध्यमे ॥ममायुषः प्रमाणं तु स्थास्यते मानयन्प्रभुः ॥५८॥ममात्मा एष भगवानहमेतन्मयः सुराः ॥नावयोर्विद्यते किंचिदस्मिन्स्थावरजंगमे ॥५९॥क्षीरोदार्णवमध्ये हि श्वेतद्वीपे हि तल्पके ॥यः शेते योगनिद्रां तां मानयन्पुरुषोत्तमः ॥६०॥स मूलं जगतामादिस्तस्य रोमाणि यानि वै ॥तानि कल्पद्रुमाख्यानि शंखचक्रांकितानि वै ॥६१॥तन्मध्यस्थो ह्ययं वृक्षश्चैतन्याधिष्ठितः सुराः ॥स्वयमुत्पतितः सिंधोः सलिले सत्यपूरुषः ॥६२॥भोगान्भोक्तुं त्रिलोकस्थान्दारुवर्ष्मा जनार्दनः ॥अनेकजन्मसाहस्रैर्भक्तियोगेन भावितः ॥६३॥घोरसंसारनाशाय मया पूर्वं प्रयाचितः ॥पुनः पुनः सृष्टिलीनपालनोद्विग्नचेतसा ॥६४॥अशेषकर्मनाशाय जगतां सर्वमुक्तये ॥धारणाध्यानयोगानां दुष्कराणां विनापि सः ॥६५॥मोक्षाय भगवानाविर्बभूव पुरुषोत्तमः ॥प्रच्छन्नं वपुरेतस्य क्षेत्रं नास्य विचारयेत् ॥६६॥धर्मिग्राहप्रमाणेन यादृग्दृष्टः स एव सः ॥चतुर्वर्गप्रदो देवो यो यथा तं विभावयेत् ॥६७॥तद्दर्शनपरिक्षीणपापसंघाः क्रमाद्भुवि ॥भवन्ति निर्मलात्मानः पुरुषा मुक्तिभाजनम् ॥६८॥॥ जैमिनिरुवाच ॥एतच्छ्रुत्वा तु ते देवाः पद्मयोनेर्वचोमृतम् ॥हृष्टाः संचिंतयामासुः प्रहृष्टेनांतरात्मना ॥६९॥अचिरस्थायि देवत्वं विहायैतद्भुवं गताः ॥अस्मिन्क्षेत्रवरे देवमाराध्यामः सुसंयताः ॥७०॥हर्षप्रफुल्लवदनान्सुरान्दृष्ट्वा पितामह ॥इन्द्रद्युम्नानुग्रहाय यः प्रकाशं गतः प्रभुः ॥७१॥याताऽत्र प्रतिमा त्वस्य स्वयमेव वदिष्यति ॥वरान्प्रदास्यति बहून्भगवान्भक्तवत्सलः ॥७२॥प्रासादमिन्द्रद्युम्नस्य प्रतिष्ठापयितुं विभुम् ॥अहं चापि गमिष्यामि यूयं तत्र प्रयात वै ॥७३॥इन्द्रद्युम्नोऽग्रतो यातु प्रतिष्ठावस्तुसंभृतौ ॥सहायास्तत्र भवत यूयं क्षीणाधिकारिणः ॥७४॥मन्वन्तरं व्यतीतं वै प्रथमं सांप्रतं सुराः ॥इन्द्रद्युम्नेन सहितास्तत्र गत्वा सुरोत्तमाः ॥७५॥प्रासादप्रतिमानां च विधर्ता स्वाम्यमस्य वै ॥तस्मात्संभृतसंभारः ससहायोऽधुना ह्यसौ ॥७६॥अस्य संततिसंबन्धस्मरणादपि भूतले ॥मदाज्ञया पद्मनिधिः सह यास्यति भूतलम् ॥७७॥प्रतिष्ठायै भगवतः संयतौ सर्ववस्तुनः ॥इन्द्रद्युम्नोऽपि हृष्टात्मा दृष्ट्वा ब्राह्मीं श्रियं द्विजाः ॥७८॥महदाश्चर्यसंपन्नः प्रणिपत्य जगद्गुरुम् ॥तदाज्ञां शिरसा धृत्वा देवैः क्षीणाधिकारिभिः ॥७९॥आजगाम भुवं विप्रा विधिना चानुमोदिताः ॥८०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे त्रयोविंशोऽध्यायः ॥२३॥ N/A References : N/A Last Updated : October 13, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP