संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|पुरुषोत्तमजगन्नाथमाहात्म्यम्| अध्याय २५ पुरुषोत्तमजगन्नाथमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ विषयानुक्रमणिका पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय २५ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय २५ Translation - भाषांतर ॥ जैमिनिरुवाच ॥इत्युक्ते नारदः सोऽथ यथाशास्त्रं विचार्य वै ॥आलेख्य क्रमशः पत्रे राज्ञे तस्मै न्यवेदयत् ॥१॥राजापि पत्रं तच्छुत्वा सोऽवधार्य पुनःपुनः ॥प्रददौ पद्मनिधये लिखितान्यत्र यानि वै ॥२॥संपादय पद्मनिधे शालां स्वर्णमयीं कुरु ॥ब्रह्मणः सदनं दिव्यं ब्रह्मर्षीणां च निर्मलम् ॥३॥इंद्रादीनां सुराणां च सिद्धानां मर्त्यवासिनाम् ॥मुनींद्राणां निवासाय राज्ञां पातालवासिनाम् ॥४॥तथा च नागराजानां निधे त्रैलोक्यवासिनाम् ॥यथायोग्यासनैर्युक्तं गृहं गृहमतंद्रितः ॥५॥कारयाशु निधे द्रव्यसंभारं यावदेव तु ॥विश्वकर्मापि च तव साहाय्यं रचयिष्यति ॥६॥इत्यादिशंतं स मुनिरिंद्रद्युम्नमुवाच वै ॥संभारान्पृथगेतद्धि कर्त्तव्यं व्यवधानतः ॥७॥स्वर्णैः सुघटितं साधुरथत्रयमलंकृतम् ॥दुकूलरत्नमालाद्यैर्बहुमूल्यैर्दृढं महत् ॥८॥श्रीवासुदेवस्य रथो गरुडध्वजचिह्नितः ॥पद्मध्वजः सुभद्राया रथमूर्द्धनि धार्यताम् ॥९॥रथः षोडशचक्रस्तु विष्णोः कार्यः प्रयत्नतः ॥चतुर्दश बलस्यैव सुभद्रायास्तु द्वादश ॥१०॥हस्तषोडशविस्तारो रथश्चक्रधरस्य तु ॥चतुर्दश बलस्यैव सुभद्रायास्तु द्वादश ॥११॥आसनं जगतां भूयः स्वयं स्वासनविग्रहः ॥तद्याने जगतां नाशस्ततो यानं न विद्यते ॥१२॥पश्येच्चराचरं विश्वं ज्ञानादश(थ?) सुनिर्मले ॥स्थितो हस्ततले नित्यं निर्मलस्तस्य दर्पणः ॥१३॥तलस्थत्वादसौ तालः सदा तेनांकितः प्रभुः ॥ततः स एव शेषस्य बलभद्रावतारिणः ॥१४॥अथवा सीरिणः कार्यं सीरमेव ध्वजोत्तमम् ॥ध्वजः सुनिर्मलः कार्यस्तस्मात्तालध्वजो मतः ॥१५॥न वासितव्यो देवोऽसावप्रतिष्ठे रथे नृप ॥प्रासादे मंडपे वापि पुरे तन्निष्फलं भवेत् ॥१६॥तस्मात्प्रतिष्ठा प्रथमं हरेः कार्या रथस्य वै ॥संभारः क्रियतां तस्य ह्यनुष्ठेया मया तु सा ॥१७॥इत्याज्ञां मत्पितुर्लब्ध्वा शीघ्रमायाम्यहं नृप ॥तस्य तद्वचनं श्रुत्वा घटितं स्यंदनत्रयम् ॥१८॥निधिसंपादितैर्द्रव्यैरेकाह्नाद्विश्वकर्मणा ॥स्वक्षं सुचक्रं सुस्तंभं सुविस्तीर्णं सुतोरणम् ॥१९॥सुध्वजं सुपताकं च नानाचित्रमनोहरम् ॥विचित्रबंधमिथुनपुत्तलीवलयान्वितम् ॥२०॥अर्द्धहाटकनिर्व्यूढं साक्षाद्रविरथोपमम् ॥मेघगंभीरनिर्घोषं दृष्ट्वा कर्षगुणैर्युतम् ॥वातरंहोहयैर्युक्तं शतसंख्यैः सितप्रभैः ॥२१॥यथाशास्त्रविधानेन नारदेन प्रतिष्ठितम् ॥सुलग्ने सुमुहूर्ते च सुतिथौ ज्योतिषोदिते ॥२२॥॥ मुनय ऊचुः ॥भगवञ्जैमिने ब्रूहि सर्वज्ञोसि मतो हि नः ॥२३॥विधिना केन हि रथः प्रतिष्ठाप्यो हरेरयम् ॥यथावद्वद नो येन जानीमो विधिविस्तरम् ॥२४॥॥ जैमिनिरुवाच ॥यथा प्रतिष्ठितं तेन नारदेन महात्मना ॥तद्वो वदिष्यामि विधिं यथा दृष्टं पुरा मया ॥२५॥रथस्येशानदिग्भागे शालां कृत्वा सुशोभनाम् ॥तन्मध्ये मण्डपं कृत्वा वेदिं तत्र सुनिर्मलाम् ॥२६॥चतुरस्रा चतुर्हस्तमितां हस्तोच्छ्रितां द्विजाः ॥प्रतिष्ठापूर्वदिवसे रात्रावुत्तरतः शुभे ॥२७॥मुहूर्ते स्वस्ति वाच्याथ कारयेदंकुरार्पणम् ॥द्वात्रिंशद्देवताभ्यश्च बलिं दत्त्वा यथाविधि ॥२८॥प्रातस्ततो वेदिकायां मध्ये मण्डलमालिखेत् ॥पद्मं वा स्वस्तिकं वापि कुम्भं तत्र निधापयेत् ॥२९॥पञ्चद्रुमकषायं च तन्मध्ये पूरयेत्सुधीः ॥गंगादिपुण्यतोयानि पल्लवान्स समृत्तिकाः ॥३०॥सर्वगंधान्पञ्चरत्नसर्वौषधिगणं तथा ॥पूरयित्वा विधानेन आचार्यः प्राङ्मुखः शुचिः ॥३१॥विष्णुं स्मरन्पंचगव्यं पश्चादपि प्रपूरयेत् ॥दुकूलवेष्टितं कण्ठे माल्यैर्गंधैः सुशोभनैः ॥३२॥फलपल्लवसंयुक्तं कृतकौतुकमंगलम् ॥पूरयेत्तत्र देवेशं नरसिंहमनामयम् ॥३३॥मंत्रराजेनविधिवदुपचारैस्तथांतरैः ॥प्रार्थयित्वा प्रसादाय तस्मिन्नावाह्य तं हरिम् ॥३४॥बाह्योपचारैर्विविधैः पूजयेद्विधिवद्द्विजाः ॥वायव्यां तस्य कुम्भस्य समिदाज्यचरुं तथा ॥३५॥अष्टोत्तरसहस्रं च जुहुयाद्विधिवद्गुरुः ॥संपातान्प्रापयेत्तत्र कुम्भमध्ये तदन्ततः ॥३६॥रथं सुशोभनं कृत्वा पताकागंधमाल्यकैः ॥सर्वांगं सेचयेत्तस्य गंधचन्दनवारिभिः ॥३७॥धूपयेत्कालागुरुणा शंखकाहालनिस्वनैः ॥ध्वजे तस्य नृसिंहस्य प्रतिष्ठाप्य समीरणम्॥ ३८॥पूजयित्वा विधानेन रक्तस्रग्गंधमाल्यकैः ॥इमं मंत्रं समुच्चार्य सुपर्णं प्रार्थयेत्ततः ॥३९॥यो विश्वप्राणहेतुस्तनुरपि च हरेर्यानकेतुस्वरूपोयं संचित्यैव सद्यः स्वयमुरगवधूवर्गगर्भाः पतंति ॥चंचच्चण्डोरुतुंडत्रुटित फणिवसारक्तपंकांकितास्यं वन्दे छन्दोमयं तं खगपतिममलं स्वर्णवर्णं सुपर्णम् ॥४०॥ब्रह्मघोषैः शंखनादैर्नानावाद्यसुविस्तरैः ॥रथमूर्ध्नि स्थापयेत्तं चारुसूक्तं समुच्चरन् ॥४१॥तस्योपरिष्टात्तं कुम्भं समंतात्प्लावयन्रथम्॥त्रिरुच्चरन्मंत्रराजं सेचयेद्ब्रह्मणा सह ॥४२॥ततः पूर्णाहुतिं दत्त्वा ब्रह्मणे दक्षिणां ददेत् ॥आचार्यं दक्षिणां दद्याद्येन तुष्यति तद्गुरुः ॥४३॥ब्राह्मणान्भोजयेदन्ते पायसैर्मधुसर्पिषा ॥द्वादशाक्षरमंत्रेण बलभद्रस्य कारयेत् ॥४४॥लांगलं च पविरवन्मंत्रः स्याल्लांगलध्वजे ॥अथवा द्विषड्वर्णोपि मूलमन्त्रः प्रकीर्तितः ॥४५॥लक्ष्मीसूक्तेन भद्रायाः प्रतिष्ठाप्यो रथस्तथा ॥नाभिह्रदान्मुरारेस्त्वं ब्रह्मांडावलिरूपधृक् ॥४६॥आसनं चतुरास्यस्य श्रियो वास स्थिरो भव ॥इम मन्त्रं समुच्चार्य ध्वजपद्मं समुच्छ्रयेत् ॥४७॥इयान्विशेषो हविषा त्रयाणां च पृथक्पृथक् ॥पंचपंचभिर्होतव्यमेकैकं तु विभागशः ॥४८॥इत्थं रथान्प्रतिष्ठाप्य सुवर्णं गां च वस्त्रकम् ॥धान्यं च दक्षिणां दद्यात्सम्यग्देवस्य भक्तितः ॥४९॥एवं प्रतिष्ठिते तत्र स्यंदनेऽथ सुभूषिते ॥आरोप्य देवं विधिवद्ब्रह्मघोषपुरःसरम् ॥५०॥जयमंगलशब्दैश्च नानावाद्यपुरःसरैः ॥चामरांदोलनैर्धूपैः पुष्पवृष्टिभिरेव च ॥५१॥ब्राह्मणैः क्षत्रियैर्वैश्यैर्नीयते स्म रथं प्रति ॥हयैः सुलक्षणैर्दांतैर्बलीवर्दैरथापि वा ॥५२॥पुरुषैर्विष्णुभक्तैर्वा नेतव्या ह्यप्रमादतः ॥प्रीणयित्वा जनं सर्वं भक्ष्यभोज्यादिलेपनैः ॥५३॥रथस्योपरि देवेभ्यो बलिमन्त्रेण भो द्विजाः ॥बलिं गृह्णन्तु भो देवा आदित्या वसवस्तथा ॥५४॥मरुतश्चाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः ॥असुरा यातुधानाश्च रथस्थाश्चैव देवताः ॥५५॥दिक्पाला लोकपालाश्च ये च विघ्नविनायकाः ॥जगतः स्वस्ति कुर्वंतु दिव्या महर्षयस्तथा ॥५६॥अविघ्नमाचरंत्वेते मा संतु परिपंथिनः ॥सौम्या भवंतु तृप्ताश्च दैत्या भूतगणास्तथा ॥५७॥ततस्तु नीयते देवः समभूमौ समुच्चरन् ॥मंत्रं वैष्णवगायत्रीं विष्णोः सूक्तं पवित्रकम् ॥५८॥वामदेव्यैः पवित्रैश्च मानस्तोक्यै रथंतरैः ॥ततः पुण्याहघोषेण कृतवादित्रनिःस्वनम् ॥५९॥शनैः शनैरथो नेयो रथः स्नेहात्तु चक्रिणः ॥तत्रोत्पातान्प्रवक्ष्यामि रथेत्र द्विजसत्तमाः ॥६०॥ईषाभंगे द्विजभयं भग्नेऽक्षे क्षत्रियक्षयः ॥तुलाभंगे वैश्यनाशः शम्या शूद्रभयं भवेत् ॥६१॥धुराभंगे त्वनावृष्टिः पीठभंगे प्रजाभयम् ॥परचक्रागमं विद्याच्चक्रभंगे रथस्य तु ॥६२॥ध्वजस्य पतने विप्रा नृपोऽन्यो जायते धुवम् ॥प्रतिमाभंगतायां तु राज्ञो मरणमादिशेत् ॥६३॥पर्यस्ते तु रथे विप्राः सर्वजानपदक्षयः ॥उत्पन्नेष्वेवमाद्येषु उत्पातेष्वशुभेषु च ॥६४॥बलिकर्म पुनः कुर्याच्छांतिहोमं तथैव च ॥ब्राह्मणान्भोजयेद्भूयो दद्याद्वान्नानि चैव हि ॥६५॥पूर्वोत्तरे च दिग्भागे रथस्याग्निं प्रकल्पयेत ॥समिद्भिर्घृतमध्वाज्यमूलाग्राभिश्च होमयेत् ॥६६॥पालाशाभिर्द्विजश्रेष्ठा मंत्रराजेन दीक्षितः ॥सोमायाग्नये प्रजाभ्यः प्रजानां पतये तथा ॥६७॥ग्रहेभ्यश्च ब्रह्मणे च दिक्पालेभ्यस्तदंततः ॥यत्र यत्र रथे दोषास्तत्र तत्र च दीक्षितः ॥६८॥जुहुयात्प्रतिष्ठामंत्रेण विशेषः सर्वतो भवेत् ॥ब्राह्मणैः सहितः कुर्याद्धोमांते शांतिवाचनम् ॥६९॥स्वस्ति भवतु विप्रेभ्यः स्वस्तिराज्ञेऽस्तु नित्यशः ॥गोभ्यः स्वस्ति प्रजाभ्यस्तु जगतः शांतिरस्तु वै ॥७०॥स्वस्त्यस्तु द्विपदे नित्यं शांतिरस्तु चतुष्पदे ॥शं प्रजाभ्यस्तथैवास्तु शं तथात्मनि चास्तु नः ॥७१॥शांतिरस्तु च देवस्य भूर्भुवः स्वः शिवं तथा ॥शांतिरस्तु शिवं चास्तु सर्वतः स्वस्तिरस्तु नः ॥७२॥त्वं देव जगतः स्रष्टा पोष्टा चैव त्वमेव हि ॥प्रजाः पालय देवेश शांतिं कुरु जगत्पते ॥७३॥यात्राकारणभूतस्य पुरुषस्य च भूपते ॥दुष्टान्ग्रहांस्तु विज्ञाय ग्रहशांतिं समाचरेत् ॥७४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये पञ्चविंशोऽध्यायः ॥२५॥ N/A References : N/A Last Updated : October 13, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP