संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|पुरुषोत्तमजगन्नाथमाहात्म्यम्| अध्याय ११ पुरुषोत्तमजगन्नाथमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ विषयानुक्रमणिका पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय ११ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय ११ Translation - भाषांतर ॥ जैमिनिरुवाच ॥नारदाद्ब्रह्मणः पुत्राद्भगवद्भक्तिमुत्तमाम् ॥श्रुत्वेत्थं परमप्रीत इंद्रद्युम्नोऽप्युवाच तम् ॥१॥इंद्रद्युम्न उवाच ॥साधुसंगस्तु विद्वद्भिर्भवव्याधिविनाशनः ॥ममोपदिष्टो भगवन्सोऽभूत्सांप्रतमेव मे ॥२॥येन साक्षात्कृतो विष्णुः परमात्मा परात्परः ॥स त्वं यन्मंदिरायातस्त्वदन्यः साधुरत्र कः ॥३॥त्वत्संनिधानाद्भगवस्तमो मे नाशमभ्यगात् ॥यन्मे त्वरयते चित्तमर्चितुं नीलमाधवम् ॥४॥वेत्सि ब्रह्मांडवृत्तांतं पर्यटन्सार्वलौकिकः ॥तदावां रथमास्थाय पश्यावो नीलमाधवम् ॥५॥पुरुषोत्तमसंज्ञस्य क्षेत्रस्यालंकृतं शुभम् ॥तत्र तीर्थानि संतीति बहुभिः कथितानि मे ॥त्वद्वाक्याद्यदि जानामि भवेयुः सफलानि मे ॥६॥॥ नारद उवाच ॥हंत ते दर्शयिष्यामि क्षेत्रं क्षेत्रस्थितानि च ॥तीर्थानि शक्तिशंभूंश्च क्षेत्रमाहात्म्यमेव च ॥७॥साक्षाद्द्रक्ष्यसि देवेशं भक्तस्यात्मसमर्पकम् ॥तवानुग्रहतः शीघ्रं चतुर्द्धा संव्यवस्थितम्॥८॥यस्य संदर्शनान्मर्त्यो जायते भक्तिभाजनम् ॥एवं कथांते तौ प्रीतावहःकृत्यं समाप्य च ॥९॥यात्रानुकूलं निर्णीय पंचम्यां बुधवासरे ॥ज्येष्ठकृष्णेतरे पक्षे पुष्यर्क्षे लग्न उत्तमे ॥एकत्र शयितौ रात्रिं निन्यतुर्नृपनारदौ ॥१०॥ततः प्रभाते विमल इंद्रद्युम्नो नृपोत्तमः ॥घोषणां कारयामास राज्यस्य सह बंधुभिः ॥११॥यथाविभवतः सैन्यैर्नीलाद्रिगमनं प्रति ॥यावज्जीवं तत्र वासं करिष्यामो विनिश्चितम् ॥१२॥या वृत्तिः कल्पिता यस्य स तया तत्र जीवतु ॥राजानः सावरोधाश्च सामात्याः सपरिच्छदाः ॥१३॥रथैर्गजैस्तुरगैश्च कोषैः सह पदातिभिः ॥१४॥व्रजंतु सज्जितास्तत्र ब्राह्मणाः साग्निहोत्रिणः ॥वणिजः सह भांडैश्च सपण्याः पण्यजीविनः ॥१५॥राष्ट्रकर्मणि निष्णाता कुशला राजवर्त्मसु ॥ज्योतिर्विदो नृत्यविदो दंडनीतौ प्रवीणकाः ॥१६॥नृत्यगायनवादित्रचतुर्विधसुबुद्धयः ॥गजवाजिनराणां च भैषज्ये शास्त्र उत्तमे ॥१७॥कुशला दृष्टकर्माणो विद्यास्वष्टादशस्वपि ॥उपांगविद्यासु तथा कुहकार्थकुतूहलाः ॥१८॥वाटसाहसिकाश्चोरास्तथान्ये पश्यतोहराः ॥विचित्रकथनाजीवाश्चाटुकाराश्च मागधाः ॥१९॥शास्त्रोपजीविनश्चैव तथान्ये शल्यहारकाः ॥द्यूतकाराश्च पुंश्चल्यो वेश्या वेशानुगा विटाः॥२०॥कृषीवलाश्च गोमेपच्छागोष्ट्रखररक्षकाः ॥शकुंतपालाश्च कपिव्याघ्रशार्दूलरक्षकाः ॥२१॥आहितुंडिकगोरक्ष्य शबरा म्लेच्छजातयः ॥२२॥अन्ये च ये मालवदेशजाता आज्ञां मदीयामनुपालयंति ॥ते यांतु सर्वे वसतौ हि नीलाचले यथास्वं कृतवास्तुभागाः ॥२३॥एवमाज्ञाप्य नृपतिर्यात्रायां च कृतक्षणः ॥नारदेन समागम्य दैवज्ञमिदमाह सः ॥२४॥सांवत्सर मुहूर्त्तं मे निर्णीतं ते यथा पुरा ॥तावन्मांगलिकं वस्तुजातं सम्यगुपानय ॥२५॥पुरोहितमतेनास्मिन्क्षणे यावद्विमृग्यते ॥तेनादिष्टः स गणकः पुरोहितसहायवान् ॥२६॥आजहार समस्तानि मांगल्यानि द्विजोत्तमाः ॥अत्रांतरे स राजर्षिर्दिव्यसिंहासनस्थितः ॥२७॥यात्राभिषेकमांगल्यं विप्रैः प्रागनुभावितम् ॥श्रीसूक्तवह्निसूक्ताभ्यां सूक्तेनाब्दैवतेन च ॥२८॥पावमान्याब्धिसूक्तेन पृथङ्मांगल्यवर्द्धकैः ॥तीर्थाद्भिरौषधीभिश्च सर्वगन्धैः पृथक्पृथक् ॥२९॥अभिषिक्तस्ततो राजा चीनांशुकहृतांभसा ॥रराज वपुषा दीप्तो निर्धूमः पावको यथा ॥३०॥आमुक्तशुक्लवसनः स्वाचांतः सपवित्रकः ॥नांदीमुखान्पितृगणान्पूजयित्वा यथाविधि ॥३१॥जयाराष्ट्रभृतो हुत्वा गणहोमांश्च यत्नतः ॥शंखध्वनिसुगंधाढयं श्वेतवर्णं विधूमकम् ॥३२॥वह्निं प्रदक्षिणं चक्रे दक्षिणावर्त्तगार्चिषा ॥साक्षात्कारेण ददतं जयं राज्ञे जयार्थिने ॥३३॥नवग्रहमखांते च ग्रहकुंभेन सेवितः ॥ग्रहाणां दौष्ट्यनाशाय सौस्थ्यस्यापि विवृद्धये ॥३४॥ज्योतिःशास्त्रोदितैर्मंत्रैर्दैवज्ञविधिचोदितैः ॥ततो मांगल्यनेपथ्यविधानमुपचक्रमे ॥३५॥चीनांशुकप्रावरणे विधाय कवचं निजम् ॥शिरोवेष्टनकं शुभ्रं सुरत्नमुकुटोज्ज्वलम्॥ ३६॥सावतंसे श्रुतियुगे रत्नकुंडलभूषिते ॥ग्रैवेयकं महार्घं तु हारं तरलभूषितम् ॥३७॥दधाराथ नृपश्रेष्ठः केयूरांगदमुद्रिकाः ॥मध्येन त्रिवलीसक्तं स्वर्णसूत्रं त्रिवृद्दधौ ॥३८॥हिरण्यकिंकिणीयुक्त मुक्तातोरणमालिकम् ॥नानारत्नैः सुघटितां दधाराथ सुमेखलाम् ॥३९॥अनर्घ्ये पादकटके पादयोः संन्यवेशयत् ॥सम्मुखादर्शितादर्शे ददृशे स्वं विभूषितम् ॥४०॥मंगलारोपणार्थाय हैमपीठमुपाविशत् ॥प्राङ्मुखः श्रीधरं देवं संस्मरन्मधुसूदनम् ॥४१॥मगलायतनं विष्णुं सर्वमांगल्यकारणम ॥स्मरणादस्य नश्यंति पातकानि बहून्यपि ॥४२॥सौमनस्यामथो मालामार्त्तवीं गंधवर्णिताम् ॥दधार प्रथमं राजा मंत्रितां स्वपुरोधसा ॥४३॥मृदं दीपं फलं दूर्वा दधि गोरोचनां ततः ॥मन्त्राभिमंत्रितान्सर्वान्सिद्धार्थैरभिरक्षितः ॥४४॥आत्मानं ददृशे राजा सौरभेये हविष्यथ ॥मुकुरे मंत्रिते पश्चात्स्वं दृष्ट्वा नृपकेसरी ॥४५॥बह्वृचैः शांतिघोषेण समुदीर्णशुभायतिः ॥याजुष्कैः पथिसूक्तेन व्रजन्मार्गेऽभिरक्षितः ॥४६॥पौराणैर्मंगलैर्वाक्यैः कृतवीर्यधृतिर्नृपः ॥मागधैः स्तुतिपाठेन प्रादुर्भूतपराक्रमः ॥४७॥पारिजातहरं सत्यासहितं गरुडध्वजम्॥ध्यायन्हृत्पंकजे राजा दक्षिणं पादमुद्दधौ ॥४८॥प्रदक्षिणीकृत्य मुनिं नारदं पुरतः स्थितम् ॥मध्यद्वारमुपागच्छद्वेत्रपाणिभिरावृतः ॥४९॥आदिष्टपदमार्गोऽसावग्निहोत्रपुरःसरः ॥तत्रापश्यत्स्थितान्विप्रानात्मनो दक्षिणेन वै ॥५०॥मांगल्यसूक्तंऽ पठतः शुभ्राभान्पांडुरांशुकान्॥लाजाः सपुष्पा राजाग्रे क्षिपतः शंसतः शुभम् ॥५१॥वामपार्श्वस्थिता वेश्याश्चामरव्यग्रपाणयः ॥शुभ्रालंकारवसनाः स्मेरपद्मानना शुभाः ॥५२॥ब्राह्मणान्पूजयामास भक्तिनम्रो द्विजोत्तमाः ॥वस्त्रालंकारमाल्यैश्च सुगन्धैरनुलेपनैः ॥५३॥तोषयामास तान्विप्रान्भगवद्बुद्धि भावितान् ॥वेश्याभ्यो मागधेभ्यश्च दीनानाथेभ्य एव च ॥५४॥राजानुमत्या सचिवो यथार्हं प्रददौ धनम् ॥श्वेतान्पारावतान्हंसाञ्छ्वेताश्वं श्वेतकुंजरम् ॥५५॥सचूतपल्लवं श्वेतमालाफलविभूषितम् ॥कदलीकांडसन्नद्धतोरणाधः स्थितं नृपः ॥पूर्णकुंभं स पश्यन्वै मंगलानि बहून्यपि॥सितातपत्रेण शिरःप्रदेशे वारितातपः ॥५६॥युगपत्पूर्यमाणैस्तु कंबुभिः शतसंख्यकेः॥संमिश्रितानि शुश्राव वादित्राणि बहूनि सः॥५७॥तथा मंगलगीतानि जयशब्दांश्च भूपतिः ॥ततो विवेश प्रासादं नृसिंहमवलोकितुम्॥५८॥यं स्मृत्वा जायते मर्त्यः सर्वकल्याणभाजनम् ॥दृष्ट्वा स दूरान्नृहरिं दिव्यसिंहासनस्थितम् ॥५९॥प्रणम्य साष्टावयवं सन्तोष्योपनिषद्गिरा ॥दक्षपार्श्वस्थितां दुर्गां सर्वदुर्गतिमोचिनीम् ॥६०॥ववंदे चरणाभ्याशे पश्यतीं कृपया नृपः ॥ततः पुरोधा देवांगादवरोप्य शुभा स्रजम् ॥६१॥आसञ्जयामाम गले सुगंधेनान्वलेपयत् ॥नीराजयामास राज्ञः शिरश्चावेष्टयन्मुदा ॥५२॥पुनः प्रदक्षिणीकृत्य तौ देवौ नृपसत्तमः ॥शिबिकायां समारोप्य प्रतस्थे च पुरस्कृतौ ॥६३॥प्रादुर्भूय बहिर्द्वारे रथं दृष्ट्वा सुसज्जितम् ॥तुरंगमैर्वातजवैर्दशभिः परयोजितम् ॥६४॥प्रदक्षिणीकृत्य नृपो नारदेन समाविशत् ॥ढक्कामृदंगनिःसाणभेरीपणव गोमुखाः ॥६५॥मधुरीचर्चरीशंखा अवाद्यंत सहस्रशः ॥स्यन्दनाः कोटिशस्तत्र नृपाणामनुजीविनाम् ॥६६॥चकाशिरे श्रेणिकृता इन्द्रद्युम्नरथाभितः ॥नानाप्रहरणोपेताः पताकाभिरलंकृताः ॥६७॥ध्वजोच्छ्रिताः स्वर्णरौप्यैः किंकिणीजालदर्पणैः ॥यन्त्रैर्नानाविधैर्युक्ता गंभीर स्निग्धनिःस्वनाः ॥६८॥पदातीनां कुञ्जराणां हयानां वातरंहसाम् ॥पत्तिसंस्फोटनैर्हस्तिबृंहितैर्हयहेषितैः ॥६९॥बहुलै रथनिर्घोषैर्मिश्रिता वाद्यनिःस्वनाः ॥युगांतार्णवनिस्वानतुल्याः शुश्रुविरे जनैः ॥७०॥तस्मिन्क्षणे पौरजनाः स्वस्वसंभारसज्जिताः ॥अश्वकै रासभैरुष्ट्रैर्वाहकैः प्रतितस्थिरे ॥७१॥आंदोलिकाश्च पल्यंकाः कोटिशश्च तुरंगकाः ॥श्रेणीभूताश्च दृश्यंते राष्ट्रप्रस्थानसंकुले ॥७२॥राजावरोधाः शतशो वृता वर्षवरैस्ततः ॥नानायानसमारूढाः पालिताश्चाधिकारिभिः ॥७३॥महासैन्यैश्च संरुद्धा राजागाराद्विनिर्ययुः ॥यज्वानश्चाग्निहोत्राणि शम्यारूढानि वृन्दशः ॥७४॥शकटेषु समारोप्य सपत्नीकाः प्रतस्थिरे ॥तथा पुस्तकभारांश्च देवतार्चाकरंडकान् ॥७५॥इध्मबर्हिकुशान्पात्रीः संभारान्होमसंभृतान् ॥वाहयामासुरन्यैश्च शकटावाहकद्विजैः ॥७६॥सामन्तामात्यभृत्याश्च पुरोधा ऋत्विजश्च ये ॥राज्ञः प्रकृतद(?)साश्च उपचारनियोगिनः ॥७७॥सर्वोपचारसंभारानासतेऽन्ये प्रयायिनः ॥कोषागारनियुक्ताश्च कोषजातमशेषतः ॥७८॥समादाय ययुस्तूर्णं राज्ञोऽवसरसेवकाः ॥मालाकारादयः सर्वे पण्यजीवादयस्तथा ॥७९॥स्वं स्वं पण्यं समादाय ययू राजनियोगिनः ॥श्रेष्ठश्रेण्यादयः सर्वे पुरखर्वटवासिभिः ॥८०॥समं विनिर्ययुः स्वस्वव्यवहारविलासकाः ॥इन्द्रद्युम्नस्य नृपतेर्यात्रासमयवादितान् ॥८१॥भेरीमृदंगपटहान्व्यश्नुवानान्दिगंतरम् ॥श्रुत्वा जनपदावासिजनाः सर्वे ससंभ्रमाः ॥८२॥राजाज्ञां मूर्ध्नि संमान्य निर्गता नीलपर्वतम् ॥यस्य यश्च ऋजुः पंथाः स च तेनैव जग्मिवान् ॥८३॥न राजमार्गं प्रजवाद्व्यमृग्यंत नृपाज्ञया ॥नीलाद्रिप्राप्तिमार्गेण दुर्गमेणापि ते ययुः ॥८४॥इन्द्रद्युम्नोऽपि राजेन्द्रः समस्तपुरवासिभिः ॥चतुरंगानीकिनीभिः सहर्षाभिश्च वेष्टितः ॥८५॥श्रेणीभूतक्षितिपतिस्यन्दनावलिमध्यगे ॥रथे रराज राजर्षिः शक्रतुल्य परिच्छदः ॥८६॥पुरस्त्रीमङ्गलाचारगीतलाजप्रसूनकैः ॥मङ्गलाचारशोभाभिः प्रसन्नशुभचेतनः ॥८७॥वातरंहैर्हयैर्युक्तरथेन प्रययौ मुदा ॥अनुकूलानिलप्रोद्यद्घनच्छायसुशीतले ॥८८॥नीरजस्के महीपृष्ठे समीकृतचतुष्पथे ॥देशाध्वनीनैः पुरुषैः काननांतरवेदिभिः ॥८९॥आदिष्टवर्त्मा नृपतिर्मार्गस्योभयपार्श्वगान् ॥देशानरण्यानि मुहुःपश्यन्नानन्दलोचनः ॥९०॥सीमामुत्कलदेशस्य विभजंतीं वनांतरे ॥मार्गस्थां चर्चिकां प्राप चर्चितां मुंडमालया ॥९१॥अवतीर्य रथाद्राजा विनतो नारदाज्ञया ॥साष्टांगपातं तां नत्वा तुष्टावानंदचेतनः ॥९२॥॥ इन्द्रद्युम्न उवाच ॥नमस्ते त्रिदशेशानि सर्वापद्विनिवारिणि ॥ब्रह्मविष्णुशिवाद्याभिः कल्पनाभिरुदीरिते ॥९३॥कारणं जगतामाद्ये प्रसीद परमेश्वरि ॥त्वया विना जगन्नैतत्क्षणमुत्सहते शिवे ॥९४॥सिद्धयः सर्वकार्याणां मंगलानि च शाश्वते ॥त्वत्पादाराधनफलं मर्त्यलोके हि नान्यथा ॥९५॥चराचरपतेर्विष्णोः शक्तिस्त्वं परमेश्वरि ॥यया सृजत्यवति च जगत्संहरते विभुः ॥९६॥चराचरगुरुं देवं नीलाचलनिवासिनम् ॥अनुगृह्णीष्व मां देवि यथा पश्ये स्वचक्षुषा ॥९७॥॥ जैमिनिरुवाच ॥नारदस्योपदेशेन स्तुत्वा देवीं नराधिपः ॥आरुरोह रथं तूर्णं विवस्वानुदयं यथा ॥९८॥ततः प्रतस्थे तरसा स राजा श्रांतवाहनः ॥चित्रोत्पलमहानद्यास्तीरे विरलकानने ॥९९॥धातुकन्दरविख्याते न्यवेशयदनीकिनीम् ॥अपराह्णक्रियां कर्तुं यावदाह्निकमादृतः ॥१ ००॥जलावतरणे नद्यां विवेश स्वपुरोधसा ॥पूर्वं संशोधिते प्राज्ञैर्विषकण्टकवर्जिते ॥१॥स्नात्वा संतर्प्य देवांश्च पितॄनथ विशांपतिः ॥संपूज्य विधिवद्विष्णुं नृपतीन्प्रकृतीस्ततः ॥२॥संमानयामास नृपः संनिवेशासनादिभिः॥नारदेन सह श्रीमान्प्रविश्यांतःपुरं ततः॥३॥सुधारसानि भोज्यानि बुभुजे प्रीतमानसः ॥पश्चिमाद्रिं ततो याते विवस्वति विशांपतिः ॥४॥सायं विधिं समाप्याशु शीतभानौ समुद्यते॥अनुजीविविशां नाथः सभामध्य उपाविशत् ॥५॥तत्र तस्मिन्नरपतिर्बभौ सात्राज्यलक्षणः ॥संपूर्णमंडलश्चन्द्रो ज्योतिषामिव शारदः॥६॥कवयः कवयांचकुः कीर्तिं तस्य सुधामलाम् ॥जगुर्गाथां सुग्रथितां गायकाः कलसुस्वराः॥७॥रूपयौवनलावण्यगर्विता गणिकास्ततः ॥लयतानांगहारैश्च सुशुद्धैर्ननृतुः पुरः ॥८॥मागधास्तुष्टुवुश्चैनं लोकोत्तरशुभाकृतिम् ॥गद्यपद्यप्रबन्धाद्यैश्चित्रैः पदकदम्बकैः ॥९॥ततः स राजा प्रानर्च वैष्णवाग्र्यान्सभासदः ॥सुसंमतैर्गंधमाल्यतांबूलैरतिशोभनैः ॥११०॥नृपांश्च शतशस्तत्र सुखासीनान्नृपाज्ञया ॥संभावयामास यथायोग्यं नृपतिभाजनैः ॥११॥अथापृच्छन्मुनिवरं नारदं भगवत्प्रियम् ॥सिंहासनार्हे स्वासीनं बहुमानपुरःसरम् ॥भगवच्चरितं श्रोतुं सर्वपापापनोदनम् ॥१२॥॥ इन्द्रद्युम्न उवाच ॥भगवन्वेदवेदांगनिधान भगवत्प्रिय ॥त्वमेव चरितं विष्णोर्जानासि ज्ञानचक्षुषा ॥१३॥हरेश्चारित्रसुधया दृढपंकमलीमसम् ॥क्षालयांतर्मम मुने यद्यनुक्रोशको मयि ॥१४॥इत्थमालापसंमिश्रे मुनिराज्ञोः कथांतरे ॥प्रविवेश नृपं द्वाःस्थ उत्कलेशप्रसेवकः ॥१५॥उवाच देवद्वारांते तिष्ठत्युत्कलभूमिपः ॥सोपायनो देवपादपद्मं द्रष्टुं समौलिकः ॥१६॥विज्ञापितः स राजर्षि द्वास्थेनैवं ससंभ्रमः ॥उवाच तं हि भो विप्राः श्रुत्वा तद्देशमण्डनम् ॥१७॥क्षेत्रं श्रीपुरुषेशस्य तद्वार्त्ताकर्णनोत्सुकः ॥प्रवेशयाविलंबं तं श्रीमदोढ्रमहीपतिम् ॥१८॥स हि नीलगिरौ विष्णुं समाराध्य सुनिर्मलः ॥यस्य संदर्शनात्सर्वे भविष्यामो हतांहसः ॥१९॥श्रुत्वा तद्वचनं सद्यो द्वारपालो महीपतिम् ॥प्रवेशयामास सभामिंद्रद्युम्नस्य भूपतेः ॥१२०॥विवेशोढ्रपतिस्तूर्णं सचिवैवैर्ष्णवैः सह ॥ननामांघ्रियुगं वन्द्यमिन्द्रद्युम्नस्य सादरम् ॥२१॥युगं वन्द्यमिन्द्रद्युम्नस्य सादरम् ॥२१॥तमुत्थाप्य च राजेंद्रः पुरस्कृत्य स वैष्णवम् ॥स्वासनांते निवेश्याथ प्रोचे सप्रश्रयं वचः ॥२२॥राजन्सर्वत्र कुशली भवानोढ्रपते किल ॥अपि देवो विजयते नीलाद्रिशिखरालयः ॥२३॥कच्चित्ते निर्मला बुद्धिर्भगवत्पादपद्मयोः ॥उपैति समचित्तस्य सर्वभूतेषु ते हरौ ॥२४॥ओढ्राधीशस्तदा तस्य वचः श्रुत्वा कृतांजलिः ॥उवाच प्रश्रितं वाक्यं हर्षविस्मयचंचुकः ॥२५॥स्वामिन्सर्वत्र कुशलं त्वत्पादानुग्रहान्मम ॥सूर्ये तपत्यंधकारः कथं वा प्रभविष्यति ॥२६॥निसर्गगुणसंसर्गवशीकृतमहीभुजा ॥त्वया सनाथा पृथिवी जिष्णुनेवामरावती ॥२७॥सदा धर्मश्चतुष्पादस्त्वयि शासति मेदिनीम् ॥निषेधाचरण राजन्केवलं श्रूयते श्रुतौ ॥२८॥राजनीतिषु ये राज्ञां गुणाः समुदितास्त्वयि ॥त एकैकं क्षितिभुजां गता दार्ष्टांतिकं विभो ॥२९॥एतावदपि साम्राज्यं दुर्लभं ते नृपोत्तम ॥अष्टादशद्वीपवती क्षितिरेकगृहोपमा ॥१३०॥यदि त्वां नासृजद्ब्रह्मा वत्सलं सर्वजंतुषु ॥कथं शोकविहीनाः स्युर्मृतेष्वात्मजबंधुषु ॥३१॥साधारणा नृपतयो विष्णोरंशा इति श्रुतिः ॥भवान्साक्षात्तु भगवान्कोऽन्य ईदृग्गुणाकरः ॥३२॥दक्षिणोदधि तीरेऽस्ति नीलाद्रिः काननावृतः ॥न तत्र लोकसंचारस्तत्रास्ते साऽपि देवता ॥३३॥वात्यया वालुकाकीर्णः सांप्रतं श्रूयते तु सः ॥तद्वशान्मम राज्येऽपि दुर्भिक्षमरकादिकम् ॥३४॥त्वय्यागते तु सर्वस्मिन्कुशलं मे भविष्यति ॥इत्युक्तवंतं नृपतिरुत्कलेशं द्विजोत्तमाः ॥३५॥विसर्जयामास तदा संनिवेशाय मानयन् ॥नारदं प्रेक्ष्य निर्विण्णः किमेतदिति भो मुने ॥३६॥यदर्थं मे श्रमस्तं च विफलं हि वितर्कये ॥इत्युक्तवंतं तं प्राह नारदस्तु त्रिकालवित् ॥३७॥न कार्यो विस्मयस्तेऽत्र भाग्यवान्वैष्णवोत्तमः ॥वैष्णवानां न वांछा हि विफला जायते क्वचित् ॥३८॥अवश्यं प्रेक्षसे राजन्बिभ्रतं पार्थिवं वपुः ॥कारणं जगतामादिं नारायणमनामयम् ॥३९॥त्वदनुग्रहहेतोर्वै क्षिताववतरिष्यति ॥जगच्चराचरं सर्वं विष्णोर्वशमुपागतम्॥१४०॥न कस्यापि वशे सोऽपि परमात्मा सनातनः ॥केवलं भक्तिवशगो भगवान्भक्तवत्सलः ॥४१॥ब्रह्मादिकीटपर्यंतं सुगुप्तं यस्य मायया ॥स कथं परतंत्रः स्यादृते भक्तजनान्नृप ॥४२॥धर्मार्थकाममोक्षाणां मूलं भक्तिर्मुरद्विषः ॥सैव तद्ग्रहणोपायस्तामृते नास्ति किंचन ॥४३॥एक एव यदा विष्णुर्बहुधा स्वस्य मायया ॥तमृते परमात्मानं सुखहेतुर्न विद्यते ॥४४॥येऽप्यन्ये शिवदुर्गाद्यास्तैस्तैः कर्मभिरावृताः ॥यच्छंति पूजिताः कामं तेऽपि विष्णुपरायणाः ॥४५॥अन्तर्यामी स भगवान्देवानामपि हृत्स्थितः ॥यावत्फलं प्रेरयति तावदेव ददत्यमी ॥४६॥वैष्णवस्त्वं च राजेंद्र पद्मयोनेश्च पंचमः ॥अष्टादशानां विद्यानां पारगो वृत्तसंस्थितः ॥४७॥न्यायेन रक्षिता पृथ्वीं विशेषाद्ब्राह्मणार्चकः ॥अवश्यं द्रक्ष्यसि क्षेत्रे वैकुण्ठं चर्मचक्षुषा ॥४८॥पितामहोऽप्यत्र कार्ये भवतो मां नियुक्तवान् ॥सर्वं ते कथयिष्यामि प्राप्ते क्षेत्रोत्तमे नृप ॥४९॥सांप्रतं रात्रिशेषो हि तृतीयं याममृच्छति ॥स्वान्तान्निवेशान्निर्गंतुं राज्ञ आज्ञापयाधुना ॥१५०॥त्वमप्यंतर्गृहं याहि निद्राया वशमागतः ॥१५१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषि संवाद एकादशोऽध्यायः ॥११॥ N/A References : N/A Last Updated : October 02, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP