संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|पुरुषोत्तमजगन्नाथमाहात्म्यम्| अध्याय ३० पुरुषोत्तमजगन्नाथमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ विषयानुक्रमणिका पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय ३० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय ३० Translation - भाषांतर ॥ मुनय ऊचुः ॥चकार केन विधिना जन्मस्नानं श्रियः पतेः ॥अन्यानप्युत्सवान्सर्वान्विधिवद्ब्रूहि नो मुने ॥१॥नारदेन पुरा प्रोक्तं सर्वं ते मुनिसत्तम ॥स हि वेद तमःपारे ब्रह्म ब्रह्मसुतो मुनिः ॥२॥तत्सर्वं ब्रूहि तत्त्वेन मुने क्रौतूहलं हि नः ॥अहो भाग्यं नरपतेरिंद्रद्युम्नस्य भो मुने ॥३॥तस्य तावति कर्मांते अत्यद्भुतमिदं महत् ॥न श्रुता हि न दृष्टा हि प्रतिमा दारुनिर्मिता ॥४॥सजीवतनुवत्साक्षाद्वारं दद्यान्मनुष्यवत् ॥स्मारंस्मारं भगवतश्चरितं पापनाशनम् ॥५॥चरितं तस्य नृपतेर्दुर्लभं मर्त्यवासिनाम् ॥न सन्तोषोऽस्ति भगवञ्शृण्वतां नो महामुने ॥६॥तद्वदानुक्रमेणास्मान्यात्राः सर्वाघनाशनाः ॥यासां संदर्शनाद्वासो वैकुण्ठ इति निश्चितम् ॥७॥यात्रामाहात्म्यवक्तासौ यत्साक्षान्मधुसूदनः ॥तन्नो वद महाभाग जगतां हितकाम्यया ॥८॥॥ जैमिनिरुवाच ॥ज्येष्ठस्नानं प्रवक्ष्यामि शृणुध्वं मुनयोऽधुना ॥ज्येष्ठशुक्लदशम्यां तु व्रतं संकल्प्य वाग्यतः ॥९॥प्रातरुत्थाय कुर्वीत पंचतीर्थविधानतः ॥मार्कंडेय वटं गत्वा आचम्य प्रयतः पुमान् ॥१०॥प्रार्थयेच्छंकरं नत्वा कृतांजलिपुटोऽग्रतः ॥११॥अतितीक्ष्ण महाकाय कल्पांतदहनोपम ॥भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ॥१२॥ततः प्रविश्य तीर्थं तु वैदिकैः पंच वारुणैः ॥अघमर्षणसूक्तेन त्रिरावृत्तेन वा द्विजाः ॥स्नात्वा यथावत्स्नायीत मन्त्रेणानेन चांततः ॥१३॥नमः शिवाय शांताय सर्वपापहराय च ॥स्नानं करोमि देवेश मम नश्यतु पातकम् ॥१४॥संसारसागरे मग्नं पापग्रस्तमचेतनम् ॥त्राहि मां भगनेत्रघ्न त्रिपुरारे नमोऽस्तु ते ॥१५॥एवं स्नात्वा बहिर्गत्वा धौतवासा सपुण्ड्रकः ॥देवानृषीन्पितॄंश्चैव तर्पयित्वा यथाविधि ॥१६॥प्रविश्य शंकरागारं स्पृष्ट्वा वृषणयोर्वृषम् ॥मन्त्रेणानेन भो विप्राः सर्वक्रतुफलं लभेत् ॥१७॥धर्मश्चतुष्पाद्यज्ञस्त्वं स्वर्णशृंगस्त्रयीवपुः ॥गोपते वाहरूपस्त्वं शूलिनं त्वां नमाम्यहम् ॥१८॥अघोरमन्त्रेण ततः पूजयेद्वृषवाहनम् ॥पञ्चब्रह्मभिर्ऋग्भिस्तु संस्पृशेल्लिंगमुत्तमम् ॥१९॥अंगुष्ठेन स्पृशेल्लिगं मुष्टिना शक्तिमेव च ॥पूजयित्वा तु विधिवत्स्तुत्वा देवं पुरद्विषम् ॥२०॥दशानामश्वमेधानां फलं प्राप्नोत्यनुत्तमम् ॥मार्कंडेयवटे स्नात्वा दृष्ट्वा देवं तु शंकरम् ॥२१॥फलं प्राप्नोत्यविकलं राजसूयाश्वमेधयोः ॥अन्ते शिवस्य सालोक्यं प्राप्य ज्ञानं ततो नरः ॥२२॥क्रमाच्च लभते मुक्तिं जगन्नाथप्रसादतः ॥ततो मौनी व्रजेद्देवं नारायणमनामयम् ॥२३॥तद्दक्षिणस्थितं विष्णुरूपं न्यग्रोधमुत्तमम् ॥दर्शनादपि पापानां पापसंहतिनाशनम् ॥२४॥तं दृष्ट्वा प्रणमेद्दूराद्भावयन्पुरुषोत्तमम् ॥प्रदक्षिणं ततः कुर्यादिमं मन्त्रमुदीरयन् ॥२५॥अमरस्त्वं सदा कल्प विष्णोरायतनं महत् ॥न्यग्रोध हर मे पापं विष्णुरूप नमोऽस्तु ते ॥२६॥नमोऽस्त्वव्यक्तरूपाय महाप्रलयस्थायिने ॥एकाश्रयाय जगतां कल्पवृक्षाय ते नमः ॥२७॥स्तुवञ्जपेत्तु तद्भक्त्या मूले तस्य जनार्दनम् ॥कोटिजन्मशतोद्भूतपापादेव विमुच्यते ॥२८॥तच्छायाक्रमणेनापि निष्पापो जायते नरः ॥ततः सुपर्णं प्रणमेद्यानरूपं हरेः पुरः ॥२९॥स्थितो भक्तिनतो विष्णोः कृतांजलिपुटो मुदा ॥छन्दोमय जगद्धामन्यानरूप त्रिवृद्वपुः ॥३०॥यज्ञरूप जगद्व्यापिन्प्रीयमाणाय ते नमः ॥स्तुत्वेत्थं गरुडं पापान्मुच्यतेऽनेकजन्मजात् ॥३१॥वाङ्मनःकर्मनियतो गच्छेदेवं विचिंतयन् ॥प्रविश्य देवतागारं कृत्वा तं त्रिः प्रदक्षिणम् ॥३२॥पूजयेन्मन्त्रराजेन सूक्तेन पुरुषस्य वा ॥द्वादशाक्षरमंत्रेण यत्र वा जायते रुचिः ॥३३॥पूजाधिकारिणः सर्वे ब्रह्मक्षत्रविशस्ततः ॥अन्येषां दर्शन भक्त्या तयोर्नामानुकीर्तनात् ॥३४॥पंचोपचारविधिना पूजयेत्परमेश्वरम् ॥कृतांजलिपुटो भूत्वा इदं स्तोत्रमुदीरयेत् ॥३५॥देवदेव जगन्नाथ संसारार्णवतारक ॥भक्तानुग्राहक सदा रक्ष मां पादयोर्नतम् ॥३६॥जय कृष्ण जगन्नाथ जय सर्वाघनाशन ॥जयाशेषजगद्वंद्य पादांभोज नमोऽस्तु ते ॥३७॥जय ब्रह्मांडकोटीश वेदनिःश्वासवातक ॥अशेषजगदाधार परमात्मन्नमोऽस्तु ते ॥३८॥जय ब्रह्मेंद्ररुद्रादि देवौघप्रणतार्तिनुत् ॥जयाखिलजगद्धामन्नंतर्यामिन्नमोऽस्तु ते ॥३९॥जय निर्व्याजकरुणापाथोधे दीनवत्सल ॥दीनानाथैकशरण विश्वसाक्षिन्नमोऽस्तु ते ॥४०॥संसारसिंधुसलिले मोहावर्त्ते सुदुस्तरे ॥षडूर्मिकुलदुष्पारे कुकर्मग्राहदारुणे ॥४१॥निराश्रये निरालंबे निःसारे दुःखफेनिले ॥तव मायागुणैर्बद्धमवशं पतितं ततः ॥४२॥मां समुद्धर देवेश कृपापांगविलोकनैः ॥तत्र मग्नं सुरश्रेष्ठ सुप्रसादप्रकाशक ॥४३॥एक एव जगन्नाथ बन्धुस्त्वं भवभीरुणाम् ॥बुभुक्षा च पिपासा च प्राणस्य मनसः स्मृतौ ॥४४॥शोकमोहौ शरीरस्य जरा मृत्युर्वपुर्भवः ॥त्वत्सृष्टौ तादृशो नास्ति यो दीनपरिपालकः ॥४५॥अवतीर्णोसि लोकानामनुग्रहधिया विभो ॥पूर्णकामस्य ते नाथ किमन्यत्कारणं क्षितौ ॥४६॥त्वत्पादपद्ममासाद्य न चिंतास्ति जगत्पते ॥यतस्ते चरणांभोजं चतुर्वर्गेकसाधनम् ॥४७॥दर्शनात्सर्वलोकानां सर्ववांछा फलप्रदम् ॥ततः सीरध्वजं शेषमन्त्रेण परिपूजयेत् ॥४८॥द्वादशाक्षरमन्त्रेण नाम्ना वा प्रणवादिना ॥एकाग्रमानसो भूत्वा प्रणिपत्य प्रसादयेत् ॥४९॥जय राम सदाराम सच्चिदानदविग्रह ॥अविद्यापंकरहित निर्मलाकृतये नमः ॥५०॥जयाखिलजगद्भारधारणश्रमवर्जित ॥तापत्रयविकर्षाय हलं कलयसे सदा ॥५१॥प्रपन्नदीनत्राणाय स्फुटनेत्रसरोरुह ॥त्वमेवेश पराशेषकलुषक्षालनप्रभुः ॥५२॥प्रसन्नकरुणासिंधो दीनबन्धो नमोऽस्तु ते ॥चराचराफणाग्रेण धृता येन वसुन्धरा ॥५३॥मामुद्धरास्माद्दुष्पाराद्भवांभोधेरपारतः ॥परापराणां परमपरमेश नमोऽस्तु ते ॥५४॥स्तुत्वैवं नागराजानं बलं मुसलधारिणम् ॥पूजयेज्जगतामादिकारणां भद्रलोचनाम् ॥५५॥स्तुत्वा जयां तां भो विप्राः प्रणिपत्य प्रसादयेत् ॥जय देवि महादेवि प्रसीद भवतारिणि ॥५६॥सुखारणि श्रितवतां जय संतुष्टिकारिणि॥कार्यं कार्यस्वरूपाणां कारणानां च कारणम् ॥९७॥धारणां धार्यमाणानां त्वामादिं प्रणमाम्यहम् ॥वक्षःस्थलस्थितां विष्णोः शंभोरर्द्धांगधारिणीम्॥ ५८॥पद्मयोनि मुखाब्जस्थां प्रणमामि जगत्प्रियाम् ॥सृष्टिस्थितिविनाशादिकर्मणां परमात्मनः ॥५९॥त्वमेका शक्तिरतुला त्वां विना सोऽपि नेश्वरः ॥त्वां सर्वलोकजननीं विष्णुमायां तपस्विनीम् ॥६०॥सुभद्रां भद्ररूपां तां मूलभूतां नमाम्यहम् ॥ततः सागरस्नानाय प्रार्थयेत्पुरुषोत्तमम् ॥६१॥नमस्ते भगवन्विष्णो जगद्व्यापिंश्चराचर ॥निर्विघ्नं सिद्धिमायातु सिंधुस्नानं मम प्रभो ॥६२॥नमस्ते जगतामीश शंखचक्रगदाधर ॥देहि देव ममानुज्ञां तव तीर्थनिषेवणात् ॥६३॥ततो मौनं व्रजेद्विष्णुं चिंतयन्सरितां पतिम् ॥उग्रसेनं स्थितं मार्गे अनुज्ञाप्य समाहितः ॥६४॥उग्रसेन महाबाहो वलवन्नुग्रविक्रम ॥लब्ध्वा वरं सुप्रसन्नात्समुद्रतटमास्थितः ॥६५॥तीर्थराजकृतस्नानसुसंपूर्णफलप्रद ॥सिंधुस्नानं करिष्यामि अनुज्ञां दातुमर्हसि ॥६६॥ततो गच्छेद्द्विजश्रेष्ठाः स्वर्गद्वारं ततः परम् ॥येन देवाः समायांति क्षेत्रेऽस्मिन्पुरुषोत्तमे ॥६७॥भूस्वर्गे जगदीशस्य दर्शनाय दिनेदिने ॥स्वर्गावतारमार्गेण तत्रस्थौ वां नमाम्यहम् ॥६८॥मामप्यूर्ध्वं नयेतां वै साक्षिणौ कर्मणां सताम् ॥सागरांभः समुत्पन्नौ श्रेष्ठौ सर्वगुणान्वितौ ॥६९॥मध्येन युवयोर्यामि स्वर्गद्वारमपावृतम् ॥प्रार्थयित्वा ततो गच्छेत्तीर्थराजस्य संनिधिम् ॥७०॥यं दृष्ट्वा दूरतः पापान्मुच्यते महतो धुवम् ॥प्रक्षालितकरांघ्रिक आचांतः शुचिविष्टरे ॥७१॥आसीनः प्राङ्मुखोभूत्वा लिखेन्मंडलमग्रतः ॥चतुरस्रं चतुर्द्वारं चतुःस्वस्तिककोणकम्॥७२॥तन्मध्ये विलिखेत्पद्ममष्टपत्रं सुशोभनम्॥ततोऽष्टाक्षरमंत्रं तु करयोश्च तनौ न्यसेत्॥७३॥षड्भिर्वर्णैः षडंगानां न्यासः प्रोक्तो मनीषिभिः॥शेषौ कुक्षौ च पृष्ठे च न्यस्तव्यौ च ततः पुनः ॥७४॥पादयोर्जंघयोरूर्वोः स्फिचोश्च पार्श्वयोः पुनः ॥नाभौ पृष्ठे बाहुयुग्मे हृदि कण्ठे च कक्षयोः ॥७५॥ओष्ठयोः कर्णयोरक्ष्णोर्गंडयोर्नासयोस्तथा ॥भ्रुवोर्ललाटे शिरसि मंत्रवर्णान्यथाक्रमम्॥ ७६॥विन्यस्य व्यापकं सर्वैर्न्यासं कुर्यात्समाहितः ॥प्राणायामत्रयं कुर्यान्मूलेन पंचविंशतिम्॥ ७७॥बध्नीयात्कवचं दिव्यं सर्वपापापनोदनम् ॥पूर्वे मां पातु गोविंदो वारिजाक्षस्तु दक्षिणे ॥७८॥प्रद्युम्नः पश्चिमे पातु हृषीकेशस्तथोत्तरे ॥आग्नेय्यां नरसिंहस्तु नैर्ऋत्यां मधुसूदनः ॥७९॥वायव्यां श्रीधरः पातु ऐशान्यां च गदाधरः ॥ऊर्ध्वं त्रिविक्रमः पातु अधो वाराहरूपधृक् ॥८०॥सर्वत्र पातु मां देवः शंखचक्रगदाधरः ॥नारायणो मनः पातु चैतन्यं गरुडध्वजः ॥८१॥पातु मे बुद्ध्यहंकारौ त्रिगुणात्मा जनार्दनः ॥इंद्रियाणि सदा पातु दैत्यवर्गनिकृन्तनः ॥८२॥एवं बद्ध्वा च कवचं निष्पापो जायते पुमान् ॥षोडशैरुपचारैश्च मनसा कल्पितैर्नरः ॥८३॥पुरुषोत्तमं पूजयित्वा यथावद्विधितो द्विजाः ॥आवाह्य मण्डले तस्मिन्देवदेवमनामयम्॥ ८४॥पूजयित्वा विधानेन यथाशक्त्युपबृंहितैः ॥आत्मानं तीर्थराजस्य देवदेवस्य चिंतयन् ॥८५॥एवं बद्धांजलिपुटमिमं मन्त्रमुदीरयेत् ॥सुदर्शन नमस्तेऽस्तु कोटिसूर्यसमप्रभ ॥८६॥अज्ञानतिमिरांधस्य विष्णोर्मार्गं प्रदर्शय ॥एवं संप्रार्थ्य भो विप्रास्तीर्थराजजलांतिके ॥८७॥जानुभ्यामवनिं गत्वा प्रणमेद्भक्तिभावितः ॥तीर्थराज नमस्तुभ्यं जलरूपाय विष्णवे ॥८८॥जीवनाय च जंतूनां परं निर्वाणहेतवे ॥८९॥अग्निश्च ते योनिरिला च देहे रेतोधा विष्णोरमृतस्य नाभिः ॥उपैमि ते रूपमनन्यहेतुमानंदसंपन्नमप्रनुप्रविश्य ॥९०॥इति मन्त्रं पठन्विप्राः प्रविशेज्जलमध्यतः ॥आवाहयेत्तीर्थराजं भावयञ्जगतांपतिम् ॥९१॥जलाधीशं कृतस्नानफलदानेऽतः स्थितम् ॥अघमर्षणसूक्तेन नारायणयुतेन च ॥९२॥त्रिरावृत्तेन कुर्वीत पञ्चवारुणकेन च ॥सकृदावाहनादीनि षडंगान्यभिषेचने ॥९३॥आवाहनं पुर प्रोक्तं सन्निधानमथोच्यते ॥स्नातुरिष्टफलप्राप्तौ सान्निध्यपरिकल्पनम् ॥९४॥अन्तःशुद्ध्यर्थमाचामेत्पीत्वा तदभिमंत्रितम्॥बाह्यावयवशुद्ध्यर्थं मार्जयेत्कुशवारिणा ॥९५॥अंतर्बहिर्विशुद्ध्यर्थं मन्त्रपूतेन वारिणा ॥त्रीनंजलीन्मूर्ध्नि सिंचेत्सिंधौ नांतर्जले जपः ॥९६॥त्रिः स्नानायात्स्वकृताघानि कोटिजन्मकृतानि च ॥प्लावितानि जले तस्मिन्भावयन्नघनाशनम् ॥९७॥उत्थायाचम्य विधिवत्प्रार्थयेन्मन्त्रमुच्चरन् ॥त्वमग्निर्जगतां नाथ रेतोधाः कामदीपनः ॥९८॥प्रधानं सर्वभूतानां जीवानां प्रभुरव्यय ॥अमृतस्यारणिस्त्वं हि देवयोनिरपांपते ॥९९॥वृजिनं हर मे सर्वं तीर्थराज नमोस्तु ते ॥जन्मकोटिसहस्रेषु यत्पापं पूर्वमर्जितम् ॥१००॥तदशेषं लयं यातु देहि मे ब्रह्म शाश्वतम्॥स्नात्वापि च ततस्तीरमुत्तीर्याचम्य वाग्यतः ॥१०१॥धारयेद्वाससी शुक्ले पुंड्रकानुज्ज्वलाकृतीन् ॥शंखचक्रगदापद्मतिलकानि च भक्तितः ॥२॥देवान्पितॄन्यथान्यायं चिंतयन्भगवद्धिया ॥तर्प्पयेद्विधिवद्विप्राः सम्यगव्यग्रमानसः ॥३॥ततः पूर्ववदालिख्य मण्डलं चोत्तरामुखः ॥पूजयेन्मूलमन्त्रेण मन्त्रैरेभिश्च भक्तितः ॥४॥नारायणं चतुर्बाहुं शंखचक्रगदाधरम् ॥धरारमाभ्यां सहितं केवलं वा द्विजोत्तमाः ॥ध्यात्वांतर्यागसंतुष्टं बहिरावाहयेत्ततः ॥५॥आगच्छ परमानंद जगद्व्यापिञ्जगन्मय ॥अनुग्रहाय देवेश मण्डले सन्निधिं कुरु ॥६॥चराचरमिदं सर्वं जगदत्र प्रतिष्ठितम्॥तदन्तस्थस्त्वमेवेश आसनं कल्पयामि ते ॥७॥यस्य पादांबुजे धौते धर्मेण ब्रह्मरूपिणा ॥पुनाति तद्भवा गंगा जगत्पाद्यं ददाम्यहम् ॥८॥अनर्घ्यरत्नघटितचूडामणिकरोत्करैः ॥ब्रह्मादयः पादपद्मं चिंतयंति दिने दिने ॥अनर्घ्यायजगद्धाम्ने अर्घ्यमेतद्ददाम्यहम् ॥९॥आचांतस्तीर्थराजो वै येनागस्त्यस्वरूपिणा ॥तस्मै सुवासितं वारि ददाम्याचमनीयकम् ॥११०॥यः प्राप्य मधुसंपर्कं चकर्ष जलरूपिणम् ॥अशेषाघविकर्षाय मधुपर्कं ददाम्यहम् ॥११॥यः क्रोडरूपमास्थाय प्रलयार्णवविप्लुताम् ॥उज्जहार धरामेतां स्नपयामि तमंभसा ॥१२॥ब्रह्मांडकोटयो यस्य विश्वरूपस्य संवृतिः ॥आच्छादनाय सर्वेषां प्रददे वाससी शुभे ॥१३॥विना येनानुष्ठितोऽपि यज्ञः स्यादकृतो ध्रुवः ॥तस्मै यज्ञेश्वरायेदमुपवीतं प्रकल्पये ॥१४॥यदंगसंगमासाय शोभंते भूषणानि वै ॥विश्वालंकृतये तस्मै भूषणानि प्रकल्पये ॥१५॥यदंगसंस्पर्शिमरुत्संगान्मलयजा द्रुमाः ॥सुगंधरससंपन्नास्तस्मै गंधानुलेपनम् ॥१६॥यस्य संचितनादेव सौमनस्यं हतांहसाम् ॥तस्मै सुमनसां मालां सुगंधां परिकल्पये ॥१७॥यं चित्ते स्थिरमादाय भवाग्निपरिधूपनम् ॥जहाति तस्मै प्रददे सुगंधं धूपमुत्तमम् ॥१८॥स्वतेजसाखिलमिदं दीपितं यस्य भासतः ॥तस्मै दीपप्रदीप्ताय दीपमेतं ददाम्यहम् ॥१९॥चराचरं जगत्सर्वमत्ति यो यश्च भावयेत् ॥अनेन च पुनः पुष्टौ तस्मादन्नं निवेदये ॥१२०॥यदीयमुखरागेण सहजावासितेन च ॥मोहिताः सुरसुंदर्यस्तस्मै तांबूलमुत्तमम् ॥२१॥प्रदक्षिणप्रकमणाद्भवांगणविवर्त्तनम् ॥हंति यः करुणांभोधिस्तं नमामि जगद्गुरुम् ॥२२॥मंत्रास्तु कथिता ह्येत उपचारैः पृथक्पृथक् ॥आवाह्य चिंतयेद्देवं बहिःसंस्थितमात्मनः ॥२३॥रत्नसिहासनं दत्त्वा तत्रासीनं विचिंतयेत् ॥पादपद्मद्वये दद्यात्पाद्यं श्यामाकपंकजैः ॥२४॥दूर्वापराजिताभ्यां च संस्कृतं मूलमंत्रणात् ॥सौवर्णे राजते वापि ताम्रे वा शंख एव वा ॥२५॥अर्घ्यं संस्कृत्य विधिवद्वारिचंदनपुष्पकैः ॥यवदूर्वाकुशाग्रैश्च फलसिद्धार्थकैस्तिलैः ॥२६॥दूर्वाकुशाग्रैर्देवस्य मूर्ध्नि सिंचेत्तदग्रतः ॥सावशेषं क्षिपेद्भूमावेषोऽर्घविधिरीरितः ॥२७॥जातीफलैर्वा कंकोलैर्लवंगैः संस्कृतं जलम् ॥दद्यादाचमनार्थं तु मधुपर्कं ततो ददेत् ॥२८॥मधुसर्पिर्युतं गव्यं दधि कांस्ये हि निर्मले ॥पात्रे स्थितं च पिहितं पात्रेणान्येन तादृशा ॥सुसंस्कृतं फलयुतं स्नपने जलमुच्यते ॥२९॥पट्टकौशेयकापासनिर्मिते वाससी शुभे ॥यथाशक्ति प्रदेये च वित्तशाठ्यं न कारयेत् ॥१३०॥हारकेयूरमुकुटग्रैवेयादिकभूषणम् ॥यथाशक्ति यथास्थानं देवस्यांगे निवेशयेत् ॥३१॥उपवीतं हरेर्दद्यात्पट्टसूत्रविनिर्मितम् ॥कार्पासमथवा विप्रा गंधचंदनसंस्कृतम् ॥३२॥चंद्रचंदनकस्तूरीकुंकुमैरनुलेपनम् ॥३३॥तुलसीदलमालां च जातीपंकजचंपकैः ॥अशोकच्छुरपुन्नागनागकेसरकेसरैः ॥३४॥अन्यैः सुगंधैः कुसुमैर्माला माल्यमथापि वा ॥मुक्तकानि च पुष्पाणि दद्याद्देवस्य मूर्द्धनि ॥३५॥माला सा प्रपदीनातु माल्यं कंठोरुसंमितम् ॥गर्भकं केशमध्ये तु मूर्ध्नि पुष्पांजलिं क्षिपेत् ॥३६॥सगुग्गुल्वगुरूशीरसिताज्यमधुचंदनैः ॥धूपं दद्यात्सुगंधाढ्यं दीपं गोसर्पिषा शुभम् ॥कर्पूरगर्भया वर्त्या तिलतैलेन वा ददेत्॥ ३७॥अखंडितसमुद्धौतं शालितंडुलनिर्मितम् ॥सुपक्वमन्नं सुरभि सर्पिषा च सुवासितम् ॥३८॥सौरभेयदधिक्षीरपक्वरंभासितायुतम् ॥नानाव्यंजनसंकीर्णं सोपदंशं सपूपकम् ॥३९॥नानाफलयुतं हृद्यं सुगंधं सुरसं नवम् ॥नैवेद्यं देवदेवस्य प्रस्थादूनं न शस्यते ॥१४०॥धूपे दीपे च नैवेद्ये स्नानेऽर्घे मधुपर्कके ॥वस्त्रे यज्ञोपवीते च दद्यादाचमनीयकम् ॥४१॥अन्यत्र केवलं वारि संस्कृतं त्वौपचारिकम्नैवेद्यांते त्वाचमनं दद्याच्च करघृष्टिकम्॥४२॥सगंधचंदनं विप्रास्तांबूलं च ददेत्ततः॥सकर्पूरलवंगैलाजातीक्रमुकसंयुतम्॥४३॥अष्टोत्तरशतं जप्त्वा मूलमंत्रमनन्यधीः ॥स्तुत्वा प्रदक्षिणं कृत्वा प्रार्थयेत्पुरुषोत्तमम् ॥४४॥देवदेव जगन्नाथ सर्वतीर्थप्रवर्त्तक ॥सर्वतीर्थमयश्चासि सर्वदेवमय प्रभो ॥४५॥त्वत्प्रसादान्मया तीर्थराजे स्नानं हि यत्कृतम् ॥तदस्तु सफलं देव यथोक्तफलदो भव ॥४६॥सिंधुराजस्त्वं च विभो द्रवरूपोऽस्यसंशयम् ॥पापालये निमग्नं मां परित्राहि नमोऽस्तु ते ॥४७॥इत्थं प्रपूज्य देवेशं नारायणमनामयम् ॥तीर्थराजकृतस्नानः सर्वतीर्थफलं लभेत् ॥४८॥गवां कोटिप्रदानेन क्रतुकोटिकृतेन च ॥कोटिब्राह्मणभोज्येन महादानैश्च कोटिशः ॥यत्पुण्यं कर्मिणां प्रोक्तं तदनेन हि लभ्यते ॥४९॥ध्यानं दानं तपो जाप्यं श्राद्धं च सुरपूजनम् ॥सिंधुराजे कृतं सर्वं कोटिकोटिगुणं भवेत् ॥१५०॥अपि नः स कुले कश्चित्सिंधुस्नायी भविष्यति ॥देवेभ्यश्च पितृभ्यश्च दास्यते च तिलोदकम् ॥५१॥क्रंदंति सर्वपापानि संभ्रांताः सर्वपातकाः ॥अनिष्टानि पलायन्ते सिंधुस्नानोद्यतस्य वै ॥५२॥अन्यतीर्थे कृतं पापं सिंधुतीरे विनश्यति ॥सिंधुतीरे कृतं पापं सिधुस्नाने विनश्यति ॥५३॥सिंधुस्नानरतं नित्यं दृष्ट्वैव यमकिङ्कराः ॥दिशो दश पलायन्ते सिंहं दृष्ट्वा यथा मृगाः ॥५४॥यमोऽपि भीतस्तं दृष्ट्वा प्रणिपत्य प्रपूज्य च ॥न शक्नोति तदा स्थातुं तस्याग्रे पुण्यकर्मिणः ॥५५॥वांछंति देवता नित्यं मानुष्यं प्राप्नुयामहे ॥सम्यक्छु(छ्रु?)द्धतन्वो भूत्वा सिंधुस्नानं लभेमहि ॥५६॥मेरुमन्दरमात्रोऽपि राशिः पापस्य कर्मणः ॥सिंधुस्नानेन दग्धः स्यात्तूलराशिरिवानलात् ॥५७॥अप्सु नारायणं देवं स्नानकाले स्मरेत्सदा ॥साक्षाद्विष्णुस्वरूपेऽत्र सिंधौ चैव विशेषतः ॥५८॥ब्रह्मघ्नो वा सुरापो वा गोघ्नो वा पञ्चपातकी ॥सर्वे ते निष्कृतिं यांति सिंधुस्नानान्न संशयः ॥५९॥कपिलाकोटिदानाच्च सिन्धुस्नानं विशिष्यते ॥सकृत्सिंध्ववगाहेन कुलकोटिं समुद्धरेत् ॥१६०॥सर्वतीर्थेषु यत्पुण्यं सर्वेष्वायतनेषु च॥तत्फलं लभते सर्वं सिन्धुस्नानान्न संशयः ॥६१॥य इच्छेत्सफलं जन्म जीवितं श्रुतमेव वा ॥स पितॄंस्तर्पयेत्सिंधुमभिगम्य सुरांस्तथा ॥६२॥चत्वारः सुलभा वेदाः सषडंग पदक्रमाः ॥सुलभानि कुरुक्षेत्रे दानानि विविधानि च ॥६३॥चांद्रायणानि कृच्छ्राणि तपांसि सुलभान्यपि ॥अग्निष्टोमादयो यज्ञाः सुलभा बहुदक्षिणाः ॥६४॥सिन्धुतोयैश्च सलिलैर्दुर्लभं पितृतर्पणम् ॥मासं तर्पणमात्रेण पिंडानां पातनेन च ॥६५॥सिन्धौ वै पितरः सर्वे विमानान्सूर्यवर्चसः ॥सिन्धुतर्पणसंतुष्टाः श्राद्धपिंडसुतर्पिताः ॥आरुह्य सहसा यांति ब्रह्मलोकं सनातनम् ॥६६॥आद्यंतयोर्जगन्नाथं पूजयित्वा यथाविधि ॥तीर्थराजेऽभिषिच्य स्वं नरः स्यान्मुक्तिभाजनम् ॥६७॥ततस्तीर्थविसर्गं च कृत्वा शुद्धमनाः पुमान् ॥रामं कृष्णं सुभद्रां च नत्वा रूपं विचिन्तयेत् ॥१६८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये त्रिंशोऽध्यायः ॥३०॥ N/A References : N/A Last Updated : October 13, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP