संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|पुरुषोत्तमजगन्नाथमाहात्म्यम्| अध्याय २ पुरुषोत्तमजगन्नाथमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ विषयानुक्रमणिका पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय २ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय २ Translation - भाषांतर ॥ जैमिनिरुवाच ॥ततो ब्रह्मागमत्तूर्णं यत्रास्ते भगवान्स्वयम् ॥स्तवान्तेऽसौ यथा दृष्टस्तथाद्राक्षीत्प्रभुं तदा ॥१॥प्रत्यभिज्ञानसंहृष्टस्तं दृष्ट्वा परमेश्वरम् ॥अत्यद्भुतज्ञाननिधिर्बभूवासौ द्विजोत्तमाः ॥२॥यावत्स्तोतुं समारेभे हर्षसंफुल्ललोचनः ॥तावदेव समागत्य कुतश्चिद्वायसोत्तमः ॥३॥कारुण्योदकसंपूर्णे तस्मिन्कुण्डे निमज्य तम् ॥विलोक्य माधवं नीलरत्नकांतिं कृपानिधिम् ॥४॥काकदेहं समुत्सृज्य लुठमानो मुहुः क्षितौ ॥शंखचक्रगदापाणिस्तस्य पार्श्वे व्यवस्थितः ॥५॥तिरश्चस्तां गतिं दृष्ट्वा योगींद्राणां सुदुर्लभाम् ॥मेनेऽसौ मुनयः सृष्टिः क्रमात्क्षीणा भविष्यति ॥६॥मनुष्याधिकृते मुक्तौ वेदांते संशयोऽभवत्॥न किंचिद्दुर्लभं चेह विष्णुभक्तस्य विद्यते ॥७॥प्रत्यक्षोऽभूद्द्विजश्रेष्ठाः पुराणपुरुषोदिते ॥संकीर्त्य यन्नाम नरः सर्वपापैः प्रमुच्यते ॥८॥तस्य संदर्शने विप्रा मुक्तिः किं खलु दुर्लभा ॥मनसा ध्याययन्विष्णुं त्यजन्प्राणान्विमुच्यते ॥९॥साक्षात्कृतो भगवतः किं चित्रं मुक्तिमेति यत् ॥पुरुषोत्तमसंज्ञस्य क्षेत्रस्य महिमाद्भुतः ॥१०॥यत्र काकोऽपि च हरिं साक्षात्पश्यति भो द्विजाः ॥सुदुर्लभं क्षेत्रमिदमज्ञानां च विमोचनम् ॥अहो क्षेत्रस्य माहात्म्यं काकस्यापि विमुक्तिदम् ॥किं पुनः सततं शांति वैराग्यज्ञानसंयुजाम् ॥११॥॥ ऋषय ऊचुः ॥नीलाख्यं माधवं दृष्ट्वा किं चकार पितामहः ॥१२॥तद्दर्शने क्षणान्नष्टदेहबन्धं च वायसम् ॥१३॥॥ जैमिनिरुवाच ॥अत्यद्भुतमयं दृष्ट्वा यावद्ध्यायति माधवम् ॥तावत्पितृपतिः स्वाधिकारसंयमनाकुलः ॥१४॥दीनाननो निःश्वसन्वै तत्र यातस्त्वरान्वितः ॥नीलाद्रौ माधवं दृष्ट्वा साऽष्टांगं प्रणिपत्य च ॥१५॥तुष्टाव स जगन्नाथं स्वाधिकारदृढस्थितौ ॥॥ यम उवाच ॥नमस्ते देवदेवेश सृष्टिस्थित्यन्तकारण ॥१६॥त्वयि प्रोतमिदं सर्वं सूत्रे मणिगणा यथा ॥त्वया धृतं त्वया सृष्टं त्वया चाप्यायितं जगत् ॥१७॥चन्द्रसूर्यादिरूपेण नित्यं भासयसेऽखिलम् ॥विश्वेश्वरं जगद्योनिं विश्वावासं जगद्गुरुम् ॥१८॥विश्वसाक्षिणमाद्यन्तवर्जितं प्रणमाम्यहम् ॥नमः परमकारुण्यजलसंभृतसिन्धवे ॥१९॥परापरपरातीतविभवे विश्वसंभवे ॥२०॥भवसंतापनीहारभानवे दीनबन्धवे ॥स्वमायारचिताशेष भवे गुणरज्जवे ॥२१॥नमः कमलकिंजल्क पीतनिर्मलवाससे ॥महाहवरिपुस्कन्ध कृंतचक्राय चक्रिणे ॥२२॥दंष्ट्रोद्धृत क्षितिभृते त्रयीमूर्तिमते नमः ॥नमो यज्ञवराहाय चन्द्रसूर्याग्निचक्षुषे ॥२३॥नरसिंहाय दंष्ट्रोग्रमूर्तिद्रावितशत्रवे ॥यदपांगविलासैक सृष्टिस्थित्युपसंहृतिः ॥२४॥उच्चावचात्मको ह्येष भवः संभवते मुहुः ॥तममुं नीलमेघाभं नीलाश्ममणिविग्रहम् ॥२५॥नीलाचलगुहावासं प्रणमामि कृपानिधिम् ॥शंखचक्रगदापद्मधारिणं शुभदायिनम् ॥२६॥प्रणताशेषपापौघदारिणं मुरवैरिणम् ॥नमस्ते कमलापांग संगसंस्कारचक्षुषे ॥२७॥श्रीवत्सकौस्तुभोद्भासि मनोहृद्व्यूढवक्षसे ॥यत्पादपंकजद्वंद्वसंश्रयैश्वर्यभागिनी ॥२८॥श्रीः संश्रिता जनैः शश्वत्पृथगैश्वर्यदायिनी ॥या परापरसंभिन्ना प्रकृतिस्ते सिसृक्षया ॥२९॥निर्विकारं परं ब्रह्म विकारि ससृजेंऽजसा॥सर्वलक्षणसंपूर्णा लक्षितां शुभलक्षणैः ॥लक्ष्मीशोरसि नित्यस्था लक्ष्मीं तां प्रणमाम्यहम् ॥३०॥॥ जैमिनिरुवाच ॥तदेवं धर्मराजेन श्रीकांतः परितोषितः ॥पार्श्वस्थां वल्लकीहस्तां नेत्रांतेनादिशच्छ्रियम् ॥३१॥तेन संभाविता लक्ष्मीर्भवदुःखविनाशिनी ॥शुभाय सर्वलोकानां यमं प्रोवाच लीलया ३२॥॥ लक्ष्मीरुवाच ॥यदर्थमावां संस्तौषि क्षेत्रेस्मिन्दुर्लभं हि तत् ॥अत्याज्यमावयोरेतत्क्षेत्रं श्रीपुरुषोत्तमम् ॥३३॥कल्पावसानेप्यावां वै ध्रियेते परमेष्ठिना ॥ब्रह्मादिदिक्प्रभूणां हि स्वामित्वं नेह विद्यते ॥३४॥नेह कर्मपरीपाकाः संभवंति कदाचन॥अत्र प्रवसतां नृणां तिरश्चामपि दुष्कृताम्॥ ३५॥दह्यते ज्वलिताग्नौ हि तूलराशिर्यथा भृशम् ॥ये बद्धा पापपुण्याभ्यां निगडाभ्यामहर्निशम् ॥३६॥तेषां संयमिता त्वं हि यमः पूर्वं विनिर्मितः ॥अत्र साक्षाद्वपुष्मंतं नीलेन्द्रमणिमंजुलम् ॥३७॥दृष्ट्वा नारायणं देवं मुच्यते कर्मबन्धनात् ॥अतोऽन्यतः कर्मभूमौ प्रभुत्वं सूर्यसंभव ॥३८॥वैक्लव्यं क्षेत्रराजेस्मिन्मा गास्त्वं यम संयमे ॥तवापि भगवानेष विधाता प्रपितामहः ॥३९॥तिर्यंचं विष्णुसारूप्यं प्राप्तं पश्यति कौतुकात् ॥एष कर्मपरीपाकं सर्वेषां वेत्ति कंजजः ॥४०॥ज्ञात्वा क्षेत्रस्य माहात्म्यं स्तौति देवं गदाधरम्॥त्वद्वशं गंतुमुचिता नेह तिष्ठंति जंतवः ॥४१॥वैवस्वत वसंत्यत्र जीवन्मुक्ता मुमुक्षवः ॥तया संबोधितस्त्वेवं विष्णुना स्त्रीस्वरूपिणा ॥ततोऽहंकारलज्जाभ्यां विनीतः प्राब्रवीद्यमः ॥४२॥॥ यम उवाच ॥मातस्त्वया यदाज्ञप्तं पुरा नैतन्मया श्रुतम् ॥४३॥अज्ञानोपहतो वेद्मि रहस्यं कथमुत्तमम् ॥यस्य स्वरूपं वेदाश्च न च वेत्ति पितामहः॥४४॥महिमानं कथं तस्य वेद्म्यहंकार मोहितः॥यदादिष्टं सुरेशानि क्षेत्रमेतद्विमु्क्तिदम्॥४५॥सान्निध्याद्वासुदेवस्य ईश्वरेच्छा निरंकुशा॥अन्यत्र बन्धदो विष्णुरत्र मोक्षं ददाति यत् ॥४६॥ममापि निरयाणां च स्रष्टासौ त्रिदिवस्य च॥मृतानामत्र मुक्तिश्चेत्तन्मामंब सुविस्तरम्॥४७॥क्षेत्रसंस्थाप्रमाणं हि तत्र स्थिति फलं हि यत् ॥तीर्थानि कानि संत्यत्र किमन्यद्वा रहस्यकम् ॥४८॥किमधिष्ठातृकं क्षेत्रं तत्सर्वं कथयस्व मे ॥तदहं संपरित्यज्य निर्भयः संचरे यथा ॥४९॥इति श्रीस्कांदे महापुराण एकाशातिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे द्वितीयोऽध्यायः ॥२॥ N/A References : N/A Last Updated : September 30, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP