संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|पुरुषोत्तमजगन्नाथमाहात्म्यम्| अध्याय १० पुरुषोत्तमजगन्नाथमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ विषयानुक्रमणिका पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय १० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय १० Translation - भाषांतर ॥ इन्द्रद्युम्न उवाच ॥जन्मप्रभृति तत्र त्वं न प्रयातो द्विजोत्तम ॥कथं विद्याद्भवान्दिव्यवृत्तांतं पुरुषोत्तमे ॥१॥॥ विद्यापतिरुवाच ॥तत्र स्थितोऽहं सायाह्ने भगवंतमुपागमम् ॥तस्मिन्काले दिव्यगन्धो ववौ च शिशिरो मरुत् ॥२॥उद्यतः संकुलः शब्दः श्रूयते स्म वियत्पथे ॥क्रमाद्याहि प्रयाहीति स तु वर्णमयः स्वनः ॥३॥दिविष्ठानां पतत्पुष्पवृष्ट्याच्छादितपर्वतः ॥समागमोऽभूत्सान्निध्ये वैकुंठस्य महीपते ॥४॥वीणावेणुमृदंगानां चर्चरीणां च निःस्वनः ॥अभूतपूर्वस्तत्रासीद्दिव्यगानविमिश्रितः ॥५॥सहस्रमुपचाराणां प्रीतये परमेशितुः ॥देवैः समर्पितं तत्र मनुष्यादृष्टपूर्वकम् ॥६॥संपूज्य विधिवद्देवं करमात्रोपलक्षिताः ॥जयपूर्वैश्च तं स्तोत्रैः संतोष्य मधुसूदनम् ॥७॥यथागतं ते त्रिदशाः प्रययुस्त्रिदशालयम् ॥तेषु यातेषु शबरः सखा विश्वावसुर्मम ॥८॥दिव्योपहारभोज्यानि माल्यं चेदं ददौ मम ॥अनर्घ्यमेतदम्लानं श्रीराज्यसुखदायकम् ॥९॥अलक्ष्मीपापरक्षोघ्नं योग्यं तेनाहृतं मया ॥शृणुष्व तस्य संस्थानं विष्णोर्यत्क्षेत्रमुत्तमम् ॥१०॥अपूर्वशिल्पनैपुण्यं रूपं चास्य मनोहरम् ॥न भूमिजन्मना पुंसा शक्यते गदितुं हि तत् ॥१ १॥तद्भाग्यपौरुषाभ्यां तल्लक्षितं कथयामि ते ॥समंताद्गहनाकीर्णं क्षेत्रं नीलाद्रिनाभिकम् ॥१२॥आयामविस्तृतिभ्यां च विख्यातं क्रोशपंचकम् ॥तीर्थराजस्य वेलायां स्वर्णवालुकयावृतम् ॥१३॥अद्रेः शृंगे महानुच्चः कल्पस्थायी वटो महान् ॥क्रोशायतः पुष्पफलवर्जितः पल्लवोज्ज्वलः ॥१४॥सूर्यापक्रमणे तस्य छायां नापक्रमेत वै ॥तस्य पश्चात्प्रदेशे हि कुंडं रोहिणसंज्ञकम् ॥१५॥जलोद्गमान्नीलदृषदारोहणविभूषितम् ॥बहिः स्फटिकवेदीभिश्चतुर्दिक्षु परीवृतम् ॥१६॥अघसंघातहारीभिरद्भिः पूर्णं मनोरमम् ॥तत्पूर्ववेदिकामध्ये न्यग्रोधच्छायशीतले ॥१७॥इन्द्रनीलमयो देव आस्ते चक्रगदाधरः ॥एकाशीत्यंगुलमितः स्वर्णपद्मोपरि स्थितः ॥१८॥अष्टमीचन्द्रशकलशोभाविजयिभालभूः ॥स्मेरेंदीवरयुग्मश्रीधिक्कारोद्यतलोचनः ॥१९॥आननामृतभानूद्यत्संतापत्रयमोचनः ॥नासापुटद्वयोद्भासितिलपुष्पप्रशोभनः ॥२०॥वपुषोऽश्ममयत्वेऽपि सुस्मितस्रपिताधरः ॥हाससंफुल्लगंडाभ्यां रुचिरं चिबुकं हनुः ॥२१॥अनन्यपूर्वघटितं सृक्किणीयुगमंजसा॥हासनिम्नाधरौ गंडौ चिबुकं सृक्किणी शुभे ॥२२॥वहन्निदर्शनं देवो विश्वकर्मादिशिल्पिनाम् ॥मकरास्यकर्णभूषाशोभिश्रुतियुगेन सः ॥२३॥गुरुभार्गवयोर्मध्ये पूर्णचंद्रोपहासकः ॥ग्रैवयशोभाजनककंठदेशेन पश्यताम् ॥२४॥दक्षिणावर्त्तशंखस्य मुक्ताजन्माभिशंककृत् ॥पीनायतस्कंधयुगजानुदीर्घचतुर्भुजः ॥२५॥स्वच्छनिर्मलहारोपशोभकोरःस्थलो विभुः ॥धत्ते चतुर्दशजगद्दिव्यकौस्तुभबिंबितम् ॥२६॥निम्ननाभिह्रदाविष्टतनुरोमालिमंजुलः ॥हारं त्रिवलिमध्येन स्थाणुत्वपरिणामकः ॥२७॥सुरत्नमेखलादाम्ना किंकिणीमौक्तिकस्रजा ॥जगल्लावण्यपुटके स्फिचौ देवस्य शोभतः ॥२८॥जघनालंविमुक्तास्रक्पीतचैलोपशोभितम् ॥जंघास्तंभयुगं मोक्षमांगल्यतोरणाश्रयम् ॥२९॥वृत्तानुपूर्वजानुभ्यां मालया प्रपदीनया ॥रत्नाढ्यवलयाभ्यां च शोभेते चरणौ विभोः ॥३०॥हारकंकणकेयूर मुकुटाद्यैरलंकृतम् ॥ज्ञानाहंकारकैश्वर्यशब्दब्रह्मणि केशवः ॥३१॥चक्रपद्मगदाशंखपरिणामानि धारयन् ॥सर्वाशाद्योतको देवो नीलाद्रेरुपरि स्थितः ॥३२॥भक्त्या प्रणम्य दृष्ट्वा यं देहबंधात्प्रमुच्यते ॥वामपार्श्वगता लक्ष्मीराश्लिष्टा पद्मपाणिना ॥३३॥वल्लकीवादनपरा भगवन्मुखलोचना ॥सर्वलावण्यवसतिः सर्वालंकारभूषिता ॥३४॥तावपश्यं हि जगतः पितरावचलस्थितौ ॥तूष्णींभूतौ स्मेरदृशाऽनुगृह्णंतौ च पश्यतः ॥३५॥सजीवौ तावबुधं भो दीनानुग्रहकारणात् ॥छत्रीभूतफणावृंदः शेषः पश्चादवस्थितः ॥३६॥अग्रे व्यवस्थितं दृष्टं वपुर्बिभ्रत्सुदर्शनम् ॥कृतांजलिपुटं तस्य पश्चाद्गरुडमास्थितम् ॥३७॥एवमद्भुतरूपं तं दृष्ट्वा साक्षाच्छ्रियः पतिम् ॥चेतोरज्जुभिराकृष्टमिव तत्रैव धावति ॥३८॥अनेकजन्मसाहस्रैः सुकर्माण्यर्जितानि चेत् ॥युगपत्परिपक्वानि यस्यासौ तं हि पश्यति ॥३९॥तीर्थस्नानतपोदानदेवयज्ञव्रतैरपि ॥नालमालोकितुं मर्त्यस्तादृशं पुरुषोत्तमम् ॥४०॥ये नीलमूर्तिं विमलांबराभं ध्यायंति विष्णुं पुरुषोत्तमस्थम् ॥ते क्षीणबंधाः प्रविशंति विष्णोः पुरं हि यत्प्राप्य न शोचतीह ॥४१॥विद्याभिरष्टादशभिः प्रणीतं नानाविधं कर्मफलं नृणां यत् ॥एकत्र तत्सर्वममुष्य विष्णोः संदर्शनस्यैति शतांशमानम् ॥४२॥किमत्र वाच्यं त्वधिकं क्षितींद्र पुंसो मतिर्यावदुपैति कामान् ॥लभेत नीलाद्रिपतिं प्रणम्य ततोऽधिकंक्षेत्रभुवो महिम्ना ॥४३॥स एव दाता क्रतुभिः स यष्टा सत्यप्रवक्ता स तु धर्मशीलः ॥सर्वैर्गुणैः सर्वभवैर्वरिष्ठो नीलाद्रिनाथः खलु येन दृष्टः ॥४४॥तत्र ये सेवकाः संति माधवस्य जगत्पतेः ॥तेभ्यः सकाशान्माहात्म्यमिदं ज्ञातं मया नृप ॥४५॥तस्मिन्परंपरायातमादिसृष्टेः पुरातनम् ॥प्रसिद्धमिदमाख्यानं श्रुत्वा तत्रागतो ह्यहम् ॥४६॥त्वदाज्ञया तत्र गत्वा दृष्ट्वा श्रीपुरुषोत्तमम् ॥निवेदितं ते राजेंद्र यथेच्छसि तथा कुरु ॥४७॥॥ इंद्रद्युम्न उवाच ॥आप्तवाक्याद्भगवतः श्रुत्वा रूपमघापहम् ॥कृतकृत्योऽस्मि भगवन्दिव्यनिर्माल्यसंगमात् ॥४८॥बहुजन्मस्वर्जितानि क्षीणानि दुरितानि मे ॥अधिकारी त्वहं जातो दर्शने श्रीपतेरिह ॥४९॥सर्वात्मनाहं यास्यामि राज्येन सुसमृद्धिना ॥तत्रावासं करिष्यामि पुरदुर्गाणि चैव हि ॥५०॥क्रतुना हयमेधेन यक्ष्ये प्रीत्यै मुरद्विषः ॥शतोपचारैः श्रीनाथं पूजयिष्ये दिनेदिने ॥५१॥व्रतोपवासनियमैः प्रीणयिष्ये जगद्गुरुम् ॥वाक्यामृतेन संतप्तं यथा मामभिषेक्ष्यति ॥५२॥दीनानुकंपी भगवान्साक्षान्नारायणो विभुः ॥एवं स श्रद्धया भक्त्या संस्तुते यावदीश्वरम् ॥५३॥नारदस्तत्र संप्राप्तो भुवनालोककौतुकी ॥तमायांतमृषिं दृष्ट्वा वैष्णवाग्र्यं विधेः सुतम् ॥५४॥आशशंस स्वकार्यस्य सिद्धिं नरपतिस्तदा ॥उत्थाय सहसा विप्राः पाद्यार्घ्याचमनीयकैः ॥वरासनस्थं प्रणतः प्रोवाचेदं कृतांजलिः ॥५५॥॥ इन्द्रद्युम्न उवाच ॥अद्य मे सफला यज्ञा दानमध्ययनं तपः ॥५६॥यन्मे गृहं समागच्छद्द्वितीया ब्रह्मणस्तनुः ॥कृतार्थो यद्यपि मुने आगमानुग्रहात्तव ॥५७॥तथापि त्वत्प्रसादाय किमाज्ञां करवाणि ते ॥किं प्रयोजनमुद्दिश्य भवनं मे पवित्रितम् ॥५८॥॥ जैमिनिरुवाच ॥तच्छ्रुत्वा नृपतेर्वाक्यं भक्तिप्रश्रयकोमलम् ॥उवाच ब्रह्मणः पुत्रः स्मितपूर्वं महीपतिम् ॥५९॥॥नारद उवाच ॥इंद्रद्युम्न नृपश्रेष्ठ विमलैस्त्वद्गुणोत्करैः ॥प्रीणिता देवताः सिद्धा मुनयो ब्रह्मणा सह ॥६०॥स्वप्रतिष्ठा पृथग्योग्या गुणा एकैकशस्तव ॥ब्रह्मणः सदने स्थित्यै पर्याप्तास्तु समीहिताः ॥६१॥अवतीर्णो नरं द्रष्टुं तिष्ठंतं बदराश्रमे ॥तद्ध्यानावसरे ज्ञातो व्यवसायस्तवेदृशः ॥६२॥साधु व्यवसितं राजन्याभूत्ते बुद्धिरीदृशी ॥सहस्रजन्मस्वभ्यासाद्भक्तिर्भवति भूपते ॥६३॥नीलाचलगुहावासे माधवे जगतां धवे ॥पितामहो महाप्राज्ञो यमाराध्य जगत्पतिम् ॥६४॥विनिर्ममे सृष्टिमिमां लेभे पैतामहं पदम् ॥तदन्वयप्रसूतोऽसि युक्ता ते भक्तिरीदृशी ॥६५॥चतुर्वर्गफला भक्तिर्विष्णौ नाल्पतपःफलम् ॥अनाद्यविद्या सुदृढपञ्चक्लेशविवर्द्धिनी ॥६६॥एकैवेयं विष्णुभक्तिस्तदुच्छेदाय जायते ॥भवारण्ये प्रतिपदं दुःखसंकटसंकुले ६७॥नराणां भ्रमतां विष्णुभक्तिरेका सुखप्रदा ॥निरालये द्वंद्ववातप्रोद्यतेस्मिन्सुदुस्तरे ॥६८॥निमग्नानां भवांभोधौ विष्णुभक्तिस्तरिः स्मृता ॥आश्रित्यैकां भगवतीं विष्णुभक्तिं तु मातरम् ॥६९॥सन्तः सन्तुष्टमनसो न तु शोचन्ति जातुचित् ॥विष्णुभक्तिसुधापानसंहृष्टानां महात्मनाम् ॥७०॥ब्राह्म्यं पदं स्वल्पलाभो भाजनानां विमुक्तये ॥त्रिविधो योंऽहसा राशिः सुमहाञ्जन्मिनां नृप ॥७१॥विष्णुभक्तिमहादाववह्नौ स शलभायते ॥प्रयागगंगाप्रमुखतीर्थानि च तपांसि च ॥७२॥अश्वमेधः क्रतुवरो दानानि सुमहांति च ॥व्रतोपवासनियमाः सहस्राण्यर्जिता अपि ॥७३॥समूह एषामेकत्र गुणितः कोटिकोटिभिः ॥विष्णुभक्तेः सहस्रांशसमोऽसौ न हि कीर्तितः ॥७४॥॥ जैमिनिरुवाच ॥विष्णुभक्तेस्तु माहात्म्यं श्रुत्वा ब्रह्मर्षिणोदितम् ॥विष्णुभक्तेः स्वरूपं हि ज्ञातुकामः क्षितीश्वरः ॥७५॥नारदं पुनराहेदं वाक्यं सत्कारयुक्तिमान् ॥७६॥ इन्द्रद्युम्न उवाच ॥महिमा विष्णुभक्तेस्तु साधु प्रोक्तो महामुने ॥तस्याः स्वरूप जिज्ञासा चिरान्मे हृदि वर्त्तते ॥७७॥लक्षणं वर्णयेदानीं भक्तेर्वैष्णवपुंगव ॥त्वदन्यो न हि वक्ता स्याद्विज्ञातो मे महीतले ॥७८॥॥ नारद उवाच ॥साधु राजंस्त्वया पृष्टं भक्तिलक्षणमुत्तमम् ॥कथयिष्ये यथार्थं त्वां भक्तिभाजनमुत्तमम् ॥७९॥अपात्रे न हि वाच्येयं नरेंऽधे मलिनांतरे ॥शृणुष्वावहितो राजन्प्रोच्यमानां मयानघ ॥८०॥सामान्यतो विशेषाच्च विष्णोर्भक्तिं सनातनीम् ॥अत्यन्तसुखसंप्राप्तौ विच्छेदे दुःखसंततेः ॥८१॥हेतुरेकोऽयमेवेति संश्रयाद्भक्तिरुच्यते ॥त्रिधा सा गुणभेदेन तुरीया निर्गुणा मता ॥८२॥कामक्रोधाभिभूतानां दृष्ट्वा यान्यं न पश्यताम् ॥लब्धये चाभिचाराय भक्तिः स्यान्नृप तामसी ॥८३॥यशसे चातिरिक्ताय परस्य स्पर्द्धयापि वा ॥प्रसंगात्परलोकाय भक्तिः सा राजसी स्मृता ॥८४॥आमुष्मिकं स्थिरतरं दृष्ट्वा भावान्विनश्वरान् ॥पश्यताश्रमवर्णोक्तान्धर्मान्नैव जिहासता ॥८५॥आत्मज्ञानाय या भक्तिः क्रियते सा तु सात्त्विकी ॥जगच्चेदं जगन्नाथो नान्यं चापि च कारणम् ॥८६॥अहं च न ततो भिन्नो मत्तोसौ न पृथक्स्थितः ॥हीनं बहिरुपाधीनां प्रेमोत्कर्षेण भावनम् ॥८७॥दुर्लभा भक्तिरैषा हि मुक्तयेऽद्वैतसंज्ञिता ॥सात्त्विक्या ब्रह्मणः स्थानं राजस्या शक्रलोकताम् ॥८८॥प्रयांति भुक्त्वा भोगान्हि तामस्या पितृलोकताम् ॥पुनरागत्य भूर्लोकं भक्तिं तां वैपरीत्यतः ॥८९॥तामसो राजसीं कुर्याद्राजसः सात्त्विकीं तथा ॥सात्त्विको मुक्तिमाप्नोति कृत्वा चाद्वैतभावनाम् ॥९०॥एकामपि समाश्रित्य क्रमान्मुक्तिपथं व्रजेत् ॥विष्णुभक्तिविहीनस्य श्रौतस्मार्ताश्च याः क्रियाः ॥९१॥प्रायश्चित्तादिकं तीर्थं यात्रा कृच्छ्रादिकं तपः ॥कुले प्रसूतिः शिल्पानि सर्वं लौकिकभूषणम् ॥९२॥कायक्लेशः फलं तेषां स्वैरिणी व्यभिचारवत् ॥कुलाचारविहीनोऽपि दृढभक्तिर्जितेंद्रियः ॥९३॥प्रशस्यः सर्वलोकानां न त्वष्टादशविद्यकः ॥भक्तिहीनो नृपश्रेष्ठ सज्जातिर्द्धार्मिकस्तथा ॥९४॥नाल्पभाग्यस्य पुंसो हि विष्णौ भक्तिः प्रजायते ॥यां तु संपाद्य यत्नेन कृतकृत्यो न सीदति ॥९५॥यया वेत्ति जगन्नाथं सा विद्या परिकीर्तिता ॥येन प्रीणाति भगवांस्तत्कर्माशुभनाशनम् ॥९६॥विष्णुभक्तश्च संप्रोक्तस्ताभ्यां युक्तो दृढव्रतः ॥यत्पादपांसुना विश्वं पूयते सचराचरम् ॥९७॥सृष्टिस्थितिविनाशानां स्वेच्छया प्रभवत्यसौ ॥कि पुनः क्षुद्रकामानां भूमिस्वर्गादिसंपदाम् ॥९८॥वासुदेवस्य भक्तस्य न भेदो विद्यतेऽनयोः ॥वासुदेवस्य ये भक्तास्तेषां वक्ष्यामि लक्षणम् ॥९९॥प्रशांतचित्ताः सर्वेषां सौम्याः कामजितेंद्रियाः ॥कर्मणा मनसा वाचा परद्रोहमनिच्छवः ॥१००॥दयार्द्रमनसो नित्यं स्तेयहिंसापराङ्मुखाः ॥गुणेषु परकार्येषु पक्षपातमुदान्विताः ॥१॥सदाचारावदाताश्च परोत्सवनिजोत्सवाः ॥पश्यावः सर्वभूतस्थं वासुदेवममत्सराः ॥२॥दीनानुकंपिनो नित्यं भृशं परहितैषिणः ॥राजोपचारपूजायां लालनाः स्वकुमारवत् ॥३॥कृष्णसर्पादिव भयं बाह्ये परिचरंति ते ॥विषयेष्वविवेकानां या प्रीतिरुपजायते ॥४॥वितन्वते तु तां प्रीतिं शतकोटिगुणां हरौ ॥नित्यकर्तव्यताबुद्ध्या यजंतः शंकरादिकान् ॥५॥विष्णुस्वरूपान्ध्यायंति भक्त्या पितृगणेष्वपि ॥विष्णोरन्यं न पश्यंति विष्णुं नान्यत्पृथग्गतम् ॥६॥पार्थक्यं न च पार्थक्यं समष्टिव्यष्टिरूपिणः ॥जगन्नाथ तवास्मीति दासस्त्वं चास्मि नो पृथक् ॥७॥अन्तर्यामी यदा देवः सर्वेषां हृदि संस्थितः ॥सेव्यो वा सेवको वापि त्वत्तो नान्योऽस्ति कश्चन ॥८॥इति भावनया कृतावधानाः प्रणमंतः सततं च कीर्त्तयंतः ॥हरिमब्जजवन्द्यपादपद्मं प्रभजंतस्तृणवज्जगज्जनेषु ॥९॥उपकृतिकुशला जगत्स्वजस्रं परकुशलानि निजानि मन्यमानाः ॥अपि परपरिभावने दयार्द्राः शिवमनसः खलु वैष्णवाः प्रसिद्धाः ॥११०॥दृषदि परधने च लोष्टखंडे परवनितासु च कूटशाल्मलीषु ॥सखिरिपुसहजेषु बन्धुवर्गे सममतयः खलु वैष्णवाः प्रसिद्धाः ॥१३॥हरिचरणसरोजयुग्मचित्ता जडिमधियः सुखदुःखसाम्यरूपाः ॥अपचितिचतुरा हरौ निजात्मनतवचसः खलु वैष्णवाः प्रसिद्धाः ॥१४॥रथचरणगदाब्जशंखमुद्राकृतितिलकांकितबाहुमूलमध्याः ॥मुररिपुचरणप्रणामधूलीधृतकवचाः खलु वैष्णवा जयंति ॥१५॥मुरजिदपधनापकृष्टगन्धोत्तमतुलसीदलमाल्यचंदनैर्ये ॥वरयितुमिव मुक्तिमाप्तभूषाकृतिरुचिराः खलु वैष्णवा जयंति ॥१६॥विगलितमदमानशुद्धचित्ताः प्रसभविनस्यदहंकृतिप्रशांताः ॥नरहरिममराप्तबंधुमिष्ट्वा क्षयितशुचः खलु वैष्णवा जयंति ॥१७॥भगवति सततं प्रभक्तिभाजां शुभचरितं तव लक्ष्म नोभ्यधायि ॥श्रुतिपथभवतीर्णमाशु पुंसां हरति मलं चिरसंचितं यदेतत् ॥१६॥न हि धनमपि मृग्यते कदाचिन्न खलु शरीरजखेदसंप्रयोगः ॥मृदुलघुवचसाभिधानकीर्तिं भजनमहं तव दास्य एव चिंता ॥१९॥शुभचरितमपि द्विषंति पुंसां स्वयमिह दुश्चरितानुबंधचित्ताः ॥महदकुशलमप्यवाप्य सुस्था भगरसरसिका अवैष्णवास्ते ॥१२ ०॥परमसुखपदं हृदंबुजस्थं क्षणमपि नानुसज्जंति मत्तभावाः ॥वितथवचनजालकैरजस्रं पिदधति नाम हरेरवैष्णवास्ते ॥२१॥परयुवतिधनेषु नित्यलुब्धाः कृपणधियो निजकुक्षिभारपूर्णाः॥नियतपरमहत्त्वमन्यमाना नरपशवः खलु विष्णुभक्तिहीनाः ॥२२॥अनवरतमनार्यसंगरक्ताः परपरिभावकहिंसकाऽतिरौद्राः ॥नरहरिचरणस्मृतौ विरक्ता नरमलिनाः खलु दूरतो हि वर्ज्याः ॥१२३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे दशमोऽध्यायः ॥१०॥ N/A References : N/A Last Updated : October 02, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP