संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|वेङ्कटाचलमाहात्म्यम्| अध्यायः ३२ वेङ्कटाचलमाहात्म्यम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ ॥ अथ श्रीनिवासस्य लक्ष्म्यादिकृतपरिणयालंकारः ॥ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० विषयानुक्रमणिका वेङ्कटाचलमाहात्म्यम् - अध्यायः ३२ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्यायः ३२ Translation - भाषांतर ॥ अथ नद्युत्पादनायागस्त्वं प्रति अशरीर्युक्तिः ॥॥ भरद्वाज उवाच ॥स कदाचिन्मुनिवरः कृतपौर्वाह्निकक्रियः ॥विवेश देवतागारं समाराधयितुं शिवम् ॥१॥अदृश्यरूपा वाग्देवी तत्राश्रावि महात्मना ॥तेनाद्भुतोपपन्नेन व्यक्तवर्णसमुज्ज्वला ॥२॥आकाशवाण्युवाचैनमगस्त्यं जपतां वरम् ॥नदीहीनो ह्ययं देशः प्रसिद्धोऽपि न शोभते ॥३॥ज्ञानविज्ञानविमुखः साकार इव भूसुरः ॥दीक्षेव दक्षिणाहीना ज्योत्स्नाहीनेव शर्वरी ॥४॥न विभाति नदीहीना पृथ्वीयं भूसुरोत्तम ॥प्रवर्तय नदीं काञ्चिल्लोकानां हितकाम्यया ॥५॥अगाधदुरितोद्भूतभीतिमोचनशालिनीम् ॥हितमेतत्सुरौघानामेतन्मुनिवरार्थितम् ॥६॥भद्रमेतन्मनुष्याणामेतदाचर सुव्रत ॥देवानामृषिवर्याणां भूजनानां हितावहाम् ॥७॥पापपंकप्रशमनीं प्रवर्तय महानदीम् ॥८॥॥ श्रीभरद्वाज उवाच ॥तदाकर्ण्य वचो विप्रः क्षणं चिन्तापरायणः ॥समाप्य देवतापूजां बहिर्वेद्यामुपाविशत् ॥९॥आनाययामास तदा तदाश्रमगतान्मुनीन् ॥तेषामकथयच्चासौ दिव्यवाणीरितं वचः ॥१०॥तदद्भुतमुपश्रुत्य मुनयो हृष्टमानसाः ॥११॥अभिवन्द्य मुनिश्रेष्ठं मैत्रावरुणिमब्रुवन् ॥१२॥॥ अथ सुवर्णमुखर्युत्पादनायागस्त्यं प्रति महर्षिप्रार्थना ॥॥ मुनय ऊचुः ॥आश्चर्याणां महाश्चर्यं मंगलानां च मंगलम् ॥तवैव शोभते दिव्यं त्वच्चरित्रं कृपानिधे ॥१३॥तव हुंकारमात्रेण भ्रष्टो देवाधिराज्यतः ॥नहुषः कीटतां प्राप ततश्चित्रं न विद्यते ॥१४॥समावृतधराचक्रः कल्लोलाताडिताम्बरः ॥किं न्वतो विद्यते चित्रं यदब्धिश्चुलकीकृतः ॥१५॥सूर्यमार्गनिरोधार्थं प्रवृत्तो विन्ध्यभूधरः ॥त्वया प्रशांतिं गमितः किं न्वतो विद्यते परम् ॥१६॥तवाद्भुतानि कर्माणि कः स्तोतुं प्रभवेद्भुवि ॥मन्महाभाग्ययोगात्त्वं प्राप्तोऽसीति शरीरिताम् ॥१७॥वयं कृतार्थाः संजातास्त्रैलोक्ये यन्महामुने ॥निवसामोऽत्र भवता सनाथा ह्याश्रमस्थले ॥१८॥वर्ण्यो हि याम्यतो दूरे विषयोऽयं द्विजोत्तम ॥समस्तवस्तुपूर्णोपि नदीहीनो न राजते ॥१९॥किमलब्धनदीस्नानेनाऽमुना हतजन्मना ॥अनदीके जनपदे वासादजननं वरम् ॥२०॥परिपाकस्तु भाग्यानामस्माकं समुपस्थितः ॥यदादिष्टोसि विबुधैः प्रवर्तय महानदीम् ॥२१॥प्रवर्तितायां देशेस्मिन्महानद्यां तवानघ ॥कदा नु खलु यास्यामः कृतस्नाना कृतार्थताम् ॥२२॥किं वितर्केण बहुना प्रयत्नः क्रियतां धुवम् ॥समानेतुं जगद्वन्द्यां शरण्यां सरिदुत्तमाम् ॥२३॥॥ श्रीभरद्वाज उवाच ॥स तेषां वचनं हृद्यं मानयित्वा महाद्विजः ॥समानेष्यामि सरितमिति चक्रे विनिश्चयम् ॥२४॥॥ अथ सुवर्णमुखर्याविर्भावायागस्त्यकृततपःप्रकारः ॥मुनीश्वरैरनुज्ञातस्तानभ्यर्च्य सुरानपि ॥विशेषपूजां विधिवद्विधाय पुरविद्विषः ॥२५॥अंगीकृत्य व्रतं गाढं बहुलक्लेशदुःसहम् ॥अनन्यसुलभं यत्नात्स चकार महत्तपः ॥२६॥घोरेषु घर्मदिवसेष्वन्तरस्थो हविर्भुजाम् ॥चतुर्णां सवितृन्यस्तदृष्टिर्नापययौ क्लमम् ॥२७॥वार्षिकेषु दिनेषूग्रवायुसम्पातदुःसहैः ॥आसारैस्ताड्यमानोऽपि नोद्वेगमगमद्धृदि ॥२८॥हेमन्ते समये तिष्ठन्कण्ठदघ्नेषु वारिषु ॥जपध्यानपरो भूत्वा न किञ्चिद्विकृतिं ययौ ॥२९॥ततः समीहितार्थस्य विलम्बमवलोक्य सः ॥पुनर्गाढतरां निष्ठां प्रपेदे लोकभीषणाम् ॥३०॥निगृह्य मानसीं वृत्तिं निराहारो जितेन्द्रियः ॥अविज्ञातबहिर्वृत्तिस्तस्थौ पाषाणवत्तदा ॥३१॥एवं तपस्यतस्तस्य सर्वाङ्गेषु हुताशनः ॥अभ्रंलिहो ज्वलज्ज्योतिर्निश्चक्राम भयङ्करः ॥३२॥ततोऽद्भुतशिखाजालैरावृताः सर्वतो दिशः ॥समुदग्रभयोद्विग्ना जनौघाः परिचुक्रुशुः ॥३३॥तदा तथाविधं घोरं जगत्संक्षोभमागतम् ॥देवा विज्ञापयामासुर्नमस्कृत्याब्जजन्मने ॥३४॥॥ अथागस्त्याश्रमं प्रति चतुर्मुखागमनम् ॥तानाश्वास्य ततो ब्रह्मा सिद्धगन्धर्वसेवितः ॥प्रादुरासीत्कुम्भभुवः पुरोभागे तपस्यतः ॥३५॥तमागतं समालोक्य ब्रह्माणं परमं द्विजः ॥प्रणम्य विविधैः स्तोत्रैस्तोषयामास तन्मनाः ॥३६॥ततस्तं विनयानम्रमगस्त्यं वीक्ष्य पद्मभूः ॥प्रसादसुमुखो भूत्वा पूतां गिरमुपाददे ॥३७॥॥ ब्रह्मोवाच ॥परितुष्टोऽस्मि तपसा दुश्चरेण तवानघ ॥वृणीष्व यद्यदिष्टं ते तत्तद्दास्यामि सुव्रत ॥३८॥॥ अगस्त्य उवाच ॥तव प्रसादात्सकलमुपपन्नं मम प्रभो ॥संप्रयच्छसि चेत्कामं याचे निःशंकया धिया ॥३९॥नदीहीनमिमं देशं दृष्ट्वा खिद्यति मे मनः ॥अर्थाववोधरहितं श्रुतिपाठमिवाधिकम् ॥४०॥उर्वीं पावयितुं दक्षां रक्षितुं च महानदीम् ॥प्रसादं कुरु देवेश ममेष्टमिदमेव हि ॥४१॥॥ अथागस्त्यप्रार्थनया गङ्गां प्रति चतुर्मुखचोदना ॥॥ श्रीभरद्वाज उवाच ॥अगस्त्यस्य वचः श्रुत्वा भूयादेवमिति ब्रुवन् ॥सस्मार मनसा ब्रह्मा सुरवर्त्माश्रयां नदीम् ॥४२॥अथोपेत्य वियद्गंगा पुरस्तात्परमेष्ठिनः ॥अतिष्ठन्मुकुटन्यस्तप्रशस्ताञ्जलिभासुरा ॥४३॥स्वशासनात्समायातां विनयानतमस्तकाम् ॥तां सर्वजगतां धात्रीमिदं वचनमब्रवीत् ॥४४॥॥ ब्रह्मोवाच ॥गंगे मयानुशास्यासि कार्ये लोकोपकारके ॥तवापि लोकरक्षायां ममेव नियता स्थितिः ॥४५॥देशे नदीविहीनेऽत्र प्रवर्तयितुमापगाम् ॥हितार्थं सर्वलोकानां कुम्भजन्मा समीहते ॥४६॥तस्मात्त्वमवतीर्योर्वीं स्वांशेनैकेन भूजनान् ॥पुनीहि गच्छ वसुधामेतद्दर्शितवर्त्मना ॥४७॥भूलोके संप्रवृत्ते तु प्रवाहे सिद्धिकांक्षिणः ॥सेविष्यन्ते सुरवरा मुनिवर्याश्च संततम् ॥४८॥नदीषूत्तमतां याहि त्राहि त्वत्संश्रयाञ्जनान् ॥कुरु प्रियमगस्त्यस्य गच्छ भद्रे यथासुखम् ॥४९॥॥ भरद्वाज उवाच ॥इत्युक्त्वान्तर्दधे ब्रह्मा तया नद्या च तेन च ॥प्रणामपूजनस्तोत्रैर्विशेषैरभिनन्दितः ॥५०॥॥ अथागस्त्यसमीपे स्वांशत्वेन गंगाकृतनद्युत्पत्त्यभ्युपगमः ॥अथ गंगा मुनिपतेः पुरस्तात्स्वांशसंभवाम् ॥दिव्यतेजोमयीं मूर्तिं दर्शयित्वा वचोऽब्रवीत् ॥५१॥॥ गंगोवाच ॥मदीयांशोऽयमवनीं संप्राप्य मुनिवल्लभ ॥पूरयिष्यति तेऽभीष्टं नदीरूपं समाश्रितः ॥५२॥॥ भरद्वाज उवाच ॥इत्युक्त्वा सिद्धवाहिन्यां गतायां तत्प्रयुक्तया ॥गन्तव्यं वर्त्मना केनेत्युक्तो मुनिरुवाच ताम् ॥५३॥॥ अगस्त्य उवाच ॥गच्छन्पुरस्तात्कल्याणि त्वदीयगमनोचितम् ॥अहं प्रदर्शयिष्यामि मार्गं त्वं मामनुव्रज ॥५४॥इत्युक्ता मुनिना तेन संप्रहृष्टा तवानघ ॥यदिष्टं तत्करिष्येऽहमिति प्रोवाच सा शुभा ॥५५॥अथ मुनिरवतार्य तां नगेन्द्राद्धृततटिनीतनुमभ्रसंगिशृङ्गात् ॥मुदिततरमना ययौ पुरस्तात्तदभिमतां पदवीं प्रदर्शयन्सः ॥५६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये श्रीसुवर्णमुखरीमाहात्म्यप्रशंसायां सुवर्णमुखर्याविर्भाववर्णनंनाम द्वात्रिंशोऽध्यायः ॥३२॥ N/A References : N/A Last Updated : September 30, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP