संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|वेङ्कटाचलमाहात्म्यम्| अध्यायः ७ वेङ्कटाचलमाहात्म्यम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ ॥ अथ श्रीनिवासस्य लक्ष्म्यादिकृतपरिणयालंकारः ॥ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० विषयानुक्रमणिका वेङ्कटाचलमाहात्म्यम् - अध्यायः ७ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अथ धरणीदेव्यै बकुलमालिकानिवेदितश्रीनिवासोदन्तः Translation - भाषांतर ॥ धरण्युवाच ॥कैषा बत वरा कन्या युष्माभिः संगता कुतः ॥किमर्थमागता चेह पूज्यैषा प्रतिभाति मे ॥१॥॥ कन्यका ऊचुः ॥एषा दिव्याङ्गना देवी त्वयि कार्यार्थमागता ॥देवालये सङ्गतेयमस्माभिः शिवसन्निधौ ॥२॥पृष्टावदच्च भवतीं द्रष्टुमेवागतेति वै ॥शक्या द्रष्टुं राजगृहे मया राज्ञी सुखेन वा ॥३॥एवं पृष्टास्ततो ब्रूमः सहास्माभिश्च गम्यताम्॥वयं तु धरणीदास्यो गमिष्यामो नृपालयम् ॥४॥इत्युक्तास्माभिरायाता त्वत्समीपं वसुन्धरे॥भवत्या पृच्छयतामेषा किमित्यागमनं तव ॥५॥श्रीवराह उवाच ॥इति तासां वचः श्रुत्वा तामपृच्छद्वसुन्धरा ॥६॥॥ धरण्युवाच ॥कुतस्त्वमागता देवि किं वा कार्यं मया तव ॥ब्रूहि सत्यं करिष्यामि त्वदागमनकारणम् ॥७॥बकुलमालिकोवाच ॥वेङ्कटाद्रेः समायाता नाम्ना बकुलमालिका ॥८॥स्वामी नारायणोऽस्माकमास्ते श्रीवेंकटाचले ॥कदाचिद्धयमारुह्य हंसशुक्लं मनोजवम् ॥९॥मृगयार्थं गतो राज्ञो वेंकटाद्रेः समीपतः ॥वनानि विचरन्काले शोभने कुसुमाकरे ॥१०॥पश्यन्मृगान्गजान्सिंहान्गवयाञ्छरभान्रुरून् ॥शुकान्पारावतान्हंसान्पत्रिणोऽन्यान्वनान्तरे ॥११॥गजराजं तत्र कञ्चिद्यूथपं मदवर्षिणम् ॥करेणुसहितं तुंगमन्वगच्छत्सुरोत्तमः ॥१२॥अथ श्रीनिवासोक्त्या शंखनृपस्य स्वामितीर्थे तपःकरणम् ॥वनाद्वनान्तरं गत्वा नृपं शंखमुपागमत् ॥तपस्यन्तं बृहच्छैले प्रतिष्ठाप्य जनार्दनम् ॥१३॥श्रीभूमिसहितं नित्यमर्चयन्तं च भक्तितः ॥शंखनागबिलंनाम सरः पावनमुत्तमम् ॥१४॥तत्सरस्तीरमासाद्य तुरंगादवरुह्य च ॥राजवेषं समासाद्य तमपृच्छन्नृपोत्तमम् ॥१५॥क्रियते किं नृपश्रेष्ठ पादेऽस्मिच्छेषभूभृतः ॥१६॥॥ शंख उवाच ॥अहं हैहयदेशीयः पुत्रः श्वेतस्य भूभृतः ॥महाविष्णोः प्रीतयेऽत्र कृतवानखिलान्क्रतून् ॥१७॥अदर्शनान्महाविष्णोर्निर्विण्णोहं नृपात्मज ॥तदानीमवदद्दिव्या वाणी सर्वार्त्तिनाशिनी ॥१८॥राजन्नात्र भविष्यामि प्रत्यक्षस्ते वचः शृणु ॥गच्छ नारायणाद्रिं त्वं तपः कुर्विति मां स्फुटम् ॥१९॥ततो देशमहं त्यक्त्वा तपसाऽऽराधयाम्यहम्॥अत्र देवं नृपाचिंत्यं प्रतिष्ठाप्य श्रियः पतिम् ॥२०॥अगस्त्यानुग्रहान्नित्यमर्चयामि विधानतः ॥इति तस्य वचः श्रुत्वा सोत्प्रासं प्राह तं विभुः॥२१॥गच्छ नारायणाद्रिं त्वमस्य पादे किमास्यते ॥आरुह्यानेन मार्गेण पश्चिमे शिखरे स्थितम् ॥२२॥प्रणम्य विष्वक्सेनं त्वं बालं न्यग्रोधमूलतः ॥स्वामिपुष्करिणीं गत्वा स्नात्वा तीरेऽथ पश्चिमे ॥२३॥अश्वत्थं तत्र वल्मीकं द्रक्ष्यसे नृपनन्दन ॥तयोर्मध्यं समासाद्य तपः कुर्वित्यचोदयत् ॥२४॥कश्चिच्छ्वेतो वराहोऽस्मिन्वल्मीके चरति धुवम् ॥स तु पुण्यवतामेव दर्शनं याति भूपते ॥२५॥॥श्रीवराह उवाच ॥इत्यादिश्य हयारूढो जगाम मृगयां विभुः ॥चरन्वनाद्वनं सुभ्रूः समासाद्यारणीं नदीम् ॥२६॥अवरुह्य हयात्तत्र विचचार तटे शुभे ॥वनान्तादागतो वायुः पद्मकह्लारशीतलः ॥श्रमापनयनो मन्दं सिषेवे पुरुषोत्तमम् ॥२७॥तरवः पुष्पवर्षाणि विकिरन्तः सिषेविरे ॥एवं स विचरन्देवः पुष्पभारानतांस्तरून् ॥२८॥विचिन्वन्गजराजं तं पुष्पलावीर्ददर्श ह ॥कन्याः सुवेषा रुचिरा मेघेष्विव शतह्रदाः ॥२९॥तासां मध्यगतां तन्वीं ददर्शातिमनोहराम् ॥लक्ष्मीसमां हेमवर्णां तस्यां सक्तमना अभूत् ॥३०॥तां गृध्नुराह ताः कन्याः केयमित्येव पूरुषः ॥उक्तस्ताभिरियं कन्या वियद्राज्ञो महाबल ॥३१॥इदं श्रुत्वा वचस्तासां हयमारुह्य वेगवान् ॥आजगामाशु भगवान्स्वालयं रुचिरं गिरिम्॥ ३२॥तत्र स्वालयमासाद्य स्वामिपुष्करिणीतटे ॥मामाहूयावदद्देवो हला बकुलमालिके ॥३३॥वियद्राजपुरं गत्वा प्रविश्यान्तःपुरं सखि ॥तत्पत्नीं धरणीं प्राप्य पृष्ट्वा कुशलमेव च ॥३४॥याचस्व तनयां तस्या रुचिरां कमलालयाम् ॥राज्ञोभिमतमाज्ञाय शीघ्रमागच्छ भामिनि ॥३५॥इत्थं दैवेन चाज्ञप्ता देवि त्वद्गृहमागता ॥यथोचितं कुरुष्वेह राज्ञा मंत्रियुतेन च ॥३६॥अथ बकुलमालिकोक्त्या धरण्यादिकृतविवाहनिश्चयः ॥कन्यया च विचार्यैव प्रोच्यतामुत्तरं वचः ॥३७॥॥ श्रीवराह उवाच ॥अथ तस्या वचः श्रुत्वा प्रीता राज्ञी बभूव ह ॥आहूयाकाशराजं तमुपेत्य कमलालयाम् ॥३८॥मंत्रिमध्येऽवदद्देवी वचनं बकुलस्रजः ॥श्रुत्वा प्रीतोऽवदद्राजा मंत्रिणः सपुरोहितान् ॥३९॥॥ आकाशराज उवाच ॥कन्या त्वयोनिजा दिव्या सुभगा कमलालया ॥अर्थिता देवदेवेन वेंकटाद्रिनिवासिना ॥४०॥पूर्णो मनोरथो मेऽद्य ब्रूत किं संमतं तु वः ॥श्रुत्वा मंत्रिगणाः सर्वे राज्ञो वचनमुत्तमम् ॥४१॥प्रोचुः सुप्रीतमनसो वियद्राजं महीपतिम् ॥वयं कृतार्था राजेन्द्र कुलं सर्वोन्नतं भवेत् ॥४२॥भवत्कन्येयमतुला श्रिया सह रमिष्यति ॥दीयतां देवदेवाय शार्ङ्गिणे परमात्मने ॥४३॥अयं वसन्तः श्रीमांश्च शुभं शीघ्रं विधीयताम् ॥४४॥अथ बृहस्पत्युक्त्या विवाहलग्नस्थिरीकरणम् ॥आहूय धिषणं लग्नं विवाहार्थं विधीयताम् ॥४५॥तथास्त्वित्याह्वयामास सुरलोकाद्बृहस्पतिम् ॥पप्रच्छ कन्यावरयोर्विवाहार्थं नरेश्वरः ॥४६॥॥ राजोवाच ॥कन्याया जन्मनक्षत्रं मृगशीर्षमिति स्मृतम् ॥देवस्य श्रवणर्क्षन्तु तयोर्योगो विचार्यताम् ॥४७॥श्रुत्वाऽब्रवीत्स धिषणस्तयोरुत्तरफल्गुनी ॥संमता सुखवृद्ध्यर्थं प्रोच्यते दैवचिंतकैः ॥४८॥तयोरुत्तरफल्गुन्यां विवाहः क्रियतामिति ॥वैशाखमासे विधिवत्क्रियतामिति सोऽब्रवीत् ॥४९॥॥ श्रीवराह उवाच ॥राजा तु धिषणं तत्र संपूज्याथ विसृज्य च ॥देवस्य दूतिकामाह गच्छ देवालयं शुभे ॥५०॥वैशाखे देवदेवाय कल्याणं वद सुव्रते ॥वैवाहिकविधानं तु कृत्वा चागम्यतामिति ॥५१॥ततो देव्याः प्रियकरं शुकं दूतं तया सह ॥विसृज्य वायुं स्वसुतमिन्द्राद्यानयनेऽसृजत् ॥५२॥॥ अथ विश्वकर्मादिकृतपुरालंकारादिक्रमः ॥आहूय विश्वकर्माणं पुरालंकारकर्मणि ॥नियोजयामास सोऽपि निर्ममे निमिषांतरात् ॥५३॥इन्द्रोऽसृजत्पुष्पवृष्टिं ननृतुश्चाप्सरोगणाः ॥धनदो धनधान्याद्यैः पूरयामास वेश्म तत् ॥५४॥यमस्तु रोगरहितांश्चकार मनुजान्भुवि ॥वरुणो रत्नजालानि मौक्तिकादीन्यपूरयत् ॥५५॥एवं संपाद्य सर्वाणि ययुर्देवा वृषाचलम् ॥५६॥॥ अथ शुकेन सह बकुलायाः श्रीनिवाससमीपे गमनम् ॥॥ श्रीवराह उवाच ॥ततः सा हयमारुह्य शुकेन सहिता ययौ ॥श्रीवेंकटाद्रिमासाद्य देवालयसमीपतः ॥५७॥अवरुह्य तुरंगात्सा सशुकाऽभ्यन्तरं ययौ ॥दृष्ट्वा देवं रत्नपीठे श्रिया सह सुलोचनम् ॥५८॥प्रणम्य ह्यवदत्प्रीता कृत्यं तत्र कृतं विभो ॥मांगल्यवार्तां वक्तुं वै शुक एष समागतः ॥५९॥॥ अथ श्रीनिवासाय शुकावेदित पद्मावतीपरिणयवृत्तान्तः ॥वदेति देवेनाज्ञप्तः शुको नत्वा तमब्रवीत् ॥॥ शुक उवाच ॥त्वां प्रत्याह सुता भूमेर्मामंगीकुरु माधव ॥६०॥वदामि तव नामानि स्मरामि त्वद्वपुस्सदा ॥ध्रियन्ते तव चिह्नानि भुजाद्यंगै रमापते ॥६१॥त्वद्भक्तानर्चयामीह पंचसंस्कारसंयुतान् ॥त्वत्प्रीतये हि कर्माणि करोमि मधुसूदन ॥६२॥एवं सदैवाचरंत्याः पित्रोरनुमते मम ॥कुरु प्रसादं देवेश मामंगीकुरु माधव ॥६३॥इति विज्ञापयामास कमलस्था धरासुता ॥शुकस्य वचनं श्रुत्वा सुप्रियं त्वात्मनो हरिः ॥६४॥॥ अथ पद्मावत्याः शुकदत्तश्रीनिवासमालाधारणम्॥॥ श्रीभगवानुवाच ॥कर्तुं कल्याणमुद्वाहमागमिष्यामि चाऽमरैः ॥शुक गच्छ वदैवं तामित्थं देवोऽब्रवीदिति ॥६५॥शुकः श्रुत्वा देववाक्यमादाय वनमालिकाम्॥देवदत्तां ययौ शीघ्रं वियद्राजसुतां प्रति ॥६६॥तुलसीमालिकां दत्त्वा मृगनाभिसुगंधिनीम् ॥प्रणम्य देवीमवदच्छुको देववचः शुभम् ॥६७॥श्रुत्वा तन्मालिकां गृह्य भूमिजा शिरसा दधौ ॥चक्रेऽलंकारमुचितं देवागमनकांक्षिणी ॥६८॥वियद्राजोऽपि सानन्दमिन्दुमाहूय सादरम्॥अन्नं विधीयतां राजन्विविधं रससंयुतम् ॥६९॥विष्णोर्नैवेद्ययोग्यं यत्परमान्नं विधीयताम् ॥देवानां च ऋषीणां च नराणामपि संमतम् ॥७०॥चतुर्विधं सुगन्धाढ्यममृतांशैः सुधाकर ॥एवं कृत्वा संविधानं प्रतीक्ष्यागमनं विभोः ॥७१॥सभायां मंत्रिसहितः समास्त प्रीतमानसः ॥पुत्रीमलंकृतां कृत्वा धरणीसहितो नृपः ॥७२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये धरणीवराहसंवादे धरणीदेव्यै बकुलमालिकानिवेदित श्रीनिवासोदन्तकमलालयाकल्याणविध्यादिवृत्तांतवर्णनंनाम सप्तमोऽध्यायः ॥७॥ N/A References : N/A Last Updated : August 11, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP