संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|वेङ्कटाचलमाहात्म्यम्| अध्यायः १९ वेङ्कटाचलमाहात्म्यम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ ॥ अथ श्रीनिवासस्य लक्ष्म्यादिकृतपरिणयालंकारः ॥ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० विषयानुक्रमणिका वेङ्कटाचलमाहात्म्यम् - अध्यायः १९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अथ ब्रह्मादीनां नैरंतर्येण श्रीवेंकटाचले स्थितिवर्णनम् Translation - भाषांतर ॥ श्रीसूत उवाच ॥अथातः संप्रवक्ष्यामि वेंकटाचलवैभवम् ॥युष्माकं सावधानेन शृणुध्वं सुसमाहिताः ॥१॥लक्षकोटिसहस्राणि सरांसि सरितस्तथा ॥समुद्राश्च महापुण्या वनान्यप्याश्रमा अपि ॥२॥पुण्यानि क्षेत्रजातानि वेदारण्यादिकानि च ॥मुनयश्च वसिष्ठाद्या सिद्धचारणकिंनराः ॥३॥लक्ष्म्या सह धरण्या च भगवान्मधुसूदनः ॥सावित्र्या च सरस्वत्या सहैव चतुराननः ॥४॥पार्वत्या सह देवेशस्त्र्यम्बकस्त्रिपुरांतकः ॥हेरम्बषण्मुखाद्याश्च देवाः सेन्द्रपुरोगमाः ॥५॥आदित्यादि ग्रहाश्चैव तथाष्टवसवो द्विजाः ॥पितरो लोकपालाश्च तथान्ये देवतागणाः ॥६॥महापातकसंघानां नाशने लोकपावने ॥दिवानिशं वसन्त्यंतर्वेंकटाचलमूर्धनि ॥७॥तस्य दर्शनमात्रेण बुद्धिसौख्यं नृणां भवेत् ॥तन्मूर्धनि कृतावासा सिद्धचारणयोषितः ॥८॥पूजयंति सदाकालं वेंकटेशं कृपानिधिम् ॥कोटयो ब्रह्महत्यानामगम्यागमकोटयः ॥९॥अङ्गलग्ना विनश्यंति वेंकटाचलमारुतैः ॥१०॥॥ अथ श्रीवेंकटाचलारोहणसमयानुसंध्यानक्रमः ॥वेंकटाद्रिं गिरिं तं तु प्रार्थयेत्पुण्यवर्धनम् ॥स्वर्णाचल महापुण्य सर्वदेवनिषेवित ॥११॥ब्रह्मादयोऽपि यं देवाः सेवन्ते श्रद्धया सह ॥तं भवन्तमहं पद्भ्यामाक्रमेयं नगोत्तम ॥१२॥क्षमस्व तदघं मेऽद्य दयया पापचेतसः ॥त्वन्मूर्धनि कृतावासं माधवं दर्शयस्व मे ॥१३॥प्रार्थयित्वा नरस्त्वेवं वेंकटाद्रिं नगोत्तमम् ॥ततो मृदुपदं गच्छेत्पावनं वेंकटाचलम् ॥१४॥वेंकटाद्रौ महापुण्ये सर्वपातकनाशने ॥स्वामिपुष्करिणीतीर्थे स्नात्वा नियमपूर्वकम् ॥१५॥पिण्डदानं ततः कुर्यादपि सर्षपमात्रकम् ॥शमीदलसमानान्वा दद्यात्पिंडान्पितॄन्प्रति ॥१६॥स्वर्गस्था मोक्षमायांति स्वर्गं नरकवासिनः ॥१७॥॥ अथ पापविनाशनाख्यतीर्थमाहात्म्यम् ॥ततस्तस्योपरि महत्सर्वलोकेषु विश्रुतम् ॥सर्वतीर्थोत्तमं पुण्यं नाम्ना पापविनाशनम् ॥१८॥अस्ति पुण्यतमे विप्राः पवित्रे वेंकटाचले ॥यस्य संस्मरणादेव गर्भवासो न विद्यते ॥१९॥तत्प्राप्य तु नरः स्नायात्स्वामितीर्थस्य चोत्तरे ॥तत्र स्नानान्नरा यांति वैकुण्ठं नात्र संशयः ॥२०॥॥ ऋषय ऊचुः ॥सूत पापविनाशाख्यतीर्थस्य ब्रूहि वैभवम् ॥व्यासेन बोधितस्त्वं हि वेत्सि सर्वं महामुने ॥२१॥॥ श्रीसूत उवाच ॥ब्रह्माश्रमपदे वृत्तां पार्श्वे हिमवतः शुभे ॥वक्ष्यामि ब्राह्मणश्रेष्ठा युष्माकं तु कथां शुभाम् ॥२२॥तदाश्रमपदं पुण्यं ब्रह्माश्रमपदं शुभम्॥नानावृक्षसमाकीर्णं पार्श्वे हिमवतः शुभे ॥२३॥बहुगुल्मलताकीर्णं मृगद्विपनिषेवितम् ॥सिद्धचारणसंघुष्टं रम्यं पुष्पितकाननम् ॥२४॥यतिभिर्बहुभिः कीर्णं तापसैरुपशोभितम्॥ब्राह्मणैश्च महाभागैः सूर्यज्वलनसन्निभैः ॥२५॥नियमव्रतसम्पन्नैः समाकीर्णे तपस्विभिः ॥दीक्षितैर्यागशीलैश्च यताहारैः कृतात्मभिः ॥२६॥वेदाध्ययनसंपन्नैर्वैदिकैः परिवेष्टितम् ॥वर्णिभिश्च गृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः ॥२७॥स्वाश्रमाचारनिरतैः स्ववर्णोक्तविधायिभिः ॥वालखिल्यैश्च ऋषिभिः समंतात्परिवेष्टितम् ॥२८॥॥ अथ दृढमत्याख्यशूद्रवृत्तान्तः ॥तत्राश्रमे पुरा कश्चिच्छूद्रो दृढमतिर्द्विजाः ॥साहसी ब्राह्मणाभ्याशमाजगाम मुदान्वितः ॥२९॥आगतो ह्याश्रमपदं पूजितश्च तपस्विभिः ॥नाम्ना दृढमतिः शूद्रः साष्टांगं प्रणनाम वै ॥३०॥तान्स दृष्ट्वा मुनिगणान्देवकल्पान्महौजसः ॥कुर्वतो विविधान्यज्ञान्संप्राशहृष्यत शूद्रकः ॥३१॥अथास्य बुद्धिरभवत्तपः कर्तुमनुत्तमम् ॥ततोऽब्रवीत्कुलपतिं मुनिमागत्य तापसम् ॥३२॥दृढमतिरुवाच॥तपोधन नमस्तेऽस्तु रक्ष मां करुणानिधे ॥तव प्रसादादिच्छामि यागं कर्तुं प्रसीद मे ॥३३॥॥ अथ दृढमतिं प्रति कुलपत्याख्यमुन्युपदिष्टशूद्रधर्माः ॥एवमुक्तस्तु शूद्रेण तमाह ब्राह्मणस्तदा ॥३४॥॥ कुलपतिरुवाच ॥यागे दीक्षयितुं शक्यो न शूद्रो हीनजन्मभाक् ॥भूयते यदि ते बुद्धिः शुश्रूषा निरतो भव ॥३५॥उपदेशो न कर्तव्यो जातिहीनस्य कर्हिचित् ॥उपदेशे महान्दोष उपाध्यायस्यविद्यते ॥३६॥नाध्यापयेद्बुधः शूद्रं तथा नैव च याजयेत् ॥न पाठयेत्तथा शूद्रं शास्त्रं व्याकरणादिकम् ॥३७॥काव्यं वा नाटकं वापि तथालंकारमेव वा ॥पुराणमितिहासं च शूद्रं नैव तु पाठयेत् ॥३८॥यदि चोपदिशेद्विप्रः शूद्रस्यैतानि कर्हिचित् ॥त्यजेयुर्ब्राह्मणा विप्रं ते ग्रामाद्ब्रह्मसंकुलात् ॥३९॥शूद्राय चोपदेष्टारं द्विजं चण्डालवत्त्यजेत्॥शूद्रं चाक्षरसंयुक्तं दूरतः परिवर्जयेत् ॥४०॥तच्छुश्रूषस्व भद्रं ते ब्राह्मणाच्छद्धयासह ॥शूद्रस्य द्विजशुश्रूषा मन्वादिभिरुदीरिता ॥४१॥न हि नैसर्गिकं कर्म परित्यक्तुं त्वमर्हसि ॥एवमुक्तः स मुनिना स शूद्रोऽचिन्तयत्तदा ॥४२॥किं कर्तव्यं मया त्वद्य व्रते श्रद्धा हि मे परा ॥यथा स्यान्ममसुज्ञान यतिष्येऽहं तथाद्य वै ॥४३॥इति निश्चित्य मनसा शूद्रो दृढमतिस्तदा ॥गत्वाश्रमपदादूरं कृतवानुटजशुभम् ॥४४॥तत्र वै देवतागारं पुण्यान्यायतनानि च ॥पुष्पारामादिकं चापि तटाकखननादिकम् ॥४५॥श्रद्धया कारयामास तपः सिद्ध्यर्थमात्मन ॥अभिषेकांश्च नियमानुपवासादिकानपि ॥४६॥बलिं कृत्वा च हुत्वा च दैवतान्यभ्यपूजयत् ॥संकल्पनियमोपेतः फलाहारो जितेंद्रियः ॥४७॥नित्यं कन्दैश्च मूलैश्च पुष्पैरपि तथा फलैः ॥अतिथीन्पूजयामास यथावत्समुपागतान् ॥४८॥एवं हि सुमहान्कालो व्यतिचक्राम तस्य वै ॥४९॥॥ अथ दृढमतये सुमत्याख्यविप्रप्रकाशितकर्मानुष्ठानक्रमः ॥अथाश्रममगात्तस्य सुमतिर्नाम नामतः ॥द्विजो गर्गकुलोद्भूतः सत्यवादी जितेंद्रियः ॥५०॥स्वागतैर्मुनिमाराध्य तोषयित्वा फलादिकैः ॥कथयन्वै कथाः पुण्याः कुशलं पर्यपृच्छत ॥५१॥इत्थं विप्रः स पाद्याद्यैरुपचारैस्तु पूजितः ॥आशीर्भिरभिनन्द्यैनं प्रतिगृह्य च सत्क्रियाम् ॥५२॥तमापृच्छत्प्रहृष्टात्मा स्वाश्रमं पुनराययौ ॥एवं दिनेदिने विप्रः शूद्रेऽस्मिन्पक्षपातवान् ॥५३॥आगच्छदाश्रमं तस्य द्रष्टुं तं शूद्रयोनिजम् ॥बहुकालं द्विजस्याभूत्संसर्गः शूद्रयोनिना ॥५४॥स्नेहस्य वशमापन्नः शूद्रोक्तं नातिचक्रमे ॥अथागतं द्विजं शूद्रः प्राह स्नेहवशीकृतम् ॥५५॥हव्यकव्यविधानं मे ब्रूहि त्वं तु गुरुर्मतः ॥एवमुक्तः स शूद्रेण सर्वमेतदुपादिशत् ॥५६॥कारयामास शूद्रस्य पितृकार्यादिकं तदा ॥पितृकार्ये कृते तेन विसृष्टः स द्विजोत्तमः ॥५७॥॥ अथ शूद्रस्य वैदिककर्मोपदेशेन सुमत्यनुभूतदुर्गतिः ॥अथ दीर्घेण कालेन पोषितः शूद्रयोनिना ॥त्यक्तो विप्रगणैः सोऽयं पञ्चत्वमगमद्द्विजः ॥५८॥वैवस्वतभटैर्नीत्वा पातितो नरकेष्वपि ॥कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥५९॥भुक्त्वा क्रमेण नरकांस्तदन्ते स्थावरोऽभवत् ॥गर्दभस्तु ततो जज्ञे विड्वराहस्ततः परम् ॥६०॥जज्ञेऽथ सारमेयोऽसौ पश्चाद्वायसतां गतः ॥अथ चण्डालतां प्राप्य शूद्रयोनिमगात्ततः ॥६१॥गतवान्वैश्यतां पश्चात्क्षत्रियस्तदनन्तरम् ॥प्रबलैर्बाध्यमानोऽसौ ब्राह्मणो वै तदाभवत् ॥६२॥उपनीतः स पित्रा तु वर्षे गर्भाष्टमे द्विजः ॥वर्तमानः पितुर्गेहे स्वाचाराभ्यासतत्परः ॥६३॥गच्छन्कदाचिद्गहने गृहीतो ब्रह्मरक्षसा ॥रुदन्भ्रमन्स्खलन्मूढः प्रलपन्प्रहसन्नसौ ॥६४॥शश्वद्धाहेति च वदन्वैदिकं कर्म सोऽत्यजत् ॥दृष्ट्वा सुतं तथाभूतं पिता दुःखेन पीडितः ॥६५॥सुतमादाय च स्नेहादगस्त्यं शरणं ययौ ॥सुवर्णमुखरीतीरे तपस्यन्तं शिवाग्रतः ॥६६॥भक्त्या मुनिं प्रणम्यासौ पिता तस्य सुतस्य वै ॥तस्मै निवेदयामास स्वपुत्रस्य विचेष्टितम् ॥६७॥॥ अथागस्त्योक्त्या दुर्गत्यपनोदनार्थं सुमतेर्वेंकटाद्रिगमनम् ॥अब्रवीच्च तदा विप्रः कुम्भजं मुनिपुंगवम् ॥एष मे तनयो ब्रह्मन्गृहीतो ब्रह्मरक्षसा ॥६८॥सुखं न लभते ब्रह्मन्रक्ष तं करुणादृशा ॥नास्ति मे तनयोऽप्यन्यः पितॄणामृणमुक्तये ॥६९॥तस्य पीडाविनाशार्थमुपायं ब्रूहि कुम्भज ॥त्वत्समस्त्रिषु लोकेषु तपःशीलो न विद्यते ॥७०॥त्वां विनास्य परित्राता न मे पुत्रस्य विद्यते ॥पुत्रे दयां कुरु गुरो दयाशीला हि साधवः ॥७१॥॥ श्रीसूत उवाच ॥एवमुक्तस्तदा तेन कुम्भजो ध्यानमास्थितः ॥ध्यात्वा तु सुचिरं कालमब्रवीद्ब्राह्मणं ततः ॥७२॥॥ अगस्त्य उवाच ॥पूर्वजन्मनि ते पुत्रो ब्राह्मणोऽयं महामते ॥सुमतिर्नाम विप्रोऽयं मतिं शूद्राय वै ददौ ॥७३॥कर्माणि वैदिकान्येष सर्वाण्युपदिदेश वै ॥अतोऽयं नरकान्भुक्त्वा कल्पकोटिसहस्रकम् ॥७४॥जातो भुवि तदन्तेषु स्थावरादिषु योनिषु ॥इदानीं ब्राह्मणो जातः कर्मशेषेण ते सुतः ॥७५॥यमेन प्रेषितेनात्र गृहीतो ब्रह्मरक्षसा ॥क्रूरेण पातकेनाद्य पूर्वजन्मकृतेन वै ॥७६॥उपायं ते प्रवक्ष्यामि ब्रह्मरक्षोविनाशने ॥शृणुष्व श्रद्धया युक्तः समाधाय च मानसम्॥ ७७॥सुवर्णमुखरीतीरे ऋषिसंघनिषेविते ॥वर्तते दैवतैः सेव्यः पावनो वेंकटाचलः ॥७८॥तस्योपरि महातीर्थं नाम्ना पापविनाशनम्॥अस्ति पुण्यं प्रसिद्धं च महापातकनाशनम् ॥७९॥भूतप्रेतपिशाचानां वेतालब्रह्मरक्षसाम् ॥महतां चैव रोगाणां तीर्थं तन्नाशकं स्मृतम् ॥८०॥सुतमादाय गच्छ त्वं तत्तीर्थं गिरिमध्यगम् ॥प्रयतः स्नापय सुतं तीर्थे पापविनाशने ॥८१॥स्नानेन त्रिदिनं तत्र बह्मरक्षो विनश्यति ॥नैवोपायान्तरं तस्य विनाशे विद्यते भुवि ॥८२॥तस्माच्छीघ्रं प्रयाहि त्वं वेंकटाह्वयपर्वतम् ॥तत्र पापविनाशाख्यतीर्थे स्नापय ते सुतम् ॥८३॥मा विलम्बं कुरुष्वात्र त्वरया याहि वै द्विज ॥इत्युक्तः स द्विजोऽगस्त्यं प्रणम्य भुवि दण्डवत् ॥८४॥अनुज्ञातश्च तेनासौ प्रययौ वेंकटाचलम् ॥सुतेन साकं विप्रोऽसौ गत्वा पापविनाशनम् ॥८५॥॥ अथ सुमतेः पापनाशनस्नानेन दुर्गत्यपनोदनम् ॥संकल्पपूर्वं संस्नाप्य दिनत्रयमसौ सुतम् ॥सस्नौ स्वयं च विप्रेन्द्रः पिता पापविनाशने ॥८६॥समागतः पपौ तोयं कृत्वा चाप्याह्निकक्रमम् ॥अथ तस्य सुतस्तत्र विमुक्तो ब्रह्मरक्षसा ॥८७॥समजायत नीरोगः स्वस्थः सुन्दररूपधृक् ॥सर्वसंपत्समृद्धोऽसौ भुक्त्वा भोगाननेकशः ॥८८॥देहान्ते प्रययौ मुक्तिं स्नानात्पापविनाशने ॥पितापि तत्र स्नानेन देहान्ते मुक्तिमाप्तवान् ॥८९॥॥ अथ वैदिककर्मानुष्ठातुर्दृढमतेर्दुर्गतिप्राप्त्यपनोदनम् ॥तेनोपदिष्टोऽयं शूद्रः स भुक्त्वा नरकान्क्रमात् ॥अनेकासु जनित्वा च कुत्सितास्वपि योनिषु ॥९०॥गृध्रजन्माभवत्पश्चाद्वेंकटाचलभूधरे ॥स कदाचिज्जलं पातुं तीर्थे पापविनाशने ॥९१॥समागतः पपौ तोयं सिषिचे चात्मनस्तनुम् ॥तदैव दिव्यदेहः सन्सर्वाभरणभूषितः ॥९२॥दिव्यं विमानमारुह्य प्रययावमरालयम्॥ ९३॥॥ श्रीसूत उवाच ॥एवम्प्रभावमेतद्वै तीर्थं पापविनाशनम् ॥पापानां नाशनाद्विप्राः पापनाशाभिधं हि तत् ॥९४॥इत्थं रहस्यं कथितं मुनीन्द्रास्तद्वैभवं पापविनाशनस्य ॥यत्राभिषेकात्सहसा विमुक्तौ द्विजश्च शूद्रश्च विनिन्द्यकृत्यौ ॥९५॥॥ इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्यं पापविनाशनतीर्थमहिमानुवर्णनंनामैकोनविंशतितमोऽध्यायः ॥१९॥ N/A References : N/A Last Updated : August 11, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP