संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|वेङ्कटाचलमाहात्म्यम्| अध्यायः २४ वेङ्कटाचलमाहात्म्यम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ ॥ अथ श्रीनिवासस्य लक्ष्म्यादिकृतपरिणयालंकारः ॥ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० विषयानुक्रमणिका वेङ्कटाचलमाहात्म्यम् - अध्यायः २४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अथ सुन्दराख्यगन्धर्वस्य राक्षसत्वप्राप्तिनिवृत्त्योरुपोद्घातः Translation - भाषांतर ॥ ऋषय ऊचुः ॥भगवन्राक्षसः कोऽसौ सूत पौराणिकोत्तम ॥विष्णुभक्तं महात्मानं यो ब्राह्मणमबाधत ॥१॥॥ श्रीसूत उवाच ॥वक्ष्यामि राक्षसं क्रूरं तं विप्राः शृणुतादरात् ॥यथा च राक्षसो जातो मुनीनां शापवैभवात् ॥२॥पुरा वैकुण्ठसदृशे श्रीरङ्गे विष्णुमंदिरे ॥वसिष्ठात्रिमुखाः सर्वे विष्णुभक्ता महौजसः ॥३॥श्रीरङ्गनाथं देवेशं भक्तानामभयप्रदम् ॥उपासांचक्रिरे मुक्त्यै श्रीरङ्गपुरवासिनः ॥४॥कदाचित्तत्र गन्धर्वो वीरबाहुसुतो बली ॥सुन्दरो नाम विप्रेंद्रा विटगोष्ठीपरायणः ॥५॥ललनाशतसंयुक्तो विवस्त्रः सलिलाशये ॥चिक्रीड स विवस्त्राभिः साकं युवतिभिर्मुदा ॥६॥कवेरजायास्तीर्थे तु वसिष्ठो मुनिभिः सह ॥माध्याह्निकं कर्तुमना ययौ श्रीरंगमंदिरात् ॥७॥तानृषीनवलोक्याथ रामास्ता भयकातराः ॥वासांस्याच्छादयामासुः सुन्दरो न तु साहसी ॥८॥ततो वसिष्ठः कुपितः शशापैनं गतत्रपम् ॥९॥॥ वसिष्ठ उवाच ॥यस्मात्सुन्दर गन्धर्व दृष्ट्वाऽस्माँल्लज्जया त्वया ॥वासो नाच्छादितं शीघ्रं याहि राक्षसतां ततः ॥१०॥एवमुक्ते वसिष्ठेन रामाः प्राञ्जलयस्तदा ॥प्रणिपत्य वसिष्ठं तं भक्तिनम्रेण चेतसा ॥११॥मुनिमण्डलमध्ये तु वसिष्ठमिदमब्रुवन् ॥१२॥॥ रामा ऊचुः ॥भगवन्सर्वधर्मज्ञ चतुरानननन्दन ॥दयासिन्धोऽवलोक्यास्मान्न कोपं कर्तुमर्हसि ॥१३॥पतिरेव हि नारीणां भूषणं परमुच्यते ॥पतिहीना तु या नारी शतपुत्रापि सा मुने ॥१४॥विधवेत्युच्यते लोके तासां जन्म निरर्थकम् ॥तत्प्रसादं कुरु मुने पत्यावस्माकमादरात् ॥१५॥एकोऽपराधः क्षंतव्यो मुनिभिस्तत्त्वदर्शिभिः ॥क्षमां कुरु दयासिन्धो युष्मच्छिष्येऽत्र सुन्दरे ॥१६॥॥ श्रीसूत उवाच ॥वसिष्ठः प्रार्थितस्त्वेवं सुन्दरस्यांगनाजनैः ॥प्रोवाच वचनं भूयः प्रसन्नः स द्विजोत्तमः ॥१७॥॥ अथ सुन्दराख्यस्य वसिष्ठोक्तराक्षत्वनिवृत्त्युपायः ॥॥ वसिष्ठ उवाच ॥न मे स्याद्वचनं मिथ्या कदाचिदपि सुभ्रुवः ॥उपायं वः प्रवक्ष्यामि शृणुध्वं श्रद्धया सह ॥१८॥षोडशाब्दावधिः शापो भर्तुर्वै भविता ध्रुवम् ॥षोडशाब्दावधौ चैव सुन्दरो राक्षसाकृतिः ॥१९॥यदृच्छया वेंकटाद्रिं सर्वपापहरं शुभम् ॥गत्वासौ चक्रतीर्थं तद्गमिष्यति सुरांगनाः ॥२०॥आस्ते तत्र महायोगी पद्मनाभो मुनीश्वरः ॥भक्षार्थं तं मुनिं सोऽयं राक्षसोऽभिगमिष्यति ॥२१॥ततो ब्राह्मणरक्षार्थ प्रेरितं चक्रमुत्तमम् ॥विष्णुनास्य शिरः कायाद्धरिष्यति न संशयः ॥२२॥ततः स्वं रूपमासाद्य शापान्मुक्तः स सुन्दरः ॥पतिर्वस्त्रिदिवं भूयो गन्ता नास्त्यत्र संशयः ॥२३॥ततस्त्रिदिवमासाद्य सुन्दरोऽयं पतिर्हि वः ॥रमयिष्यति सुन्दर्यो युष्मान्सुन्दरवेषभृत् ॥२४॥॥ श्रीसूत उवाच ॥इत्युक्त्वा तु वसिष्ठस्ताः सुन्दरस्य वरांगनाः ॥स्वाश्रमं प्रययौ तूर्णं श्रीरंगेश्वरभक्तिमान् ॥२५॥अथ रामास्तमालिंग्य सुन्दरं पतिमात्मनः ॥रुरुदुः शोकसन्तप्ता दुःखसागरमध्यगाः ॥२६॥दृश्यमानासु तास्वेवं सुन्दरो राक्षसोऽभवत् ॥महादंष्ट्रो महाकायो रक्तश्मश्रुशिरोरुहः ॥२७॥तं दृष्ट्वा भयसंविग्ना जग्मू रामास्त्रिविष्टपम् ॥ततो राक्षसवेषोऽयं सुंदरी भैरवाकृतिः ॥२८॥भक्षयन्प्राणिनः सर्वान्देशाद्देशं वनाद्वनम्॥भ्रमन्ननिलवेगोऽयं वेंकटाद्रिं नगोत्तमम् ॥२९॥प्रविश्यासौ महापापी चक्रतीर्थं ततो ययौ ॥एवं षोडशवर्षाणि भ्रमतोऽस्य ययुस्तदा ॥३०॥ततस्तु षोडशाब्दान्ते राक्षसोऽयं मुनीश्वराः ॥भक्षितुं पद्मनाभं तं चक्रतीर्थनिवासिनम् ॥३१॥उपाद्रवद्वायुवेगः सचास्तौषीज्जनार्दनम् ॥योगिना च स्तुतो विष्णुस्तदा चक्रमचोदयत् ॥३२॥रक्षितुं पद्मनाभं तं राक्षसेन प्रपीडितम् ॥अथागत्य हरेश्चक्रं राक्षसस्य शिरोऽहरत् ॥३३॥॥ अथ सुन्दराख्यस्य राक्षसत्वविमुक्तिपूर्वकं स्वस्वरूपप्राप्तिः ॥ततोऽयं राक्षसं देहं त्यक्त्वा दिव्यकलेवरः ॥विमानवरमारुह्य सुन्दरः पुष्पवर्षितः ॥३४॥प्राञ्जलिः प्रणतो भूत्वा ववंदे तत्सुदर्शनम् ॥तुष्टाव श्रुतिरम्याभिर्वाग्भिरग्र्याभिरादरात् ॥३५॥॥ सुन्दर उवाच ॥सुदर्शन नमस्तेऽस्तु विष्णुहस्तैकभूषण ॥नमस्तेऽसुरसंहर्त्रे सहस्रादित्यतेजसे ॥३६॥कृपावेशेन भवतस्त्यक्वाहं राक्षसीं तनुम् ॥स्वं रूपमभजं विष्णोश्चक्रायुध नमोऽस्तु ते ॥३७॥अनुजानीहि मां गंतुं त्रिदिवं विष्णुवल्लभ ॥भार्या मे परिशोचन्ति विरहातुरचेतसः ॥३८॥त्वन्मनस्को भविष्यामि यावज्जीवं यथा ह्यहम् ॥तथा रूपं कुरुष्व त्वं मयि चक्र नमोऽस्तु ते ॥३९॥एवं स्तुतं विष्णुचक्रं सुन्दरेण सभक्तिकम् ॥अनुजग्राह सहसा तथास्त्विति मुनीश्वराः ॥४०॥चक्रायुधाभ्यनुज्ञातः सुन्दरो ब्राह्मणोत्तमम् ॥प्रणम्य तेनानुज्ञातो गन्धर्वस्त्रिदिवं ययौ ॥४१॥सुन्दरे तु गते स्वर्गं पद्मनाभो मुनीश्वरः ॥तच्चक्रं प्रार्थयामास विष्ण्वायुध नमोऽस्तु ते ॥४२॥चक्रायुध नमामि त्वां महासुरविमर्दन ॥सन्निधानं कुरुष्व त्वं चक्रतीर्थेऽमले शुभे ॥४३॥त्वत्सन्निधानात्सर्वेषां स्नातानां पापिनामिह ॥पापनाशं कुरुष्व त्वं मोक्षं च कुरु शाश्वतम् ॥४४॥चक्रतीर्थमिति ख्यातिं लोकेऽस्य परिकल्पय ॥त्वत्सन्निधानादत्रत्यमुनीनां भयनाशनम् ॥४५॥इतः परं भवत्वार्य चक्रायुध नमोऽस्तु ते ॥भूतप्रेतपिशाचेभ्यो भयं मा भवतु प्रभो ॥४६॥इति सम्प्रार्थितं चक्रं पद्मनाभेन योगिना ॥तथैवास्त्विति सम्भाष्य तस्मिंस्तीर्थे तिरोहितम् ॥४७॥॥ श्रीसूत उवाच ॥एवं वः कथितं विप्रा राक्षसस्योद्भवे मया ॥माहात्म्यं चक्रतीर्थस्य कथितं च मलापहम् ॥४८॥यच्छुत्वा सर्वपापेभ्यो मुच्यते मानवो भुवि ॥४९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये चक्रतीर्थमहिमानुवर्णनंनाम चतुर्विंशोऽध्यायः ॥२४॥ N/A References : N/A Last Updated : August 15, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP