संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|वेङ्कटाचलमाहात्म्यम्| अध्यायः ९ वेङ्कटाचलमाहात्म्यम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ ॥ अथ श्रीनिवासस्य लक्ष्म्यादिकृतपरिणयालंकारः ॥ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० विषयानुक्रमणिका वेङ्कटाचलमाहात्म्यम् - अध्यायः ९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण ॥ अथ वसुनामकनिषादवृत्तांतः ॥ Translation - भाषांतर ॥ धरण्युवाच ॥कलौ युगे भूमिधर केन त्वं द्रक्ष्यसे प्रिय ॥विमानं केन ते देव कार्यतेऽस्मिन्महीधरे ॥१॥श्रीनिवासोऽपि केनैव द्रक्ष्यते सुभगाकृतिः ॥एतद्ब्रूहि मम प्रीत्या श्रोतुं कौतूहलं विभो ॥२॥॥ श्रीवराह उवाच ॥वक्ष्यामि शृणु हे देवि भविष्यद्यद्वदामि ते ॥अस्मिन्महीधरे पुण्ये निषादो वसुनामकः ॥३॥श्यामाकवनपालोऽभूद्भक्तिमान्पुरुषोत्तमे ॥श्यामाकतंडुलान्पक्त्वा मधुना परिषिच्य च ॥४॥निवेद्य देवदेवाय श्रीभूमि सहिताय च ॥एवं भक्तिमतस्तस्य भार्या चित्रवती शुभा ॥५॥असूत तनयं बाला वीरनामानमुत्तमम् ॥वसुः पुत्रेण सहितो भार्यया पतिभक्तया ॥६॥कस्मिंश्चिद्दिवसे पुत्रं श्यामाकं पालयेति च ॥विसृज्य पत्न्या सहितो मध्वन्वेषणतत्परः ॥७॥गतो वनान्तरं शीघ्रं मधुच्छत्रदिदृक्षया ॥बालः श्यामाकपक्वानि गृहीत्वाग्नौ निधाय च ॥८॥पिष्ट्वा निवेदयामास वृक्षमूले श्रियः पतेः ॥नैवेद्यं भक्षयित्वैव वीरस्त्वास सुखेन वै॥ ९॥तदन्तरे वसुश्चापि मध्वादाय समागतः ॥श्यामाकान्भक्षितान्दृष्ट्वा संतर्ज्य सुतमात्मनः ॥१०॥खड्गमादाय तं हन्तुं त्वरया हस्तमुद्दधौ ॥११॥॥ अथ सुतहननोद्युक्तं वसुं प्रति भगवदुक्तिः ॥तद्वृक्षस्थस्तदा विष्णुः खड्गं जग्राह पाणिना ॥खड्गो गृहीतः केनेति पश्यन्वृक्षं ददर्श सः ॥१२॥शङ्खचक्रगदापाणिं वृक्षारूढार्धविग्रहम् ॥मुक्त्वा वसुश्च तं खड्गं प्रणम्योवाच केशवम् ॥१३॥किमिदं देवदेवेश चेष्टितं क्रियते त्वया ॥१४॥॥ श्रीभगवानुवाच ॥वसो शृणु वचो मे त्वं पुत्रस्ते भक्तिमान्मयि ॥त्वत्तोऽपि मे प्रियतमस्तस्मात्प्रत्यक्षमागतः ॥१५॥अस्य सर्वत्र तिष्ठामि तव स्वामिसरस्तटे ॥इति देववचः श्रुत्वा प्रीतिमानभवद्वसुः ॥१६॥एतस्मिन्नेव काले तु पांड्यदेशात्समागतः ॥बाल्यात्प्रभृति शूद्रोऽपि विष्णुभक्तिसमन्वितः ॥१७॥॥ अथ रंगदासस्य श्रीनिवाससेवार्थं श्रीशेषाचलागमनम् ॥नारायणपुरीं प्राप्य श्रीवराहं प्रणम्य च ॥तत्र श्रुत्वा श्रीनिवासं वेंकटाद्रिनिवासिनम् ॥१८॥स्वयंभुवं देवदेवसेवितं प्रययौ ततः ॥सुवर्णमुखरीं प्राप्य स्नात्वा चोत्तीर्य तत्तटे ॥१९॥कमलाख्ये सरसि च स्नात्वा पुण्यप्रदायिनि ॥तत्तीरवासिनं देवं कृष्णं रामेण संवृतम् ॥२०॥नमस्कृत्य ततः प्रायाद्वनं गजघटायुतम् ॥शनैः संप्राप्य शेषाद्रिं निर्झरं संददर्श ह ॥२१॥तत्समीपं समासाद्य कपिलापूजितं शिवम् ॥तत्पुरश्चक्रतीर्थं तदगाधं पापनाशनम् ॥२२॥तत्र स्नात्वा ततोऽगच्छद्वेंकटाद्रिं शनैःशनैः ॥आराद्धुं गच्छता मार्गे युक्तो वैखानसेन च ॥२३॥रंगदासस्त्वारुरोह बालो द्वादशवार्षिकः ॥स्वामिपुष्करिणीं प्राय स्नात्वा भक्तिसमन्वितः ॥२४॥वैखानसेन मुनिना गोपीनाथेन पूजितम् ॥वनमध्ये तरोर्मूले स्वामिपुष्करिणीतटे ॥२५॥तिष्ठन्तं पुण्डरीकाक्षं श्रीभूमिसहितं हरिम् ॥आकाशस्थं संददर्श पीतनीलाकृतिं शुभम् ॥२६॥पार्श्वस्थशंखचक्राभ्यां गदासिभ्यां निषेवितम्॥पक्षौ विस्तार्य चाकाशे देवमूर्ध्नि वितानवत् ॥२७॥स्थितं च गरुडेशानं पश्चाच्छार्ङ्गं शरं तथा ॥२८॥अथ श्रीनिवासार्थं रंगदासकृतदिव्योद्यानमण्डपादिनिर्माणानि ॥एवं दृष्ट्वा श्रीनिवासं विस्मितो रंगदासकः ॥अस्य देवस्य चारामं करिष्यामीत्यचिन्तयत् ॥२९॥निश्चित्य मनसा सर्वं तरुमूलेऽवसत्सुधीः ॥कृत्वा वैखानसाद्विष्णोर्नैवेद्यं च दिनेदिने ॥३०॥शनैश्छित्त्वा वनं घोरं वृक्षांश्चिच्छेद पार्श्वगान् ॥आस्थानचिञ्चां देवस्य रमायाश्चम्पकं तरुम् ॥३१॥देवाज्ञप्तो वर्जयित्वा तावुभौ देवसेवितौ ॥देवस्यपरितो भूमौ शिलाकुड्यं तदाकरोत् ॥३२॥तत्कुड्यस्यैव परितः पुष्पारामांश्चकार ह ॥मल्लिकाकरवीराब्जकुन्दमंदारमालतीः ॥३३॥तुलसीचम्पकानां तु वनान्येव चकार ह ॥खनित्वा तत्र कूपं तु वर्धयंस्तज्जलैर्वनम् ॥३४॥आरामपुष्पाण्यादाय स्वयं दामान्यथाकरोत् ॥विचित्राणि तदा बद्ध्वा पूजकस्य करे ददौ ॥३५॥आदाय पूजकस्तानि स्कन्धे मूर्ध्नि बबन्ध च ॥श्रीनिवासस्य देवस्य श्रीभूमिसहितस्य च ॥३६॥एवं देवस्य कैंकर्यं कुर्वंस्तस्थावुदारधीः ॥तस्यैवं वर्तमानस्य समास्त्वा सप्ततेर्गताः ॥३७॥कुर्वाणे पुष्पावचयं रंगदासे महात्मनि ॥३८॥॥ अथ रंगदासस्य गन्धर्वक्रीडादर्शनेन भगवत्कैंकर्यविस्मृतिः ॥आरामे सरसि स्नातुं गन्धर्वः कश्चिदाययौ ॥गन्धर्वराजकन्याभिस्तरुणीभिः समन्वितः ॥३९॥जलक्रीडां करोति स्म दिवि स्थाप्य विमानकम्॥सुरूपाभिश्च सहितं क्रीडन्तं कमलाकरे ॥४०॥पश्यञ्छ्रीरंगदासोऽयं व्यस्मरन्माल्यसञ्चयम् ॥जितेन्द्रियोऽपि तत्कक्रीडां पश्यन्रेतः ससर्ज ह ॥४१॥पश्यतस्तस्य सरसः समुत्तीर्य मनोहरम् ॥दिव्यवस्त्राणि चाच्छाद्य कान्ताभिः सह सस्मितम् ॥४२॥अधिरुह्य विमानं तु ययौ स धनदालयम् ॥गते गन्धर्वराजे तु रंगदासो विमोहितः ॥४३॥त्यक्त्वा च तानि माल्यानि स्नात्वा सरसि लज्जितः ॥पुनराहृत्य पुष्पाणि शनैर्देवालयं ययौ ॥४४॥वैखानसस्तु तं दृष्ट्वा पूजाकालमतीत्य च ॥आगतं किमिति प्राह सखेऽतिक्रम्य चागतः ॥४५॥न बद्धा मालिकाश्चापि त्वयाऽऽरामे च किं कृतम् ॥४६॥॥ श्रीवराहउवाच ॥इत्थं पृष्टो रंगदासो नावदल्लज्जया ततः ॥लज्जितं रंगदासं तं प्रोवाच मधुसूदनः ॥४७॥॥ अथ स्वरूपानुसन्धानेन लज्जितं रंगदासं प्रति श्रीनिवासवचनम्॥॥ श्रीभगवानुवाच ॥लज्जया किं रंगदास मया त्वं मोहितो ह्यसि ॥त्वं तावज्जितकामोऽसि धीरो भव महामते ॥४८॥गन्धर्वराजवद्राजा भवितासि महीतले ॥तत्र भुक्त्वा महाभोगान्भक्तिमान्मयि सर्वदा ॥४९॥प्राकारं च विमानं च कारयिष्यसि मे तदा ॥तत्र मुक्तिं प्रदास्यामि प्रीत्या परमया युतः ॥५०॥अत्रैव कुरु सेवां त्वमाशरीरविमोक्षणात् ॥मद्भक्तानां सकामानामेवं मुक्तिर्भविष्यति ॥५१॥इत्युक्त्वा भगवान्विष्णुः पुनर्नोवाच किंचन ॥श्रुत्वा तद्रंगदासोऽपि चकाराराममुत्तमम् ॥५२॥॥ अथ तोण्डमान्नामकनृपवृत्तान्तः ॥साग्रं शताब्दं सेवित्वा गतः स्वर्गममन्दधीः ॥जातः सोमकुले तुंगे तोण्डमानिति विश्रुतः ॥५३॥सुवीरतनयो वीरो नन्दिनीगर्भसंभवः ॥स पंचवर्षादुद्भूतविष्णुभक्तिः स्वयं सुधीः ॥सौशील्यशौर्यवीर्यादिगुणानामाकरो महान्॥ ५४॥पाण्ड्यस्य तनयां पद्मामुपयेमे मनोहराम् ॥ततो राजा शतं कन्या नानादेश्याः स्वयंवराः ॥५५॥रेमे देवेंद्रवद्भूमौ नारायणपुरे वसन्॥अनुज्ञां प्राप्य पितृतः पुत्रः पंचास्यविक्रमः॥ ५६॥उद्दिश्य मृगयां वीरो वेङ्कटाद्रेः समीपतः ॥५७॥॥ अथ तोण्डमान्नृपस्य मृगयार्थं श्रीशेषाचलगमनम् ॥पादचारेण विचरन्परिवारैः समन्वितः ॥मदधारां विमुंचंतं ददर्श गजयूथपम् ॥५८॥तं दृष्ट्वा विस्मितो भूत्वा ग्रहीतुं तमनुद्रुतः ॥सुवर्णमुखरीं तीर्त्वा ब्रह्माष शुकमुत्तमम् ॥५९॥नमस्कृत्याभ्यनुज्ञातस्ततोऽगच्छद्वनाद्वनम् ॥ददर्श रेणुकां देवीं वल्मीकाकारसंस्थिताम् ॥६०॥इष्टदामिष्टभक्तानां दिव्यारामनिवासिनीम्॥परिवारैः सदोपेतां पूजितां त्रिदशैरपि ॥६१॥तोण्डमानपि तां नत्वा ततः पश्चान्मुखो ययौ ॥६२॥॥ अथ श्रीनिवाससमीपस्थपंचवर्णशुकवृत्तांतः ॥पंचवर्णं शुकं दृष्ट्वा तं जिघृक्षुरनुद्रुतः ॥स वदञ्छ्रीनिवासेति गिरिं शीघ्रतरं ययौ ॥६३॥अनुद्रवन्स राजापि गिरिराजं समारुहत् ॥दरीश्च विविधाः पश्यञ्छिखराणि समंततः॥६४॥शुकमन्वेषमाणोऽसौ श्यामाकवनमेयिवान् ॥तमदृष्ट्वा शुकवरं वनपालं ददर्श ह ॥६५॥तं तु राजानमायांतं प्रत्युद्गच्छन्स सत्वरः ॥प्रणम्य विनयोपेतः कृताञ्जलिपुटः स्थितः ॥६६॥तोण्डमानपि संपूज्य तं पप्रच्छ वनेचरम्॥पंचवर्णः शुकः कश्चिद्दृष्टश्चात्रागतस्त्वया ॥६७॥श्रीनिवासेति च वदन्क्व गतोऽसौ वनेचर ॥६८॥॥ वनेचर उवाच ॥स पंचवर्णो राजेंद्र श्रीनिवासप्रियः सदा ॥पार्श्ववर्ती सदा तस्य श्रीभूमिभ्यां विवर्धितः ॥६९॥स्वामिपुष्करिणीतीरे सदास्ते देवसन्निधौ ॥ग्रहीतुं स शुकः श्रीमान्न तु केनापि शक्यते ॥७०॥विहृत्य स्वेच्छया नित्यमस्मिन्गिरिवरे शुभे ॥दिनांते देवमासाद्य तत्समीपे वसत्ययम् ॥७१॥तं देवमाराधयितुं गमिष्यामि नृपात्मज ॥विश्रम्यतां वृक्षमूले यावदागमनं मम ॥७२॥पुत्रेणानेन सहितो विहर त्वं यथासुखम् ॥७३॥॥ राजोवाच ॥त्वया सहागमिष्यामि द्रष्टुं देवं जनार्दनम् ॥त्वं मे दर्शय देवेशं वेंकटाद्रिनिवासिनम् ॥७४॥तस्य राज्ञो वचः श्रुत्वा श्यामाकं मधुमिश्रितम् ॥चूतपत्रपुटे क्षिप्त्वा राज्ञा सह ययौ हरिम् ॥७५॥॥ अथ तोण्डमान्नृपस्य निषादेन सह श्रीनिवाससमीपागमनम् ॥गत्वा सुदूरमध्वानं पश्यन्तौ तौ शिलातलम् ॥मुहूर्तादेव संप्राप्तौ स्वामिपुष्करिणीं शुभाम् ॥७६॥स्नात्वा तत्र विधानेन राज्ञा सह निषादपः ॥दर्शयामास देवशं राज्ञस्तस्य महात्मनः ॥७७॥स्वामिपुष्करिणीतीरे स्थितं श्रीवृक्षमूलके ॥अतसीपुष्पसंकाशमंबुजायतलोचनम् ॥७८॥चतुर्भुजमुदाराङ्गमीषत्स्मितमुखांबुजम् ॥दिव्यपीतांबरधरं किरीटकटकोज्ज्वलम् ॥७९॥पार्श्वस्थाभ्यां सुरूपाभ्यां श्रीभूमिभ्यां समन्वितम् ॥परितः शंखचक्रासिगदाशार्ङ्गेषुसेवितम् ॥८०॥अन्यैर्दिव्यायुधैश्चापि दिव्यमाल्यैर्निषेवितम् ॥स्कन्देनाराध्यमानं तं त्रिसन्ध्यं पुरुषोत्तमम् ॥८१॥वल्मीकगूढपादाब्जमाजानुपुरुषोत्तमम् ॥ततो दृष्ट्वा मुदा देवं प्रणेमतुरुभौ तदा ॥८२॥राजा तु प्रांजलिर्भूत्वा विस्मयोत्फुल्ललोचनः ॥आनंदलहरीं प्राप्य न प्राज्ञायत किंचन ॥८३॥निषादोऽपि निवेद्यैव श्यामाकं मधुमिश्रितम् ॥राज्ञे तदर्धं दत्त्वैव शिष्टार्धं भुक्तवान्स्वयम् ॥८४॥पीत्वा पुष्करिणीतोयं तेन राज्ञा समन्वितः ॥स पुनः श्यामकवने पुण्यां पर्णकुटीं ययौ ॥८५॥उषित्वा चैकरात्रं तु प्रातरुत्थाय भूमिपः ॥स्वसैन्येन समायुक्तो निवृत्तः स्वपुरं ययौ ॥८६॥॥ अथ तोण्डमान्नृपं प्रति रेणुकोक्तिः ॥पुनर्देवीवनं गत्वा हयादवततार ह ॥चैत्रशुद्धनवम्यां तु पूजयामास रेणुकाम् ॥८७॥हविष्यं परमान्नं च सोपस्करमनेकशः ॥पशूपहारसहितं धूपदीपसमन्वितम् ॥८८॥सुराघटीशतं दत्त्वा जातीकेसरवासितम् ॥एवं संपूजिता देवी प्रीता राज्ञे वरं ददौ ॥८९॥आविष्टः पुरुषः कश्चिदवदन्नृपसत्तमम् ॥शृणु राजन्भविष्यं ते राज्यं निहतकंटकम् ॥९०॥राजंस्तवैव नाम्नात्र राजधानी भविष्यति ॥मत्समीपे महाराज चिरं राज्यं करिष्यसि ॥९१॥देवदेवप्रसादश्च भविष्यति तवानघ ॥इति दत्त्वा वरं तस्मा आविष्टः प्रकृतिं ययौ ॥९२॥ततो लब्धवरो राजा ययौ शुकमुनिं पुनः ॥९३॥॥ अथ शुकवर्णितपद्मसरोवरमाहात्म्यम् ॥अभिवाद्य मुनिं तेन पूजितो मुदितोऽभवत् ॥माहात्म्यं सरसो ब्रूहि कमलाख्यस्य मे मुने ॥९४॥॥ श्रीशुक उवाच ॥पुरा दुर्वाससः शापादवतीर्णा सुरालयात् ॥पद्मा पद्माक्षदयिता विष्णुना सहिता नृप ॥९५॥सरः कांचनपद्माढ्यमिदं प्राप्य महेश्वरी ॥तपश्चकार वर्षाणां दिव्यानामयुतं रमा ॥९६॥ततो देवा विचिन्वन्तः श्रियं विष्णुसमन्विताम् ॥पुरंदरेण संयुक्ता राजन्नस्मिन्सरोवरे ॥९७॥स्थिता सुवर्णकमले पुण्डरीकाक्षसंयुताम् ॥दृष्ट्वा प्रीतिसमायुक्ताः प्रणम्यांबुजधारिणीम् ॥कृताञ्जलिपुटाः सेन्द्रास्तुष्टुवुर्लोकमातरम् ॥९६॥॥ अथ देवादिकृतश्रीलक्ष्मीस्तुतिः ॥॥ देवा ऊचुः ॥नमः श्रियै लोकधात्र्यै ब्रह्ममात्रे नमोनमः ॥नमस्ते पद्मनेत्रायै पद्ममुख्यै नमोनमः ॥९९॥प्रसन्नमुखपद्मायै पद्मकान्त्यै नमोनमः ॥नमो बिल्ववनस्थायै विष्णुपत्न्यै नमोनमः ॥१००॥विचित्रक्षौमधारिण्यै पृथुश्रोण्यै नमोनमः ॥पक्वबिल्वफलापीनतुंगस्तन्यै नमोनमः ॥१०१॥सुरक्तपद्मपत्राभकरपादतले शुभे ॥सुरत्नांगदकेयूरकांचीनूपुरशोभिते ॥यक्षकर्दमसंलिप्तसर्वांगे कटकोज्ज्वले ॥१०२॥मांगल्याभरणैश्चित्रैर्मुक्ताहारैर्विभूषिते ॥ताटंकैरवतंसैश्च शोभमानमुखांबुजे ॥१०३॥पद्महस्ते नमस्तुभ्यं प्रसीद हरिवल्लभे ॥ऋग्यजुःसामरूपायै विद्यायै ते नमोनमः ॥१०४॥प्रसीदास्मान्कृपादृष्टिपातैरालोकयाब्धिजे ॥ये दृष्टास्ते त्वया ब्रह्मरुद्रेंद्रत्वं समाप्नुयुः ॥१०५॥॥ अथ इंद्रादीन्प्रति स्तुतिप्रसन्नलक्ष्मीवचनम् ॥॥ श्रीशुक उवाच ॥इति स्तुता तदा दैवैर्विष्णुवक्षःस्थलालया ॥विष्णुना सह संदृश्या रमा प्रीतावदत्सुरान् ॥१०६॥॥ श्रीरुवाच ॥सुरारीन्सहसा हत्वा स्वपदानि गमिष्यथ ॥ये स्थानहीनाः स्वस्थानाद्भ्रंशिता ये नरा भुवि ॥१०७॥ते मामनेन स्तोत्रेण स्तुत्वा स्थानमवाप्नुयुः ॥अखंडैर्बिल्वपत्रैर्मामर्चयंति नरा भुवि ॥१०८॥स्तोत्रेणानेन ये देवा नरा युष्मत्कृतेन वै ॥धर्मार्थकाममोक्षाणामाकरास्ते भवन्ति वै ॥१०९॥इदं पद्मसरो देवा ये केचन नरा भुवि ॥प्राप्य स्नानं करिष्यन्ति मां स्तुत्वा विष्णुवल्लभाम् ॥११०॥तेऽपि श्रियं दीर्घमायुर्विद्यां पुत्रान्सुवर्चसः ॥लब्ध्वा भोगांश्च भुक्त्वाऽन्ते नरा मोक्षमवाप्नुयुः ॥१११॥इति दत्त्वा वरं देवी देवेन सह विष्णुना ॥आरुह्य गरुडेशानं वैकुण्ठस्थानमाययौ ॥११२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये धरणीवराहसंवादे वसु नामक निषादवृत्तान्तपद्मसरोमाहात्म्यादिवर्णनंनाम नवमोऽध्यायः ॥९॥ N/A References : N/A Last Updated : August 11, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP