संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|वेङ्कटाचलमाहात्म्यम्| अध्यायः १३ वेङ्कटाचलमाहात्म्यम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ ॥ अथ श्रीनिवासस्य लक्ष्म्यादिकृतपरिणयालंकारः ॥ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० विषयानुक्रमणिका वेङ्कटाचलमाहात्म्यम् - अध्यायः १३ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण ॥ अथ धर्मगुप्तचरित्रवर्णनम् ॥ Translation - भाषांतर ॥ श्रीसूत उवाच ॥भूयोपि संप्रवक्ष्यामि स्वामितीर्थस्य वैभवम् ॥युष्माकमादरेणाऽहं नैमिषारण्यवासिनः ॥१॥नन्दोनाम महाराजः सोमवंशसमुद्भवः ॥धर्मेण पालयामास सागरान्तां धरामिमाम् ॥२॥तस्य पुत्रः समभवद्धर्मगुप्त इति स्मृतः ॥राज्यरक्षाधुरं नन्दो निजपुत्रे निधाय सः ॥३॥जितेंद्रियो जिताहारः प्रविवेश तपोवनम् ॥ताते तपोवनं याते धर्मगुप्ताभिधो नृपः ॥४॥मेदिनीं पालयामास धर्मज्ञो नीतितत्परः ॥ईजे वहुविधैर्यज्ञैर्देवानिन्द्र पुरोगमान् ॥५॥ब्राह्मणानां ददौ वित्तं क्षेत्राणि च बहूनि सः ॥सर्वे स्वधर्मनिरतास्तस्मिन्राजनि शासति ॥६॥कदाचिन्नाभवन्पीडास्तस्मिंश्चोरादिसंभवाः ॥कदाचिद्धर्मगुप्तोऽयमारुह्य तुरगोत्तमम् ॥७॥वनं विवेश विप्रेंद्रा मृगयारसकौतुकी ॥तमालतालहिन्तालकुरवाकुलदिङ्मुखे ॥८॥विचचार वने तस्मिन्सिंसहव्याघ्रभयानके ॥मत्तालिकुलसन्नादसंमूर्च्छितदिगन्तरे ॥९॥पद्मकल्हारकुमुदनीलोत्पलवनाकुले ॥तटाके रससंपूर्णे तपस्विजनमण्डिते ॥१०॥तस्मिन्वने सञ्चरतो धर्मगुप्तस्य भूपतेः ॥अभूद्विभावरी विप्रास्तमसावृतदिङ्मुखा ॥११॥राजाऽपि पश्चिमां सन्ध्यामुपास्य विनयान्वितः ॥जजाप च वने तत्र गायत्रीं वेदमातरम् ॥१२॥सिंहव्याघ्रादिभीत्यास्मिन्वृक्षमेकं समाश्रिते ॥राजपुत्रे तदभ्याशमृक्षः सिंहभयार्दितः ॥१३॥अन्वधावत वृक्षं तमेकः सिंहो वनेचरः ॥अनुद्रुतः स सिंहेन ऋक्षो वृक्षमुपारुहत् ॥१४॥आरुह्य ऋक्षो वृक्षं तं ददर्श जगतीपतिम् ॥वृक्षस्थितं महात्मानं महाबलपराक्रमम् ॥१५॥उवाच भूपतिं दृष्ट्वा ऋक्षोयं वनगोचरः ॥मा भीतिं कुरु राजेंद्र वत्स्यावो रजनीमिह ॥१६॥महासत्त्वो महाकायो महादंष्ट्रसमाकुलः ॥वृक्षमूलं समायातः सिंहोऽयमतिभीषणः ॥१७॥रात्र्यर्धं भज निद्रां त्वं रक्ष्यमाणो मयोद्यतः ॥ततः प्रसुप्तं मां रक्ष शर्वर्यर्धं महामते ॥१८॥इति तद्वाक्यमाकर्ण्य सुप्ते नन्दसुते हरिः ॥प्रोवाच ऋक्षं सुप्तोऽयं नृपो मे त्यज्यतामिति ॥१९॥तं सिंहमब्रवीदृक्षो धर्मज्ञो द्विजसत्तमाः ॥भवान्धर्मं न जानीते मृगराज वनेचर ॥२०॥विश्वासघातिनां लोके महाकष्टं भवत्यहो ॥न हि मित्रद्रुहां पापं नश्येद्यज्ञायुतैरपि ॥२१॥ब्रह्महत्यादिपापानां कथञ्चिन्निष्कृतिर्भवेत् ॥विश्वासघातिनां पापं न नश्येज्जन्मकोटिभिः ॥२२॥नाहं मेरुं महाभारं मन्ये पञ्चास्य भूतले ॥महाभारमिमं मन्ये लोकविश्वासघातकम् ॥२३॥एवमुक्तोऽथ ऋक्षेण सिंहस्तूष्णीं बभूव ह ॥धर्मगुप्ते प्रबुद्धे तु ऋक्षः सुष्वाप भूरुहे ॥२४॥ततः सिंहोऽब्रवीद्भूपमेनमृक्षं त्यजस्व मे ॥एवमुक्तोऽथ सिंहेन राजा सुप्तमशंकितः ॥२५॥स्वांकन्यस्तशिरस्कं तमृक्षं तत्याज भूतले ॥पात्यमानस्ततो राज्ञा समालम्बितपादपः ॥२६॥ऋक्षः पुण्यवशाद्वृक्षान्न पपात महीतले ॥स ऋक्षो नृपमभ्येत्य कोपाद्वाक्यमभाषत ॥२७॥कामरूपधरो राजन्नहं भृगुकुलोद्भवः ॥ध्यानकाष्ठाभिधो नाम्ना ऋक्षरूपमधारयम् ॥२८॥कस्मादनागसं सुप्तमत्याक्षीन्मां भवान्नृप ॥मच्छापादतिशीघ्रं त्वमुन्मत्तश्चर भूतले ॥२९॥इति शप्त्वा मुनिर्भूपं ततः सिंहमभाषत ॥न सिंहस्त्वं महायक्षः कुबेरसचिवः पुरा ॥३०॥हिमवद्गिरिमासाद्य कदाचित्तं वधूसखः ॥अज्ञानाद्गौतमाभ्याशे विहारमतनोर्मुदा ॥३१॥गौतमोऽप्युटजाद्दैवात्समिदाहरणाय वै ॥निर्गतस्त्वां विवसनं दृष्ट्वा शापमुदाहरत् ॥३२॥यस्मान्ममाश्रमेऽद्य त्वं विवस्त्रः स्थितवानसि ॥अतः सिंहत्वमद्यैव भविता ते न संशयः ॥३३॥इति गौतमशापेन सिंहत्वमगमत्पुरा ॥कुबेरसचिवो यक्षो भद्रनामा भवान्पुरा ॥३४॥कुबेरो धर्मशीलो हि तद्भृत्याश्च तथैव हि ॥अतः किमर्थं त्वं हंसि मामृषिं वनगोचरम् ॥३५॥एतत्सर्वमहं ध्यानाज्जानामि हि मृगाधिप ॥इत्युक्तो ध्यानकाष्ठेन त्यक्त्वा सिंहत्वमाशु सः ॥३६॥यक्षरूपं गतो दिव्यं कुबेरसचिवात्मकम् ॥ध्यानकाष्ठमसावाह प्रांजलिः प्रणतो मुनिम् ॥३७॥अद्य ज्ञातं मया सर्वं पूर्ववृत्तं महामुने ॥गौतमः शापकाले मे शापान्तमपि चोक्तवान् ॥३८॥ध्यानकाष्ठेन संवाद ऋक्षरूपेण ते यदा ॥तदा निर्धूय सिंहत्वं यक्षरूपमवाप्स्यसि ॥३९॥इति मामब्रवीद्ब्रह्मन्गौतमो मुनिपुङ्गवः ॥अद्य सिंहत्वनाशान्मे जानामि त्वां महामुने ॥४०॥ध्यानकाष्ठाभिधं शुद्धं कामरूपधरं सदा ॥इत्युक्त्वा तं प्रणम्याथ ध्यानकाष्ठं स यक्षराट् ॥४१॥विमानवरमारुह्य प्रययावलकापुरीम् ॥उन्मत्तरूपं तं दृष्ट्वा मन्त्रिणस्तु नृपोत्तमम्॥४२॥पितुः सकाशमानिन्यू रेवातीरे नृपोत्तमम् ॥तस्मै निवेदयामासुर्मतिभ्रंशं सुतस्य च ॥४३॥ज्ञात्वा तु पुत्रवृत्तान्तं पिता वै नंदनस्तदा ॥४४॥॥ अथ जैमिनिवाक्यात्स्वामितीर्थस्नातस्य धर्मगुप्तस्योन्मादनिवृत्तिः ॥पुत्रमादाय सहसा जैमिनेरन्तिकं ययौ ॥तस्मै निवेदयामास पुत्रवृत्तान्तमादितः ॥४५॥भगवञ्जैमिने पुत्रो ममाद्योन्मत्ततां गतः ॥अस्योन्मादविनाशाय ब्रूह्युपायं महामुने ॥४६॥इति पृष्टश्चिरं दध्यौ जैमिनिर्मुनिपुंगवः ॥ध्यात्वा तु सुचिरं कालं नृपनन्दनमब्रवीत् ॥४७॥ध्यानकाष्ठस्य शापेन ह्युन्मत्तस्ते सुतोऽभवत् ॥तस्य शापस्य मोक्षार्थमुपायं प्रब्रवीमि ते ॥४८॥सुवर्णमुखरीतीरे वेंकटेनाम पर्वते ॥सर्वपापहरे पुण्ये नानाधातुविनिर्मिते ॥४९॥स्वामिपुष्करिणी चेति तीर्थमस्ति महत्तरम् ॥पवित्राणां पवित्रं हि मंगलानां च मंगलम् ॥५०॥श्रुतिसिद्धं महापुण्यं ब्रह्महत्यादिशोधकम् ॥नीत्वा तत्र सुतं तेऽद्य स्नापयस्व महामते ॥५१॥उन्मादस्तत्क्षणादेव तस्य नश्येन्न संशयः ॥इत्युक्तस्तं प्रणम्यासौ जैमिनिं मुनिपुंगवम् ॥५२॥नन्दः पुत्रं समादाय स्वामिपुष्करिणीं ययौ ॥तत्र च स्नापयामास पुत्रं नियमपूर्वकम् ॥५३॥स्नानमात्रात्ततः सद्यो नष्टोन्मादोऽभवत्सुतः ॥स्वयं सस्नौ स नन्दोऽपि स्वामिपुष्करिणीजले ॥५४॥उषित्वा दिनमेकं तु सहपुत्रः पिता तदा ॥सेवित्वा वेंकटेशं च श्रीनिवासं कृपानिधिम् ॥५५॥पुत्रमापृच्छ्य नन्दस्तं प्रययौ तपसे वनम् ॥गते पितरि पुत्रोऽपि धर्मगुप्तो नृपो द्विजाः ॥५६॥प्रददौ वेंकटेशस्य बहुवित्तानि भक्तितः ॥ब्राह्मणेभ्यो धनं धान्यं क्षेत्राणि च ददौ तदा ॥५७॥प्रययौ मन्त्रिभिः सार्धं स्वां पुरीं तदनन्तरम् ॥धर्मेण पालयामास राज्यं निहतकण्टकम् ॥५८॥पितृपैतामहं विप्रा धर्मगुप्तोतिधार्मिकः ॥उन्मादैरप्यपस्मारैर्ग्रहैर्दुष्टैश्च ये नराः ॥५९॥ग्रस्ता भवन्ति विप्रेन्द्रास्तेऽपि चात्र निमज्जनात् ॥पुष्करिण्यां विमुक्ताः स्युः सत्यं सत्यं वदाम्यहम् ॥६०॥स्वामिपुष्करिणीं त्यक्त्वा तीर्थमन्यद्व्रजेत्तु यः ॥स्निग्धं स गोपयस्त्यक्त्वा स्नुहीक्षीरं प्रयाचते ॥६१॥स्वामितीर्थं स्वामितीर्थं स्वामितीर्थमिति द्विजाः ॥त्रिःपठन्तो नरा एवं यत्र क्वापि जलाशये ॥६२॥स्नांति सर्वे नरास्ते वै यास्यन्ति ब्रह्मणः पदम् ॥एवं वः कथिता विप्रा धर्मगुप्तकथा शुभा ॥६३॥यस्याः श्रवणमात्रेण ब्रह्महत्या विनश्यति ॥६४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहाल्ये स्वामिपुष्करिणीमहिमानुवर्णनंनाम त्रयोदशोऽध्यायः ॥१३॥ छ ॥ N/A References : N/A Last Updated : August 11, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP