संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|वेङ्कटाचलमाहात्म्यम्| अध्यायः ५ वेङ्कटाचलमाहात्म्यम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ ॥ अथ श्रीनिवासस्य लक्ष्म्यादिकृतपरिणयालंकारः ॥ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० विषयानुक्रमणिका वेङ्कटाचलमाहात्म्यम् - अध्यायः ५ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अथ पद्मावतीदर्शनेन श्रीनिवासस्य मोहप्राप्तिः Translation - भाषांतर ॥ श्रीवराह उवाच ॥सम्प्राप्य चालयं दिव्यमवतीर्य हयोत्तमात् ॥विसृज्य सानुगान्सर्वान्देवान्कैरातरूपकान् ॥१॥विश्रमध्वमिति प्रोच्य विवेश मणिमण्डपम् ॥आरुह्य मणिसोपानं पंचकक्षा अतीत्य च ॥२॥मुक्तागृहं समासाद्य तस्मिँल्लोलायिते शुभे ॥नवरत्नमये मंचे संविवेशावशो हरिः ॥३॥संस्मरन्पद्मगर्भाभां तामेवायतलोचनाम् ॥तनुमध्यां पीनकुचां मन्दस्मितसुखांबुजाम् ॥४॥क्षीराब्धितनयामेव मेने पद्मोद्भवां शुभाम् ॥तस्यां गतमना देवः श्रीनिवासो मुमोह च ॥५॥॥ अथ मुह्यमानं श्रीनिवासं प्रति बकुलमालिकोक्तिः ॥ततो मध्याह्नसमये कृत्वान्नं दिव्यमुत्तमम् ॥सूपदंशं सुगन्धं च देवार्हमतिशोभनम् ॥६॥शुद्धान्नं पायसान्नं च गौडं मुद्गान्नमेव च ॥कृत्वा पञ्चविधापूपान्पूरिकावटकानपि ॥७॥देवं द्रष्टुं ययौ शीघ्रं सखी वकुलमालिका ॥पद्मावतीपद्मपत्रा चित्ररेखासमन्विता ॥८॥निवेश्य द्वारि देवस्य ताः सर्वाः प्रमदोत्तमाः ॥विवेश तत्समीपं सा स्वयं बकुलमालिका ॥९॥गत्वा समीपं देवस्य ववन्दे भक्तिभावतः ॥दृष्ट्वाथ देवं विवशं पर्यंके रत्नभूषिते ॥१०॥पादसंवाहनं कृत्वा निमीलितविलोचनम् ॥तं ध्यायन्तं च किमपि व्याजहार शुचिस्मिता ॥११॥उत्तिष्ठ देवदेवेश किं शेषे पुरुषोत्तम ॥परमान्नं कृतं देव भोक्तुमागच्छ माधव ॥१२॥किं वा त्वमार्तवच्छेषे सर्वलोकार्तिनाशन ॥मृगयामटता देव कि दृष्टं भवता वने ॥१३॥अवस्था ते विशालाक्ष कामुकस्येव दृश्यते ॥का दृष्टा देवकन्या वा मानुषी वाऽहिकन्यका ॥१४॥ब्रूहि मे त्वमचिन्त्यात्मन्कन्यां तां चित्तहारिणीम् ॥१५॥॥ श्रीवराह उवाच ॥तस्यास्तद्वचनं श्रुत्वा निःश्वासमकरोद्विभुः ॥निःश्वसंतं पुनः प्राह प्रीता बकुलमालिका ॥१६॥एवं मनोहरा का सा तवापि पुरुषोत्तम ॥तामवोचद्धृषीकेशो वक्ष्यामि शृणु तत्त्वतः ॥१७॥॥अथ श्रीनिवासोक्तपद्मावतीपरिणयकारणानि ॥॥ श्रीभगवानुवाच ॥पुरा त्रेतायुगे पुण्ये रावणं हतवानहम् ॥तदा वेदवती कन्या साहाय्यमकरोच्छ्रियः ॥१८॥सीतारूपाभवल्लक्ष्मीर्जनकस्य महीतलात् ॥गते मयि तु मारीचं हन्तुं पञ्चवटीवने ॥१९॥ममानुजोऽपि मामेव सीतया चोदितोन्वयात् ॥तदन्तरे राक्षसेन्द्रो हर्तुं सीतामुपाययौ ॥२०॥अग्निहोत्रगतो वह्निस्तं ज्ञात्वा रावणोद्यमम् ॥आदाय सीतां पाताले स्वाहायां सन्निवेश्य च ॥२१॥तेनैव रक्षसा स्पृष्टां पुरा वेदवतीं शुभाम् ॥अग्नौ विसृष्टदेहां तां संहर्तुं रावणं पुनः ॥२२॥सीताया रूपसदृशीं कृत्वा चैवोत्ससर्ज ह ॥सा रावणहृता भूत्वा लंकायां च निवेशिता ॥२३॥हते तु रावणे पश्चात्पुनरग्निं विवेश सा ॥अग्निस्तु रक्षितां लक्ष्मीं स्वाहायां मम जानकीम् ॥२४॥दत्त्वा हस्ते च मामाह सीतया सहितां सखीम ॥इयं वेदवती देव सीतायाः प्रियकारिणी ॥२५॥सीतार्थं राक्षसपुरे तेन बन्दीकृता स्थिता ॥तस्मादेनां वरेणैव प्रीणय त्वं श्रिया सह ॥२६॥इति वह्निवचः श्रुत्वा सीता मामवदच्छुभा ॥मम प्रीतिकरी नित्यमियं वेदवती विभो ॥२७॥तस्मात्परं भागवतीं देवैनां वरय प्रभो ॥२८॥॥ श्रीभगवानुवाच ॥तथा देवि करिष्यामि ह्यष्टाविंशे कलौ युगे ॥तावदेषा ब्रह्मलोके वसत्वमरपूजिता ॥२९॥पश्चात्तु भूमितनया भविष्यति वियत्सुता ॥इति दत्तवरा पूर्वं मया लक्ष्म्या च सुन्दरी ॥३०॥अद्य नारायणपुरे सम्भूता धरणीतलात् ॥पद्मासमा पद्मनेत्री पद्मादत्तवरा सती ॥३१॥सखीभिरनुरूपाभिर्वने पुष्पाणि चिन्वती ॥मृगयामटता तत्र मया दृष्टा मनोरमा ॥३२॥तस्या रूपं मया वक्तुं न शक्यं शतहायनैः ॥लक्ष्म्येव च तया मेऽद्य संगमो भविता यदि ॥३३॥प्राणाः स्थिरा भविष्यन्ति सत्यमित्यवधारय ॥३४॥॥ अथ वियद्राजपुरं प्रति बकुलमालिकागमनम्॥त्वं तत्र गत्वा तां कन्यां दृष्ट्वा बकुलमालिके ॥जानीहि रूपलावण्यादियं योग्येति चास्य वै ॥अनवद्या विशालाक्षी पद्मेन्दीवरलोचना ॥३५॥इत्युक्त्वा मोहमापन्नं तं प्राह बकुला पुनः ॥इतो गच्छामि देवेश मनोज्ञा तव यत्र सा ॥३६॥मार्गं वद रमाधीश गमिष्ये येन तां प्रति ॥एवमुक्तो रमाधीशस्तां प्राह वकुलस्रजम् ॥३७॥इतो गच्छ महाभागे श्रीनृसिंहगुहा यतः ॥तन्मार्गेणावतीर्यास्माद्भूधरेन्द्रान्मनोरमात् ॥३८॥अगस्त्याश्रममासाद्य दृष्ट्वा लिंगं तदर्चितम् ॥अगस्त्येश इति ख्यातं सुवर्णमुखरीतटे ॥३९॥तीरेणैव ततो गच्छ शुकब्रह्मऋषेर्वनम् ॥पश्यन्ती स्वर्णमुखरीं तत्र कल्लोलमालिनीम् ॥४०॥तत्र पद्मसरोनाम पावनं पद्मसंयुतम् ॥तत्र स्नात्वाऽथ तत्तीरे तपन्तं मुनिसत्तमम् ॥४१॥छायाशुकं नमस्कृत्य कृष्णं च बलसंयुतम् ॥आराध्यमानं मुनिना शुकेन सततं शुभे ॥४२॥इन्द्रनीलमणिश्यामं पीतनिर्मलवाससम् ॥तीर्थयात्रां गमिष्यन्तं बलभद्रं सिताकृतिम् ॥४३॥उपासयन्तं मंत्राणि मुक्तान्वितकरद्वयम् ॥उद्यन्तं पादुकायुक्तं बलभद्रं प्रणम्य च ॥४४॥आदाय स्वर्णकमलं सरसोऽस्माद्वरानने ॥तीर्त्वा सुवर्णमुखरीं वनान्युपवनानि च ॥४५॥अरणीतीरमासाद्य विश्रम्य च वनान्तरे ॥नारायणपुरीं दृष्ट्वा विस्मयं च गमिष्यसि ॥४६॥तस्याश्चोपवने वृक्षान्पुष्पाढ्यान्फलसंयुतान् ॥पनसाम्रशिरीषांश्च कुन्दतिन्दुकपाटलान् ॥४७॥पुन्नागनागवरणरसालांकोलचंपकान्॥बकुलामलकान्सालांस्तालहिंतालपद्मकान् ॥४८॥जम्बूनिम्बकदम्बैलापिप्पलीमधुकार्जुनान् ॥प्रियंगुहिंगुखर्जूरमायूराशोकलोध्रकान् ॥४९॥अश्वत्थोदुम्बरप्लक्षबदरीभूर्जकीचकान् ॥चिञ्चाकिंशुकमन्दारशाल्मलीबीजपूरकान् ॥५०॥पूगनारंगलिकुचनारिकेलवनाकुलान् ॥मल्लिकामालतीकुन्द यूथिकाकेतकीयुतान् ॥५१॥करवीराब्जसंपन्नान्राजरंभाविराजितान् ॥मयूरकीरगरुडशुकसारससंकुलान् ॥५२॥भृंगझंकारनिबिडानारामान्सुमनोहरान् ॥पश्यन्तीं परमं हर्षमवाप्य च नदीतटे ॥५३॥गत्वा पूर्वोत्तरे मार्गे पुरीमिन्द्रपुरीसमाम् ॥गङ्गयेवावृतां नित्यं सरितारणिनामया ॥५४॥आकाशराजनगरीं गत्वा तत्रोचितं कुरु ॥५५॥॥ श्रीवराह उवाच ॥इत्यादिश्य सुराधीशः सखीं तां बकुलाभिधाम् ॥विसृज्य शयने शुभ्रे स शिश्ये श्रीसमन्वितः ॥५६॥प्रणम्य देवदेवेशं सखी बकुलमालिका ॥गुञ्जामणिसमाकारं रक्ताश्वमधिरुह्य सा ॥५७॥यथोक्तमार्गेण ययौ पश्यन्ती विविधान्मृगान् ॥मत्तेभान्पर्वताकाराञ्छ्वेतदन्तविभूषितान् ॥५८॥करिणीयूथसहिताञ्जलदादानतत्परान् ॥सिंहाञ्छ्वे(?)तघनप्रख्यान्सिंहीयूथैरनुद्रुतान् ॥५९॥शार्दूलर्क्षांश्च खड्गांश्च शरभान्गवयान्मृगान् ॥कृष्णसारांश्च गोमायूञ्छशांश्च प्रियकानपि ॥६०॥सारसांश्च मयूरांश्च मार्जारान्वनगोचरान् ॥वृकाञ्छुकान्सूकरांश्च सुवाचः पक्षिणस्तथा ॥६१॥पश्यन्ती विविधाकारांस्तुष्यन्ती च मुहुर्मुहुः ॥आससादारणीतीरं पश्चिमं पादपाकुलम् ॥६२॥अवतीर्यारुणादश्वादगस्त्येशसमीपतः ॥दृष्ट्वागस्त्येश्वरं लिङ्गमगस्त्येन सुपूजितम् ॥६३॥तत्र स्नात्वा च पीत्वा च विशश्राम नदीतटे ॥६४॥॥ अथ दिव्योद्यानस्थपद्मावतीसखीः प्रति बकुलमालिकोक्तिः ॥तत्रागता राजगृहाद्योषितो देवसंनिधौ ॥सखीः पद्मालयायास्ता दृष्ट्वा बकुलमालिका ॥६५॥गत्वा समीपे तासां सा किंवदन्तीं स्म पृच्छति ॥६६॥॥ बकुलमालिकोवाच ॥का यूयं योषितो ब्रूत विचित्राभरणस्रजः ॥कुतः समागता ह्यत्र किं कार्यं वोऽमलाननाः ॥६७॥तास्तु तस्या वचः श्रुत्वा स्मितपूर्वमथाब्रुवन् ॥शृणुष्वावहिता देवि वयं वक्ष्यामहेऽधुना ॥६८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये धरणीवराहसंवादे पद्मावतीदर्शनेन श्रीनिवासस्यमोहप्राप्त्यादिवर्णनंनाम पञ्चमोऽध्यायः ॥५॥ N/A References : N/A Last Updated : August 05, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP