संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|वेङ्कटाचलमाहात्म्यम्| अध्यायः २९ वेङ्कटाचलमाहात्म्यम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ ॥ अथ श्रीनिवासस्य लक्ष्म्यादिकृतपरिणयालंकारः ॥ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० विषयानुक्रमणिका वेङ्कटाचलमाहात्म्यम् - अध्यायः २९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण सुवर्णमुखरीमाहात्म्ये Translation - भाषांतर ॥ ऋषय ऊचुः ॥तीर्थानामिह सर्वेषां प्रभावः कथितस्त्वया ॥नदीनां पर्वतानां च क्षेत्राणां सरसामपि ॥१॥निदेशात्पद्मगर्भस्य सुवर्णमुखरी नदी ॥नीता भुवमगस्त्येन व्याख्याता भवतानघ ॥२॥तदुत्पत्तिप्रभावं च तीर्थौघांस्तत्समाश्रयान् ॥श्रोतुं संप्रीतिरुत्पन्ना तन्नो वक्तुं त्वमर्हसि ॥३॥प्रणम्य शम्भुं नन्दीशं षडास्यं व्यासमेव च ॥मुनिभिः प्रार्थितः सूतस्तदा वक्तुं प्रचक्रमे ॥४॥॥ श्रीसूत उवाच ॥साधु पृष्टं महाभाग भवद्भिर्मंगलावहम् ॥आख्यानमेतदाम्नाय श्रवणोद्भूतसिद्धिदम् ॥५॥शृणुतावहिता दिव्यां कथां कल्मषनाशिनीम् ॥भरद्वाजेन कथितां पार्थाय कथयामि वः ॥६॥अवाप्य द्रुपदात्प्राज्ञाद्याज्ञसेनीं पृथासुताः ॥धृतराष्ट्रनिदेशेन जग्मुः करिपुरं शुभम् ॥७॥भीष्मेण चांबिकेयेन तत्र संमानितास्तदा ॥दुर्योधनादिभिः सार्द्धं न्यवसन्पञ्चवत्सरान् ॥८॥ततोऽनुशिष्टो भीष्माद्यैर्धृतराष्ट्रो महायशाः ॥सर्वेषां कुलवृद्धानां वासुदेवस्य चाग्रतः ॥९॥प्रददौ पांडुपुत्रेभ्यस्तत्सेवाहृष्टमानसः ॥सार्धराज्यं पुरवरं खाण्डवप्रस्थसंज्ञिकम् ॥१०॥आमंत्र्य पाण्डुतनया धृतराष्ट्रादिकान्कुरून् ॥जग्मुस्तत्खाण्डवप्रस्थं पुरं कृष्णसमन्विताः ११॥इन्द्रप्रस्थाह्वये तत्र रक्षिते विश्वकर्मणा ॥वसन्पुरेऽशिषत्पृथ्वीं सानुजो धर्मनंदनः ॥१२॥गते कृष्णे निजपुरं नारदस्यानुशासनात्॥प्रतिज्ञां चक्रिरे पार्था धर्मज्ञा द्रौपदीं प्रति ॥१३॥॥ अथार्जुनतीर्थयात्रोपोद्धातः ॥यथाक्रमेण सा कृष्णा वर्षमेकैकमादरात् ॥एकैकस्य गृहे तिष्ठेत्प्रतिनिर्णयपूर्वकम् ॥१४॥यः पश्येत्तां परगृहे स्थितां पांचालनंदिनीम् ॥तेनैकहायनमितं विधेयं तीर्थसेवनम् ॥१५॥एवं कृतप्रतिज्ञास्ते पाण्डुभूपालनंदनाः ॥व्यापारैर्लोंकसामान्यैर्निन्युः कालमतंद्रिताः ॥१६॥अथ जानपदो विप्रो राजगेहांगणे स्थितः ॥चुक्रोश बहुधा धेनुर्हृता मे तस्करैरिति ॥१७॥समाश्वास्य च तं विप्रं प्रविवेश धनंजयः ॥आयुधानि समानेतुं त्वरया शस्त्रमंदिरम् ॥१८॥तत्रापश्यत्समासीनौ पांचालीधर्मनन्दनौ ॥जानन्नपि प्रतिज्ञां स धनुर्जग्राह सेषुधि ॥१९॥स गत्वा तस्करानाजौ निहत्य नृपनन्दनः ॥निवर्त्य धेनुं तां तस्मै ददौ विप्राय सादरम् ॥२०॥अथ विज्ञापयामास फाल्गुनो धर्मनन्दनम् ॥तीर्थयात्रा मया कार्या समयोल्लंघनादिति ॥२१॥अनुजस्य वचः श्रुत्वा सर्वधर्मविदां वरः ॥उवाच वचनं धीरः सादरं धर्मनंदनः ॥२२॥॥ युधिष्ठिर उवाच ॥गवार्थं ब्राह्मणार्थं च यद्वदेदनृतं वचः ॥यदाचरेदसत्कर्म तत्सत्यं तत्समंजसम् ॥२३॥ब्राह्मणार्थं गवार्थं च त्वया कर्मेदृशं कृतम् ॥तदसद्भावमाप्नोति कथं कथय सुव्रत ॥२४॥प्रजापालनकृत्यस्य चोरोपेक्षणशिक्षणैः ॥नूनं फलं भवेद्राज्ञो ब्रह्महत्याश्वमेधजम् ॥२५॥असाध्यान्वैरिणो ज्ञात्वाऽप्यवनीशो न भद्रभाक् ॥स्वदेशोपप्लवकरास्तस्करा यद्यशिक्षिताः ॥२६॥अस्माकं भूभुजां लोकजालस्य च हितं हि यत् ॥त्वयेदृशं कृतं कर्म नास्ति दोषो ह्यतस्तव ॥२७॥॥ श्रीसूत उवाच ॥धर्मपुत्रस्य वचनमाकर्ण्य रचितांजलिः ॥पुनर्विज्ञापयामास धर्मनित्यो धनंजयः ॥२८॥॥ अर्जुन उवाच ॥मैवं भूपाल वादीस्त्वं स्वप्रतिज्ञातिलंघनम् ॥जानता धर्मसर्वस्वमुल्लसद्धर्ममूर्तिना ॥२९॥कृत्याकृत्यविदा दक्षेणात्मना प्राक्समीरिता ॥नोल्लंघनीया सततं प्रतिज्ञा पुरुषेण हि ॥३०॥अशक्तानां गतिः सेयं यद्बंधुगुरुवाक्यतः ॥धर्मं त्यजंति समयं त्यक्ताः प्राक्स्वं समीरितम् ॥३१॥कृपया तीर्थगमनादार्यो यदि निवर्तयेत् ॥हतप्रतिज्ञं मां लोकाञ्जल्पतः को निवारयेत् ॥३२॥ममापि तीर्थयात्रायां कौतुकोत्तरलं मनः ॥कर्तव्यं च स्मृतं राजन्नारदादिष्टशासनम् ॥३३॥तत्प्रसीद महाराज यत्तीर्थगमनोद्यमे ॥संमाननीयः प्रभुभिः समयो ह्यनुजीविनाम् ॥३४॥तथेति भ्रातृभिः सार्द्धं कृतानुमतिरर्जुनः ॥अग्रजं तोषयामास प्रणामप्रश्रयादिभिः ॥३५॥यथार्हं भीमसेनादीन्भ्रातॄनामन्त्र्य पाण्डवः ॥कृतस्वस्त्ययनो भव्यैर्निर्ययौ धरणीसुरैः ॥३६॥पौराणिका ज्यौतिषिका भिषजो धरणीसुराः ॥अनुजग्मुर्भृत्यगणाः शिल्पिनः सूतमागधाः ॥३७॥युधिष्ठिराज्ञया तस्य भोगत्यागक्षमं धनम् ॥गृहीत्वानुययुः स्निग्धाः सभ्याः कोशाधिकारिणः ॥३८॥॥ अथ अर्जुनस्य गंगादितीर्थावगाहनपूर्वक सुवर्णमुखर्यागमनम् ॥स राजपुत्रः प्रथमं प्राप्य भागीरथीं नदीम् ॥गंगाद्वारं प्रयागं च सिषेवे काशिकामपि ॥३९॥पश्यंस्तीर्थानि जाह्नव्यास्तत्तीरोपान्तवर्त्मना ॥आससाद समुत्तुङ्गकल्लोलं दक्षिणोदधिम् ॥४०॥महानदीं महापुण्यां प्रसिद्धं पुरुषोत्तमम् ॥सिंहाचलं च संवीक्ष्य प्राप्तवान्कृतकृत्यताम् ॥४१॥ततो ददर्श कौन्तेयः पुण्यां गोदावरीं नदीम् ॥समस्तदुरितव्रातशातनोत्तीर्णगौरवाम् ॥४२॥कृताभिषेकस्तत्तोयैर्विधिवत्पाण्डुनन्दनः ॥प्रमोदं विविधैर्दानैरकरोद्भूसुवर्णकैः ॥४३॥नदीं मलापहाख्यां च दृष्ट्वा मोदं ययौ शुभम् ॥ततः समाससादासौ कृष्णवेणीं सरिद्वराम् ॥४४॥शिवस्य नियतावासं चतुर्द्वारसमन्वितम् ॥नानातीर्थगणाकीर्णं श्रीपर्वतमवैक्षत ॥४५॥नदीं पिनाकिनीं तीर्त्वा गत्वा देवर्षिसेवितम् ॥नारायणप्रियावासमपश्यद्वेंकटाचलम् ॥४६॥शृङ्गेऽस्य भूभृतस्तुंगे स्थितं लोकैकनायकम् ॥अपूजयद्धरिं भक्त्या प्रसिद्धं शुभसिद्धये ॥४७॥अवरुह्य वेंकटमहाद्रिशृङ्गतः स ददर्श सिद्धमुनिसंघसेविताम् ॥कलशोद्भवेन मुनिना समाहृतां तटिनीं सुवर्णमुखरीसमाह्वयाम् ॥४८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये सुवर्णमुखरीमाहात्म्ये अर्जुनतीर्थयात्रागमनवर्णनंनामैकोनत्रिंशोऽध्यायः ॥२९॥ N/A References : N/A Last Updated : August 25, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP