अष्टादशकाण्ड: - ७६ ते ८२

पैप्पलादसंहिता


७६
आ रोहत जनित्रीं जातवेदसः पितृयाणैः सं वो आ रोहयामि ।
अवाड्ढव्येषितो हव्यवाह ईजानं युक्ता: सुकृतां धत्त लोके ॥१॥
देवा यज्ञमृतव: कल्पयन्ति हविः पुरोडाशं स्रुचो यज्ञ आयुधानि ।
तेभिर्याहि पथिभिर्देवयानैर्यैरीजानाः स्वर्ग यन्ति लोकम् ॥२॥
ऋतस्य पन्थामनु पश्य साध्वङ्गिरसः सुकृतो येन यन्ति ।
बुध्नस्य विष्टप्यधिविक्रयस्व यत्रादित्या अमृत भक्षयन्ति ॥३॥
त्रय: सुपर्णा उपरस्या सखाय नाकस्य पृष्ठे अधि विष्टपि श्रिता: ।
स्वर्गा लोका अमृतेन विष्टा कामंकामं यजमानाय दुह्राम् ॥४॥
जुहूर्दाधार द्यामुपभृदन्तरिक्षं ध्रुवा दाधार पृथिवीं प्रतिष्ठाम् ।
प्रतिष्ठां लोकानां घृतपृष्ठाः प्र पीनां स्वधामूर्ज यजमानाय दुह्राम् ॥५॥
ध्रुव आ रोह पृथिवीं विश्ववेदसमन्तरिक्षमुपभृदा क्रमस्व।
जुहु द्यां गच्छ यजमानेन साकं स्रुवेण वत्सेन दिशः प्रपीना: सर्वा धुक्ष्वा अहृणीयमानः ॥६॥
तीर्थैस्तरन्ति प्रवतो महीरनु यज्ञकृत: सुकृतो येन यन्ति ।
अत्राभजं यजमानाय लोकं दिशो भूतानि यदकल्पयन्त ॥७॥
अङ्गिरसामयनं पूर्वो अग्निरादित्यानामयनं गार्हपत्यो दक्षिणानामयनं दक्षिणाग्नि: ।
महिमानमग्नेर्विहितस्य ब्रह्मणा समङ्ग सर्व उप याहि शग्मः ॥८॥
पूर्वो अग्निष्टवा तपतु शं पुरस्ताच्छं पश्चात् तपतु गार्हपत्यः ।
दक्षिणाग्निष्टे तपतु शर्म वर्मोत्तरतो मध्यतो अन्तरिक्षाद् दिशोदिशो अग्ने परि पाहि घोरात् ॥९॥
यूयमग्ने शंतमाभिस्तनूभिरीजानं अभि लोकं स्वर्गम् ।
अश्वा भूत्वा पृष्टिवाहो वहाथ यत्र देवै: सधमार्द मदन्ति ॥१०॥

७७
शमग्ने पश्चात् तप शं पुरस्ताच्छमधरात् तप शं जातवेद: ।
एकस्त्रेधा विहितो जातवेद: सम्यगेनं धेहि सुकृतामु लोके ॥१॥
शमग्नय: समिद्धा आ रभन्तां प्राजापत्यं मेध्यं जातवेदस: ।
शूतं कृण्वन्त इह माव चिक्षिपन् ॥२॥
यज्ञ एति विततः कल्पमान ईजानो ऽभि लोकं स्वर्गम् ।
तमग्नय: सर्वहुतं जुषन्तां तमस्मिंदेवा जानतां भागधेयम् ॥३॥
ईजानश्चितमारुक्षदग्निं नाकस्य पृष्ठाद् दिवमुत्पतिष्यन्॥
तस्मै प्र भाति नभसो ज्योतिषीमान्त्स्वर्गः पन्थाः सुकृतो देवयानः ॥४॥
अग्निर्होताध्वर्युष्टे बृहस्पतिरिन्द्रो ब्रह्मा दक्षिणतस्ते अस्तु ।
हुतोयं संस्थितो यज्ञ एतु यत्र पूर्वमयनं हुतानाम् ॥५॥पुर्व
अपूपवान् क्षीरवांश्चरुरेह सीदतु त्रिभूवन् पृथिवीं द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥६॥
अपूपवान् दधिवांश्चारुरेह सीदतु त्रिभूवन् पृथिवीं द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥७॥
अपूपवान् द्रप्सवांश्चरुरेह सीदतु त्रिभूवन् पृथिवीं द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥८॥
अपूपवान् घृतवांश्चरुरेह सीदतु त्रिभूवन् पृथिवीं द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥९॥
अपूपवान् मांसवांश्चरुरेह सीदतु त्रिभूवन् पृथिवी द्यमिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ॥१०॥

७८
अपूपवान् मधुमांश्चरुरेह सीदतु त्रिभूवन् पृथिवीं द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१॥
अपूपवानन्नवांश्चरुरेह सीदतु त्रिभूवन् पृथिवीं द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२॥
अपूपवान् रसवांश्चरुरेह सीदतु त्रिभूवन् पृथिवीं द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३॥
अपूपवानपवांश्चरुरेह सीदतु त्रिभूवन् पृथिवीं द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥४॥
अपूपापिहितान् कुम्भान् यांस्ते देवा अधारयन् ।
ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥५॥
यास्ते धाना अनुकिरामि तिलमिश्रा: स्वधावती: ।
तास्ते सन्तुद्भ्वी: प्रभ्वीस्तास्ते राजानु मन्यतां यमो ।
अक्षितिं भूयसीम् ॥६॥
द्रप्सश्चस्कन्द प्रथमामनु द्यामिमं च योनिमनु यश्च पूर्वः ।
ऋतस्य योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्रा: ॥७॥
शतधारं वायुमर्कं स्वर्विदं नृचक्षसस्ते अभि चक्षते रयिम् ।
ये पृणन्ति सर्वदा ते दुह्रते दक्षिणां सप्तमातरम ॥८॥
उत्सं दुहन्ति कलशं चतुर्बिलमिडां धेनुं मधुमतीं स्वस्तये ।
ऊर्जं मदन्तीमदितिं जनेष्वग्ने मा हिंसी: परमे व्योमन् ॥९॥

७९
एतत् ते देव: सविता वासो ददाति भर्तवे ।
तत् त्वं यमस्य राज्ये वसानस्तार्प्यं चर ॥१॥
धाना धेनुरभवद् वत्सो अस्यास्तिलोभवत् ।
तां त्वं यमस्य राज्ये अक्षितामुप जीवति ॥२॥
एतास्ते असौ धानाः कामदुघा भवन्तु ।
एनीः श्येनीर्विरूपा स्वरूपास्तिलवत्सा उप तिष्ठन्तु त्वात्र ॥३॥
एनीर्धाना हरिणी: श्येनीरस्य कृष्णा धाना रोहिणीर्धेनवस्ते ।
तिलवत्सा ऊर्जमस्मै दुहाना विश्वाहा सन्त्वनपस्फुरन्ती ॥४ ॥मसै
वैश्वानरे हविरिदं जुहोम्येतं साहस्रं शतधारमुत्सम् ।
स बिभर्ति पितरं पितामहान् प्रपितामहान् बिभर्ति पिन्वमानः ॥५॥
सहस्रधारं उत्सं शतधारमक्षितं व्यच्यमानं सलिलस्य पृष्ठे॥
ऊर्ज दुहाना अनपस्फुरन्तमुपासतां सुकृतां यत्र लोकः ॥६॥
इदं कसाम्बु चयनेन चितं तत्सजाता अव पश्यतेत ।
मर्त्योऽयममृतत्वमेति तस्मै लोकं कृणुत यावत्सबन्धु ॥७॥
इहैवैधि धनसनिरिहचित्त इहक्रतुः ।
इहैधि वीर्यवत्तरो वयोधा अपराहतः ॥८॥
पुत्रान् पौत्रानभितर्पयन्तीरापो मधुमतीरिमाः ।
स्वधां पितृभ्यो अमृतं दुहाना आपो देवीरुभयांस्तर्पयन्तु ॥९॥
आपो अग्निं प्र हिणुतेम यज्ञं पितरो नो जुषन्ताम् ।
आसीनामूर्जमुप ये सचन्ते ते नो रयिं सर्ववीरं नि यच्छान् ॥१०॥

८०
समिन्धते अमर्त्यं हव्यवाहं घृतप्रियम् ।
स वेद निहितान् निधीन पितॄन् परावतो गतान् ॥१॥
यं ते मन्थं यां कलम्भं यमोदनं यन्मासं निपृणामि ते ।
ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुत: ॥२॥
सरस्वतीं यां सुकृतो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः ।
सहस्रा यौ मैनानत्रपरादा दीर्घमेषामायुष्कृणु विश्वरूपे ॥३॥
इदं पूर्वमपरं नियानं येना ते पूर्वे पितरः परेताः ।
पुरोगवा ये अभिशाचो अस्य ते त्वा वहन्तु सुकृतामु लोकम ॥४॥
पृथिवीं त्वा पृथिव्यामा वेशयामि देवो नो धाता प्र तिरात्यायुः ।
परापरैता वसुविद् वो अस्त्वधा मृतै: पितर: सं भवाथ ॥५॥
एयमगन् दक्षिणा भद्रतो नो अनेन दत्ता सुदुघा वयोधाः ।
यौवने जीवाङ् अपि पृञ्चती जरा पितृभ्य उपसंपराणयात् ॥६॥
आ प्र च्यवेथामपि तन्मृजेथां यद् वामभिभा अत्रोचुः ।
अर्वाञ्चावेतमघ्न्यौ तद् वशीयो पात्रे पितृष्विहभोजनौ मम ॥७॥
इदं पितृभ्य: प्र भरामि बर्हिर्जीवं देवेभ्य उत्तरं स्तृणामि ।
तदा रोह पुरुषो मेध्यो भवन् प्रति त्वा जानन्तु पितरः परेतम् ॥८॥
एदं बर्हिरसदो मेध्योभूः प्रति त्वा जानन्तु पितरः परेतम् ।
यथापरु तन्वं सं भरस्व गात्राणि ते ब्रह्मणा कल्पयामि ॥९॥
पर्णो राजापिधानं चरूणामूर्जो बलं सह ओजो न आगन् ।
आयुर्जीवेभ्यो विदधद् दीर्घायुत्वाय शतशारदाय ॥१०॥

८१
ऊर्जो भागो य इदं जजानाश्मान्नानामधिपतिर्बभूव ।
तमर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात् ॥१॥
यथा यमाय हर्म्यमवपन् पञ्च मानवाः ।
एवा वपामि हर्म्यं यथा मे भूरयोसत ॥२॥
इदं हिरण्यं बिभृहि यत् ते पिताबिभ: पुरा ।
स्वर्गं यत: पितुर्हस्तं निर्मृडढि दक्षिणम् ॥३॥
ये च जीवा ये च मृता ये जाता ये च यज्ञिया ।
तेभ्यो घृतस्य कुल्यैतु शतधारा व्युन्दती ॥४॥
वृषा मतीनां पवते विचक्षण: सूरो अह्नां प्रतरीतोषसां दिवः ।
प्राणः सिन्धूनां कलशां अचिक्रददिन्द्रस्य हार्दिमाविशन्मनीषया ॥५॥
त्वेषस्ते धूम ऊर्णोति दिवि षंच्छुक आततः ।
सूरो न हि द्युता त्वां कृपा पावक रोचसे ॥६॥
प्र वा एतीन्दुरिन्द्रस्य निष्कृतिं सखा सख्युर्न प्र मिनाति संगिर: ।
मर्य इव योषा: समर्षसे सोम: कलशे शतयामना पथा ॥७॥
आ यात पितर: सोम्यासो गम्भीरैः पथिभिः पितृयाणैः ।
प्रजामस्मभ्यं दधत रयिं च दीर्घायुत्वाय शतशारदाय ॥८॥
परा यात पितर: सोम्यासो गम्भीरै: पथिभि: पितृयाणैः ।
अधा मासि पुनरा यात नो गृहान् हविरत्नूं सुप्रजस: सुवीराः ॥१९॥
अक्षन्नमीमदन्ताव प्रियान् अधूषतः ।
अस्तोषत स्वभानवः परेतु पितरो गृहान् ॥१०॥

८२
यद् वो अग्निरजहादेकमङ्ग पितृलोकं गमयं जातवेदाः ।
तद् व एतत् पुनरा वेशयामि साङ्गाः सर्गे पितरो मादयध्वम् ॥१॥
असौ हा इह ते मन: ।
ककुत्सलमिव जामयो अभ्येनं भूम ऊर्णुहि॥२ ॥उर्णु
रमध्वं मा बिभीतन अस्मिन् गोष्ठे करीषिणः। विभी
ऊर्जं दधाना सुकृतः शुचिव्रता गृहाजीवन्त उप वः सदेम ॥३॥
ऊर्जं मे देवा अदधुरूर्जं मनुष्या उत।
ऊर्जं पितृभ्योहार्षमूर्जस्वन्तो गृहान् मम ॥४॥स्व
पयो मे देवा अदधु: पयो मनुष्या उत।
पयः पितृभ्य आहार्षं पयस्वन्तो गृहान् मम ॥५॥
उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय ।
अधादित्य व्रते वयं तवानागसो अदितये स्याम ॥६॥
ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशान् वितता महान्त: ।
तेभ्यो अस्मान् वरुणः सोम इन्द्रो विश्वे मुञ्चन्तु मरुतः स्वर्काः ॥७॥
प्रास्मत् पाशान् वरुण मुञ्च सर्वान् यै: समामे बध्यते यैर्व्यामे ।
अथ जीवेम शरदं शतानि त्वया राजन् गुपिता रक्षमाणा: ॥८॥
अव ते हेळ इमहे नमोभिरव यज्ञेभिरीमहे हविर्भिः ।
यदस्मद् वरुण प्रचेता राजन्नेनांसि शिश्रथ: कृतानि ॥९॥
चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि ।
वित्त मे अस्य रोदसी ॥१०॥
(इति महत् काण्डनामअष्टादशकाण्डे द्वादशो अनुवाक:)
षडविंशति कण्डिका मङ्गला इति ख्याता
हृत्यथर्ववेदे पैप्पलादशाखासंहितायां महत् काण्डनाम
अष्टादशकाण्ड: समाप्त:

N/A

References : N/A
Last Updated : May 13, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP