संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|महत् काण्डनाम अष्टादशकाण्ड:| ३६ ते ४० महत् काण्डनाम अष्टादशकाण्ड: १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८२ अष्टादशकाण्ड: - ३६ ते ४० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता पैप्पलादसंहिता Translation - भाषांतर ३६यस्यैवं विद्वान् व्रात्यो राज्ञोतिथिर्गृहमागच्छेत् ।श्रेयांसमेनमात्मनो मानयेत् तथा राष्ट्राय ना वृश्चते तथा क्षत्राय ना वृश्चते तथा ब्रह्मणे ना वृश्चते ॥१॥ततो वै ब्रह्म च क्षत्रं चोदतिष्ठतां ते अब्रूतां कं प्र विशावेति ॥२॥ते प्रजापतिरब्रवीत् बृहस्पतिमेव ब्रह्म प्राविशदिन्द्रं क्षत्रमिति ।ततो वै बृहस्पतिमेव ब्रह्म प्रा विशदिन्द्रं क्षत्रम् ॥३॥इयं वा उ भूमिर्बृहस्पतिरसौ द्यौरिन्द्र: ।अयं वा उ अग्निर्ब्रह्मासावादित्यः क्षत्रम् ॥४॥ऐनं क्षत्रं गच्छतीन्द्रियावान् भवति य आदित्यं क्षत्रं दिवमिन्द्रं वेद॥ऐनं ब्रह्म गच्छति ब्रह्मवर्चसी भवति ।योग्निं ब्रह्म बृहस्पतिं भूमिं वेद ॥५॥३७यस्योद्धृतेष्वग्निष्वहुते अग्निहोत्रे एवं विद्वान् व्रात्योऽतिथिर्गृहानागच्छेत् ।स्वयमेनमभ्युदेत्य ब्रूयाद् व्रात्य क्वाऽवात्सीरिति व्रात्योदकमिति व्रात्य तर्पयन्त्विति ॥१॥यदाह व्रात्य क्वाऽवात्सीरिति पथ एव तेन देवयानानव रुन्द्धे ।व्रात्योदकमित्यप एव तेनाव रुन्द्धे ॥२॥यदाह व्रात्य तर्पयन्त्विति प्राणमेव तेन वर्षीयांसं कृणुते ।पुराग्निहोत्रस्य हवनादुपांशु कृण्वीत ॥३॥व्रात्य यथा ते प्रियं तथास्त्विति व्रात्य यथा ते निकामस्तथास्त्विति व्रात्य यथा ते वशस्तथास्त्विति ॥४॥यदाह व्रात्य यथा ते प्रियं तथास्त्विति प्रियमेव तेनाव रुन्द्धे प्रिये प्रियस्य भवत्यैनं प्रियं गच्छति य एवं वेद ॥५॥यदाह व्रात्य ते निकामस्तथास्त्विति निकाममेव तेनाव रुन्द्धे निकामे निकामस्य भवत्यैनं निकामो गच्छति य एवं वेद ॥६॥यदाह व्रात्य यथा ते वशस्तथास्त्विति वशमेव तेनाव रुन्द्धे वशी वशिनं भवत्यैनं वशो गच्छति य एवं वेद ॥७॥३८यस्यधिश्रिते अग्निहोत्र एवं विद्वान् व्रात्योऽतिथिर्गृहमागच्छेत् ।स्वयमेनमभ्युदेत्य ब्रूयाद् व्रात्याति सृज होष्यामीति ॥१॥स अति च सृजेज्जुहुयान्न चातिसृजेन्न जुहुयात् ।यो वा एवं विदुषा व्रात्येनातिसृष्टो जुहोति ॥२॥प्र देवयानं पन्थां जानाति न पितृयाणमा देवेषु वृश्चते हुतमस्य भवति ।यो वा एवं विदुषा व्रात्येनातिसृष्टो जुहोति ॥३॥न देवयानं पन्थां जानाति न पितृयाणां पर्यस्यास्मिंल्लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनातिसृष्टो जुहोति ॥४॥३९यस्यैवं विद्वान् व्रात्य एकां रात्रिमतिथिर्गृहे वसति ।ये पृथिव्यां पुण्या लोकास्तानेवैनानव रुन्द्धे ॥१॥यस्यैवं विद्वान् व्रात्यो द्वितीयां रात्रिमतिथिर्गृहे वसति ।ये अन्तरिक्षे पुण्या लोकास्तानेवैनानव रुन्द्धे ॥२॥यस्यैवं विद्वान् व्रात्यस्तृतीयां रात्रिमतिथिर्गृहे वसति ।ये दिवि पुण्या लोकास्तानेवैनानव रुन्द्धे ॥३॥यस्यैवं विद्वान् व्रात्यश्चतुर्थीं रात्रिमतिथिर्गृहे वसति ।सर्वानेवनेन पुण्या लोकास्तानेव तेनाव रुन्द्धे ॥४॥यस्यैवं विद्वान् व्रात्योपरिमिता रात्रिरतिथिर्गृहे वसति ।य एवापरिमिता: एवैनेन पुण्या लोकान् तेनाव रुन्द्धे ॥५॥४०यस्याव्रात्यो व्रात्यब्रुवो नाम बिभ्रती गृहानतिथिरागच्छेत् ।कर्षेदेनं न चैनं कर्षेत् ॥१॥एतस्यै देवताया उदकं याचामीत्यस्मा उदकं याचेत् ।एतां देवतां परिवेवेष्मीत्येनं परि वेविष्यात् ॥२॥एतस्यामेवास्य तद् देवतायां हुतमिष्टं भवति य एवं वेद ॥३॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP