संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|महत् काण्डनाम अष्टादशकाण्ड:| ५१ ते ५५ महत् काण्डनाम अष्टादशकाण्ड: १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८२ अष्टादशकाण्ड: - ५१ ते ५५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ५१ ते ५५ Translation - भाषांतर ५१एवानेवाव सा गरत् !असौ मां द्वेष्टि स आत्मानं द्वेष्टु यो ऽस्मान् द्वेष्टि तमात्मा द्वेष्टु ॥१॥निर्द्विषन्तं दिवो निष्पृथिव्या निरन्तरिक्षात् भजाम। सुयामंश्चाक्षुष ॥२॥इदमहममुमामुष्यायणेमुष्या: पुत्रे दुष्वप्न्यादव दये ।यददोअदो अभ्यगच्छन् यद् दोषा यत्पूर्वाङ् रात्रिम् ।यद् दिवा यन्नक्तं यज्जाग्रतो यत् स्वपन्तः ॥३॥यदहरह: दुष्वप्न्यमभिगच्छामि तस्मादेनमव दये ।तं जहि तेन मन्दस्व तस्य पृष्ठीरपि शुणीहि तं प्राणो जहातु ।स वि प्राणो अस्तु स प्र मीयतां सततो मा जीवीत् ॥४ ॥जीवित्५२जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम् ॥तु. शौनकीय संहिता १६.१तस्मान्निर्भजामोमुमामुष्यायणममुष्या: पुत्रम् ।स ग्राह्या: पाशान्मा मोचि॥तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमन्तमो गमयामि ॥१॥जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकंस्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।तस्मान्निर्भजामोमुमामुष्यायणममुष्या: पुत्रम् ।स निर्ऋत्या: पाशान्मा मोचि ।तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥२॥जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकंस्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।सोभूत्या: पाशान्मा मोचि ।तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥३॥जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकंस्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।स निर्भूत्या: पाशान्मा मोचि ।तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥४॥जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकंस्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।स पराभूत्याः पाशान्मा मोचि ।तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥५॥जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकंस्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।स देवयामीनां पाशानमा मोचि ।तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥६॥जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकंस्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।स ऋषीणां पाशान्मा मोचि॥तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥७॥स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।स आर्षेयाणां पाशान्मा मोचि॥तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥८॥जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।तस्मान्निर्भजामोमुमामुष्यायणममुष्या: पुत्रम् ।सो ऽङ्गिरसां पाशान्मा मोचि ।तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥९॥जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।स आङ्गिरसानां पाशान्मा मोचि ।तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥१०॥जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माक ब्रह्मास्माकं स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम् ।तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।स अथर्वणां पाशान्मा मोचि॥तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥११॥जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।स आथर्वणानां पाशान्मा मोचि॥तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥१२॥जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।तस्मान्निर्भजामोमुमामुष्यायणममुष्या: पुत्रम् ।स ऋतूनां पाशान्मा मोचि॥तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥१३॥जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकंस्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।स आर्तवानां पाशान्मा मोचि॥तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥१४॥जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकंस्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्॥तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।स ओषधीनां पाशान्मा मोचि॥तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥१५॥जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकंस्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम्॥स वीरुधां पाशान्मा मोचि । तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥१६॥जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकंस्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम्।स वनस्पतीनां पाशान्मा मोचि ।तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥१७॥जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकंस्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।तस्मान्निर्भजामीमुमामुष्यायणममुष्या: पुत्रम्॥स वानस्पत्यानां पाशान्मा मोचि !तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥१८॥जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकंस्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।स इदावत्सरस्य पाशान्मा मोचि ।तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥१९॥जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकंस्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।तस्मान्निर्भजामोमुमामुष्यायणममुष्या: पुत्रम् ।स परिवत्सरस्य पाशान्मा मोचि ।तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥२०॥जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकंस्वरस्माकं यज्ञोऽस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।तस्मान्निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रम् ।स संवत्सरस्य पाशान्मा मोचि॥तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥२१॥जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकंस्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।सोऽहोरात्रयो: पाशान्मा मोचि ।तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥२२॥जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकंस्वरस्माकं यज्ञोऽस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।तस्मान्निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रम् ।सोह्नोः संयतोः पाशान्मा मोचि।तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥२३॥जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकंस्वरस्माकं यज्ञोऽस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।तस्मान्निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रम् ।स इन्द्राग्न्योः पाशान्मा मोचि ।तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥२४॥जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकंस्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम् ।तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।स बृहस्पते: पाशान्मा मोचि ।तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥२५॥जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकंस्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम् ।तस्मान्निर्भजामोमुमामुष्यायणममुष्या: पुत्रम् ।स प्रजापते: पाशान्मा मोचि॥तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥२६॥जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकंस्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्॥तस्मान्निर्भजामोमुमामुष्यायणममुष्या: पुत्रम् ।स परमेष्ठिन: पाशान्मा मोचि ।तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥२७॥जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकंस्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।तस्मान्निर्भजामोमुमामुष्यायणममुष्या: पुत्रम् ।स राज्ञो वरुणस्य पाशान्मा मोचि ।तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥२८॥जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकंस्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।स मृत्यो: पड्बीशात् पाशान्मा मोचि॥तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥२९॥५३जितमस्माकमुद्भिन्नमस्माकमभ्यष्ठां विश्वाः पृतना अराती: स्वरभ्यावर्त्ते।सूर्यस्यावृतमन्वावर्त्ते दक्षिणामन्वावृतम् ॥१॥तदग्निराह तदु सोम आहः पूषा मा धात् सुकृतस्य लोके॥अगन्म स्वः स्वरगन्म सं सूर्यस्य ज्योतिषामागन्म ।वस्योभूयाय वसुमान् यज्ञो वसु वंशिषीय वसुमान् भूयासम् ॥२॥(ड़ति महत् काण्डनाम अष्टादशकाण्डे अष्टमो अनुवाक:)५४विषासहिं सहमानं सासहानं सहीयांसं सहमानं सहोजितम् ।विश्वजितं स्वर्जितमभिजितं वसुजितं गोजितं संजित संधनाजितम ।ईड्यं नाम ह्व इन्द्रमायुष्मान् भूयासम् ॥१॥इड्यंविषासहिं सहमानं सासहानं सहीयांसं सहमानं सहोजितम् ।विश्वजितं स्वर्जितमभिजितं वसुजितं गोजितं संजितं संधनाजितम ।ईडयं नाम ह्व इन्द्रं देवानां प्रियो भूयासम् ॥२॥विषासहिं सहमानं सासहानं सहीयांसं सहमानं सहोजितम ।विश्वजितं स्वर्जितमभिजितं वसुजितं गोजितं संजितं संधनाजितम ।ईड्यं नाम ह्व इन्द्रं प्रजानां प्रियो भूयासम् ॥३॥विषासहिं सहमानं सासहानं सहीयांसं सहमानं सहोजितम ।विश्वजितं स्वर्जितमभिजित वसुजितं गोजित संजितं संधनाजितम ।ईड्यं नाम ह्व इन्द्रं पशूनां प्रिय भूयासम् ॥४॥विषासहिं सहमानं सासहानं सहीयांसं सहमानं सहोजितम ।विश्वजितं स्वर्जितमभिजित वसुजितं गोजित संजितं संधनाजितम ।ईड्यं नाम ह्व इन्द्रं समानानां प्रियं भूयासम् ॥५॥५५उदिद्युदिहि सूर्य वर्चसा माभ्युदिहि ।द्विषंश्च मह्यं रध्यतु मा चाहं द्विषते रधं तवेद् विष्णो बहुधा वीर्याणि।त्वं न: पृणीहि पशुभिर्विश्वरूपै: स्वधायां नो धेहि परमे व्योमन् ॥१॥अदिह्युदिहि सूर्य वर्चसा माभ्युदिहि ।यांश्च पश्यामि यांश्च न तेषु मा सुमतिं कृधि तवेत् विष्णो बहुधा वीर्याणि।त्वं न: पृणीहि पशुभिर्विश्वरूपै: स्वधायां नो धेहि परमे व्योमन् ॥२॥मा त्वा दभन् सलिले अप्स्वन्तर्ये पाशिन उपतिष्ठन्त्यत्र ।हित्वाशस्तिं दिवमारुक्ष एतां स नो मृड सुमतौ ते स्यामतवेद् विष्णो बहुधा वीर्याणि।त्वं नः पृणीहि पशुभिर्विश्वरूपैः स्वधायां नो धेहि परमे व्योमन् ॥३॥त्वं न इन्द्र महते सौभगायादब्धेभि: परि पाह्यक्तुभिस्तवेद् विष्णो बहुधा वीर्याणि ।त्वं न: पृणीहि पशुभिर्विश्वरूपै: स्वधायां नो धेहि परमे व्योमन् ॥४॥त्वं न इन्द्रोतिभिः शिवाभि: शन्तमो भव ।आरोहंस्त्रिदिवं दिवो गृणानः सोमपीतये प्रियधामा स्वस्तये तवेद् विष्णो बहुधा वीर्याणि ।त्वं नः पृणीहि पशुभिर्विश्वरूपैः स्वधायां नो धेहि परमे व्योमन् ॥५॥त्वमिन्द्रासि विश्वजित् सर्ववित् पुरुहूतस्त्वमिन्द्रेमं सुहवं स्तोममेरयस्व।शिवाभिस्तनूभिरभि नः सजस्व तवेद् विष्णो बहुधा वीर्याणि ।त्वं न: पृणीहि पशुभिर्विश्वरूपैः स्वधायां नो धेहि परमे व्योमन् ॥६॥अदब्धो दिवि पृथिव्यामुतासि न त आपुर्महिमानमन्तरिक्षे ।अदब्धेन ब्रह्मणा वावृधानः स त्वं न इन्द्र दिवि षञ्छर्म यच्छ तवेद विष्णो बहुधा वीर्याणि ।त्वं न: पृणीहि पशुभिर्विश्वरूपै: स्वधायां नो धेहि परमे व्योमन् ॥७॥या त इन्द्र तनूरप्स्वन्तर्यान्तरग्नौ या पृथिव्यां या त इन्द्र पवमाने स्वर्विदि।ययेन्द्र तन्वा ऽन्तरिक्षं समापिथ तया त इन्द्र तन्वा सं शिसाधि तवेद् विष्णो बहुधा वीर्याणि ।त्वं न: पृणीहि पशुभिर्विश्वरूपै: स्वधायां नो धेहि परमे व्योमन् ॥८॥त्वामिन्द्र ब्रह्मणा वर्धयन्त: सत्त्रं नि षेदुर्ऋषयो नाधमानास्तवेद् विष्णो बहुधा वीर्याणि ।त्वं न: पृणीहि पशुभिर्विश्वरूपै: स्वधायां नो धेहि परमे व्योमन्॥९॥ऋतस्य पन्थामन्वेषि विद्यांस्तमिमा विश्वा भुवनानु तिष्ठसि तवेद् विष्णो बहुधा वीर्याणि ।त्वं नः पृणीहि पशुभिर्विश्वरूपै: स्वधायां नो धेहि परमे व्योमन् ॥१०॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP