संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|महत् काण्डनाम अष्टादशकाण्ड:| १६ ते २० महत् काण्डनाम अष्टादशकाण्ड: १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८२ अष्टादशकाण्ड: - १६ ते २० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता १६ ते २० Translation - भाषांतर १६ऊर्ध्वो रोहितो अधिनाके अस्थाद् विश्वारूपाणि जयनन् युवा कवि:।तिग्मेनाग्निर्ज्योतिषा वि भाति तृतीये चक्रे रजसि प्रियाणि ॥१॥सहस्रशृङ्गो वृषभो जातवेदा घृताहुत: सोमपृष्ठ: सुवीर: ।मा मा हासीन्नाथितो नेत्वा जहानि गोपोषं च मे वीरपोषं च धेहि ॥२॥रोहितो यज्ञस्य जनिता मुखं च रोहिताय वाचा श्रोत्रेण मनसा जुहोमि।रोहितं देवा यन्ति सुमनस्यमाना: स मा रोहैः सामित्यै रोहयाति ॥३॥रोहितो यज्ञं व्यदधाद् विश्वकर्मणे तस्मात् तेजांस्युप मेमान्यागुः ।वोचेयं ते नाभिं भुवनस्याधि मज्मनि ॥४॥(पा. मज्मानि)आ त्वा रुरोह बृहत्युत पङ्क्तिरा ककुद् वर्चसा विश्ववेदः ।आ त्वारुरोहोष्णिहाक्षरो वषट्कार आ त्वा रुरोह रोहित रेतसा सह ॥५॥अयं वस्ते गर्भं पृथिव्यां दिवं वस्तेयमन्तरिक्षम् ।अयं ब्रध्नस्य विष्टप: स्वलौंकान् समानशे ॥६॥वाचस्पते पृथिवी नः स्योना योनिस्तल्पा सुशेवा ।इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्यग्निर्वर्चसा दधातु ॥७॥वाचस्पत ऋतवः पञ्च ये नौ वैश्वकर्मणा परि ये बभूवुः ।इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् परि रोहित वर्चसा दधातु ॥८॥वाचस्पते सौमनसं मनश्च गोष्ठे नो गा रमय योनिषु प्रजाम् ।इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्यहं वर्चसा दधामि ॥९॥परि त्वा धात् सविता देवो अग्निर्वर्चसा मित्रावरुणावभि त्वा ।सर्वा अरातीरपक्रामन्नेहीदं राष्ट्रं कृणुहि सूनृतावत् ॥१०॥१७यं त्वा पृषती रथे प्रष्टिर्वहति रोहित । शुभा यासि रिणन्नप: ।तेनेमं ब्रह्मणस्पते रोहं रोहयोत्तमम् ॥१॥अनुव्रता रोहिणी रोहितस्य सूरि: सुवर्णा बृहती सुवर्चा: ।त्वया वाजान् विश्वरूपां जयेम तया विश्वा: पृतना अभि ष्याम ॥२॥इदं सदो रोहिणी रोहितस्यासौ पन्थाः पृषती येन याति।तां गन्धर्वा: कश्यपा उन्नयन्ति तां रक्षन्ति कवयो ऽप्रमादम् ॥३॥सूर्यस्याश्वा हरयः केतुमन्तः सदा वहन्त्यमृता: सुखं रथम् ।घृतपावा रोहितो भ्राजमानो दिवं देव: पृषतीमा विवेश १ ॥४॥यो रोहितो वृषभस्तिग्मशृङ्ग: पर्यग्निं परि सूर्यं बभूव ।यो विष्टभ्नाति पृथिवीं दिवं च तस्माद् देवा अधि सृष्टीः सृजन्ते ॥५॥रोहितो दिवमारुहन् महत: पर्यर्णवात् । सर्वा रुरोह रोहितो रुह: ॥६॥वि मिमीष्व पयस्वतीं घृताचीं देवानां धेनुरनपस्पृगेषा ।इन्द्रः सोमं पिबतु क्षेमो अस्त्वग्निः प्र स्तौतु वि मृधो नुदस्व ॥७॥समिद्धो अग्निः समिधानो घृतोवृद्धो घृताहुतः ।अभिषाड् विश्वाषाडग्नि: सपत्नान् हन्तु ये मम ॥८॥हन्त्वेनान् प्र दहत्वरिर्यो नः पृतन्यति ।अग्ने सपत्नमधरं पादयास्मद् व्यथया सजातमुत्पिपानं बृहस्पते ।इन्द्राग्नी मित्रावरुणावधरे पद्यन्तामप्रतिमन्यूयमानाः ॥१०॥(पा. पद्यन्तामप्रतिमन्युयमानाः)१८अवाचीनानव जहीन्द्र वज्रेण बाहुमान् ।अधा सपत्नान मामकानग्नेस्तेजोभिरादधे ॥१॥उद्यस्त्वं देव सूर्य सपत्नान् मे धरां कृणु ।अवैनानश्मना जहि ते यन्त्वधमं तमः ॥२॥वत्सो विराजो वृषभो मतीनामा रुरोह शुक्रपृष्ठोऽन्तरिक्षम् ।घृतेनार्कमभ्यर्चन्ति वत्सं ब्रह्म सन्तं ब्रह्मणा वर्धयन्तु ॥३॥दिवं च रोह पृथिवीं च रोह राष्ट्रं च रोह द्रविणं च रोह ।प्रजां च रोहामृतं च रोह रोहितेन तन्वं सं स्पृशस्व ॥४॥ये देवा राष्ट्रभृतो अभितो यन्ति सूर्यम् ।तेभिष्टे रोहितः संविदानो राष्ट्रं दधातु सुमनस्यमान: ॥५॥उत् त्वा यज्ञा ब्रह्मपूता वहन्त्वध्वगतो हरयस्त्वा वहन्तु ।तिरः समुद्रमति रोचसेर्णवम् ॥६॥रोहिते द्यावापृथिवी अधि श्रिते वसुजिति गोजिति संजिति संधनाजिति ।सहस्त्रं यस्य द्रविणानि सप्त च वोचेयं ते नाभिं भुवनस्याधि मज्मनि ॥७॥यशा यासि प्रदिशो अनु यशाः पशूनामुत चर्षणीनाम् ।यशाः पृथिव्या अदित्या उपस्थेहमस्मि सवितेव चारु: ॥८॥अमुत्र सन्निह वेत्थेतः संस्तानि पश्यति ।इत: पश्यन्ति रोचनं दिवि सूर्यं विपश्चितम ॥९॥देवो देवान् मर्चयत्यन्तश्चरत्यर्णवे ।समानमग्निमिन्धते तं विदुः कवयः परे ॥१०॥१९अव: परेण पर एनावरेण पदा वत्सं बिभ्रती गौरुदस्थात् ।सा कद्रीची कं स्विदर्धं परागात् क्व स्वित्सूते नहि यूथे अस्मिन् ॥१॥एकपदी द्विपदी सा चतुष्पद्यष्टापदी नवपदी बभूवुषी ।सहस्राक्षरा भुवनस्य पङक्तिस्तस्याः समुद्रा अधि वि क्षरन्ति ॥२॥आरोहन् द्याममृतः प्राव मे वचः उत् त्वा यज्ञा ब्रह्मपूता वहन्ति ।घृतं पिबन्तं हरयस्त्वा वहन्ति ॥३॥वेद तत् ते अमर्त्य यत् त आक्रमणं दिवि ।यत् ते सधस्थ परमे व्योमन् ॥४॥सूर्यो द्यां सूर्यः पृथिवीं सूर्य आपोऽति पश्यति ।सूर्य भूतस्यैकं चक्षुरा रुरोह दिवं महीम् ॥५॥उर्वीरासन् परिधयो वेदिर्भूमिरकल्पत ।तत्रैतावग्नि आधत्त हिमं घ्रंसं च रोहितः ॥६॥हिमं घ्रंसं चाधाय यूपान् कृत्वा पर्वतान् ।वर्षाज्यावग्नी ईजाते रोहितस्य स्वर्विद: ॥७॥स्वर्विदो रोहितस्य ब्रह्मणाग्नि: समाहितः ।तस्माद् घ्रंसस्तस्माद्धिमस्तस्माद् यज्ञो अजायत ॥८॥ब्रह्मणाग्नि: संविदानो ब्रह्मवृद्धो ब्रह्माहुत: ।ब्रहोद्धावग्नी ईजाते रोहितस्य स्वर्विद: ॥२॥अप्स्वन्य: समाहित: सत्ये अन्यः समाहित: ।ब्रहोद्धावग्नी ईजाते रोहितस्य स्वर्विद: ॥१० ।यं वातोः परि शुम्भति यमिन्द्रो ब्रह्मणस्पति: ।ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥११॥२०वेदिं भूमिं कल्पयित्वा दिवं कृत्वा दक्षिणाम् ।घ्रंसं तदग्निं कृत्वा चकार विश्वमात्मन्वद् वर्षेणाज्येन रोहितः ॥१॥वर्षमाज्यं घ्रंसो अग्निर्वेदिर्भूमिरकल्पत ।तत्रैतान् पर्वताङ् अग्निर्गीर्भिरूर्द्ध्वार्ङ् अकल्पयत् ॥२॥गीर्भिरूर्ध्वान् कल्पयित्वा रोहितो भूमिमब्रवीत्॥त्वदिदं सर्वं जायतां यद् भूतं यच्च भाव्यम् ॥३॥सः यज्ञः प्रथमो भूतो भव्यो अजायत॥तस्माद्ध यज्ञेदं सर्वं यत् किं चेदं विरोचते रोहितेन ऋषिणाभृतम् ॥४॥उदस्य केतवो दिवि शुक्रा भ्राजन्त ईरते ।रश्मिभिर्दिशो आभाति सर्वाः ॥५॥यत् प्राङ् प्रत्यङ् स्वधया यासि शीभं नानारूपे अहनी कर्षि मायया ।तदादित्य महि तत् ते महि श्रवो यदेको विश्वं परि भूम जायसे ॥६॥विपश्चितं तरणिं भ्राजमानं वहन्ति यं हरित: सप्त बह्वी: ।स्रुताद् यमत्त्रिर्दिवमुन्निनाय तं त्वा पश्येम परियान्तमाजिम् ॥७॥मा त्वा दभन् परियान्तमाजिं सुगेन दुर्गमति याहि शीभम् ।दिवं च सूर्य पृथिवीं च देवीमहोरात्रे विमिमानो यदेषि ॥८॥स्वस्ति ते सूर्य चरसे रथाय येनोभावन्तौ परियासि सद्य: ।यं ते वहन्ति हरितो वहिष्ठास्तमारोह सुखमा स्वश्यम् ॥९॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP