संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|महत् काण्डनाम अष्टादशकाण्ड:| २१ ते २५ महत् काण्डनाम अष्टादशकाण्ड: १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८२ अष्टादशकाण्ड: - २१ ते २५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता २१ ते २५ Translation - भाषांतर २१सुखं सूर्य रथमंशुमन्तं स्योनं सुवह्निमधि तिष्ठ वाजिनम् ।यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः ॥१॥सप्त सूर्यो हरितो यातवे रथे हिरण्यत्वचसो बृहतीरयुक्त ।अमोची शुक्रो रजसः परस्ताद् विधूय देवस्तमो दिवमारुहत् ॥२॥उत् केतुना बृहता देव आगन्नपावृक्तमोभि ज्योतिरश्रैत् ।दिव्यः सुपर्णः स वीरो व्यख्यददितेः पुत्रो भुवनानि विश्वा ॥३॥पा. भूवनानिउद्यन् रश्मीना तनूषे प्रजाः सर्वा वि पुष्यसि ।उभा समुद्रैः क्रतुना वि भाति सर्वांल्लोकान् परिभूर्भ्राजमानः ॥४॥पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातो अर्णवम् । पा. शिशुविश्वान्यन्यो भुवना भिवस्ते हैरण्यैरन्य हरितो वहन्ति ॥५॥पा. विचष्टेदिवि त्वात्रिरधारयत् सूर्या मासाय कर्तवे ।स एष: सुघृतस्तपन् विश्वा भूतावचाकशत् ॥६॥पा. बिश्वाउभावन्तौ समर्षति वत्स: संमातराविव ।नन्वेतदितः पुरा ब्रह्म देवा अमी विदुः ॥७॥यत् समुद्रमनु श्रितं तत् सिषासति सूर्यः ।अध्वास्य विततो महान् पूर्वश्चापरश्च यः ॥८॥तं समाप्नोति जूतिभिः स्तस्मानाप चिकित्सति ।तेनामृतस्य भक्षं देवानां नाव रुन्धते ॥९॥उदु त्यं जातवेदसं देवं वहन्ति केतवः ।दृशे विश्वाय सूर्यम् ॥१०॥२२अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः ।सूराय विश्व चक्षसे ॥१॥अदृश्रन्नस्य केतवो वि रश्मयो जनाँङ अनु ।भ्राजन्तो अग्नयो यथा ॥२॥तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्यः ।विश्वमा भासि रोचनः ॥३॥प्रत्यङ् देवानां विशः प्रत्यङडुदेषि मानुषी ।प्रत्यङ् विश्वं स्वर्दृशे ॥४॥येना पावक चक्षषा भुरणयन्तं जनाँङ् अनु ।त्वं वरुण पश्यसि ॥५॥वि द्यामेषि रजस्पृथ्वहर्मिमानो अक्तुभि: ।पश्यन् यन्मानि सूर्य ॥६॥सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।शोचिष्केशं विचक्षणम् ॥७॥अभि वत्सं न धेनव: ॥८॥ता अर्षन्तु शुभ्रियः पृञ्चन्तीर्वर्चसा प्रिय: ।जात जात्रीर्यथा हृदा ॥९॥२३वज्रायेवसाध्य यः कीर्तिं श्रेयमाणमावहान् ।मह्यमायुर्घृतं पय: ॥१॥रोहितो दिवमाक्रमान्त्तपसा तपस्वी ।स योनिमैति स उ जायते पुन: स देवानामधिपतिर्बभूव ॥२॥यो विश्वचर्षणिरुत विश्वतोमुखो विश्वतस्पाणिरुत विश्वतस्पृथ:।सं बाहुभ्यां धमति सं पतत्रैर्द्यावापृथिवी जनयन् देव एक: ॥३॥एकपाद् द्विपदो भूयो वि चक्रमे द्विपात् त्रिपादमभ्येति पश्चात् ।द्विपाद्ध षट्पदो भूयो वि चक्रमे त एकपदस्तन्वं मां समासते ॥४॥अतन्द्रो यास्यन् हरितो यदास्थाद् दिवि रूपं कृणुते रोचमान:।केतुमाङ् उद्यन्सहमानो रजांसि विश्वा आदित्य प्रवतो वि भासि ॥५॥बण्महाड् असि सूर्य बडादित्य महाङ् असि । पा. वण्महाङ्महांस्ते महतो महिम्ना त्वमादित्य महाङ् असि ॥६॥रोचसे दिवि रोचसे अन्तरिक्षे पतङ्ग पृथिव्यां रोचसे रोचसे अप्स्वन्त: ।उभा समुद्रौ रुच्या व्यापिथ देवो देवासि महिषः स्वर्वित् ॥७॥अर्वाङ् परस्तात् वियतो व्यध्व आशुर्विपश्चित् पतयन् पतङ्ग: ।विष्णुर्विचित्त: शवसाधितिष्ठन् प्र केतुना सहते विश्वमेजत् ॥८॥तिग्मो विभ्राजन् तन्वं शिशानोरंगमासः प्रवतो रराणः ।ज्योतिष्मान् पक्षी महिषो वयोधा विश्वा आस्थात् प्रदिशः कल्पमानः ॥९॥चित्रश्चिकित्वान् महिषः सुपर्ण आरोचयन् रोदसी अन्तरिक्षम् ।अहोरात्रे परि सूर्यं वसाने प्रास्य विश्वा तिरतो वीर्याणि ॥१०॥२४चित्रं देवानां केतुरनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन्।दिवाकरो अति द्युम्नैस्तमांसि विश्वातारीद् दुरितानि शुक्रः ॥१॥चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।आप्राङ् द्यावापृथिवी अन्तरिक्षं महित्वा सूर्य आत्मा जगतस्तस्थुषश्च ॥२॥उच्चा पतन्तमरुणं सुपर्णं मध्ये दिवस्तरणिं भ्राजमानम् ।पश्येम त्वा सवितारं यमाहुरजस्रं ज्योतिर्यदविन्ददत्त्रि: ॥३॥दिवस्पृष्ठे धावमानं सुपर्णमदित्याः पुत्रं नाथकाम उप यामि भीत: ।स नः सूर्य प्र तिर दीर्घमायुर्मा रिषाम सुमतौ ते स्याम ॥४॥आहोरात्राणि विदधत् कृण्वानः पार्थिवं रज : | पा. आहोरात्राणिनवं नवं सखीभवं कृणुषे देवसूर्य ॥५॥सहस्राह्वयं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् ।स विश्वान् देवानुरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ॥६॥रोहितो कालो अभवद् रोहितो अग्रे प्रजापतिः ।रोहितो यज्ञानां मुखं रोहितो ज्योतिरुच्यते ॥७॥रोहितो भूतो अभवद् रोहितो भव्यमाभरत् ।रोहितो यज्ञानां मुखं रोहितः स्वराभरत् ॥८॥रोहितः लोको अभवद् रोहितोत्यतपद् दिवम् ।रोहितो रश्मिभिर्भूमिं समुद्रमनु सं चरत् ॥२॥सर्वा दिश: सं चरति रोहितो अधिपतिर्दिव:॥दिवं समुद्रमाद् भूमिं सर्वांल्लोकान् वि रक्षतु ॥१०॥२५बिभर्त्यंशुं प्रति मुञ्जते स्रजो मुहूर्ते रश्मीनंशुं बृहन्तम् । पा. विभर्त्यंशुं, स्त्रजोदिवाकरः पश्यति यत् परात् परं प्राह्नं प्रवृष्मणाद् विश्वमाप्राङ् हिरण्ययो हरित केतुरुद्यन् ॥१॥आरोहन् शुक्रो बृहतीरतन्द्रो मर्त्यः कृणुते वीर्याणि !दिव्यः सुपर्णो महिषो वातरंहा यत् सर्वांल्लोकाङ् अभियद् विभाति ॥२॥अभ्यन्यदेति पर्यन्यदस्यतेहोरात्राभ्यां महिष: कल्पमान: ।सूर्यं वयं रजसि क्षियन्तं गातुविदं हवामहे नाथकामाः ॥३॥पृथिवीप्रो महिषो नाधमानस्य गातुरदब्धचक्षुः परि सर्वं बभूव ।विश्वं संपश्यन् सुविदत्रो यजत्रः शिवायानस्तन्वा शर्म यच्छात् ॥४॥पर्यस्य महिमा पृथिवीं समुद्रं ज्योतिषा विभ्राजन् परि द्यामन्तरिक्षम्।अहोरात्राभ्यां सह संविदान उषा न आयु: प्रतरादाविष्टम् ॥५॥अबोध्याग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् ।यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सिस्रते नाकमच्छ ॥६॥कुमारं माता युवतिर्गर्भमन्तर्गुहा बिभर्त्ति न ददाति पित्रे ।अनीकमस्य न मिनज्जनासः पुर: पश्यन्ति निहितमरतौ ॥७॥तमेतं त्वं युवते कुमारं पेषी बिभर्षि महिषी जजान । पा. विभर्षि, महीषीपूर्वीर्हि गर्भः शरदो ववर्धापश्यं जातं यमसूत माता ॥८॥पूर्विर्हियस्य तिस्रो वित्ति न एकधा सतो यस्मै बलिं देवजना हरन्ति ।तस्यासौ द्यौः पृथिव्यन्तरिक्षं गुहातिष्ठन्ति वसुना समक्ता ॥९॥नव दिवो देवजनेन गुप्ता नवान्तरिक्षाणि नव भूमय इमाः ।यस्मिन्निदं सर्वमोतं प्रोतं यस्मादन्यन् न परं किं चनास्ति ॥१०॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP