संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|महत् काण्डनाम अष्टादशकाण्ड:| ४६ ते ५० महत् काण्डनाम अष्टादशकाण्ड: १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८२ अष्टादशकाण्ड: - ४६ ते ५० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ४६ ते ५० Translation - भाषांतर ४६रुजश्च मा वेनश्च मा हासिष्टामुर्वश्च मा चमसश्चमा हासिष्टां विमोकश्च मार्द्रपविश्च मा हाशिष्टामार्द्रदानुश्चमा मातरिश्वा च मा हासिष्टां मूर्धा च मा विधर्मा चमा हासिष्टां धर्ता च मा धरुणश्च मा हासिष्टांमृधश्च मा वैमृधश्च मा हासिष्टाम् ॥१॥बृहस्पतिर्म आत्मा नृमणा नाम ।हृदयाजरसं मा मा हासीरसंतापं मे हृदयमस्तु ॥२॥उर्वी गव्यूति: समुद्रो अस्मि विधर्मणा ।नाभिरहं रयीणां नाभि: समानानां भूयासम् ॥३॥४७स्वासदसि सूषा अमृतो मर्त्येष्वा ।मा मां प्राणोवहाय परा गान्मा मां अपानोवहाय परा गात् ॥१॥सूर्यो माह्नः पात्वग्निः पृथिव्या वायुरन्तरिक्षाद्यमो मनुष्येभ्य: सरस्वती पार्थिवेभ्य: ।प्राणापानौ मा मा हासिष्टं मा जने प्र मेषि ।स्वस्त्यद्योषसो दोषसश्च सर्व आप: सर्वगणी अशीय ॥२॥४८सु भूरसि रश्मिरस्यायुर्द्धास्यायुर्मयि धेहि ।सु भूरसि रश्मिरसि वर्चोधा असि वर्चो मयि धेहि ॥१॥सु भूरसि रश्मिरसि तेजोधासि तेजो मयि धेहि ।सूर्यो मे वर्चोधा वर्चा दधात्विन्द्रियमसीन्द्रियं मयि धेहि ।वर्चोसि वर्चो मयि धेहि ॥२॥शक्वरी स्थ पशवो मोप स्थेषुर्मित्रावरुणौ मे प्राणापानावग्निर्मे दक्षं दधातु ॥३॥(इति महत् काण्डनामअष्टादाकाण्डे सप्तमो अनुवाक:)४९विद्म ते स्वप्न जनित्रं पाप्मन: पुत्रोसि यमस्य करणः । तु. शौनकीय अथर्ववेदः १६.५.१स नः स्वप्न सुष्वप्न्यात् पाहि ॥१॥विद्म ते स्वप्न जनित्रं ग्राह्या: पुत्रोसि यमस्य करणः ।स नः स्वप्न सुष्वप्न्यात् पाहि ॥२॥ `विद्म ते स्वप्न जनित्रं निर्ऋत्याः पुत्रोसि यमस्य करण: ।स नः स्वप्न सुष्वप्न्यात् पाहि ॥३॥विद्म ते स्वप्न जनित्रं अभूत्या: पुत्रोसि यमस्य करणः ।स नः स्वप्न सुष्वप्न्यात् पाहि ॥४॥विद्म ते स्वप्न जनित्रं निर्भूत्याः पुत्रोसि यमस्य करण: ।स नः स्वप्न सुष्वप्न्यात् पाहि ॥५॥विद्म ते स्वप्न जनित्रं पराभूत्या: पुत्रोसि यमस्य करणः ।स नः स्वप्न सुष्वप्न्यात् पाहि ॥६॥विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रोसि यमस्य करणः ।स नः स्वप्न सुष्वप्न्यात् पाहि ॥७॥५०अजैष्माद्यासनामाद्याभूमानागसो वयम् ।उषो यस्माद् दुष्वप्न्यादभैष्माप तदुच्छतु ॥१॥द्विषते तत् परा वह शपते तत् परा वह ।यं द्विष्मो यच्च नो द्वेष्टि तस्मा एनद् गमयामः ॥२॥उषा देवी वाचा संविदाना वाग्देव्युषसा संविदाना॥उषस्पतिर्वाचस्पतिना संविदानो वाचस्पतिरुषस्पतिना संविदानः ॥३॥ते ऽमुष्मै परा वहन्त्वरायान् दुर्णाम्न: सदान्वारक्षांसि ।कुम्भीका दूषीका: पीयकान् ॥४॥जाग्रद् दुष्वप्न्यं स्वप्न्येदुष्वप्न्यम् ।अनागमिष्यतो वरानवित्तेः संकल्पानमुच्या द्रुहः पाशान् ॥५॥तदमुष्माग्ने परा वहन्तु देवा: वाध्रिर्यथासद् विथुरो न साधुः ।तदस्मै गमयाम इति ॥६॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP