अष्टादशकाण्ड: - ७१ ते ७५

पैप्पलादसंहिता


७१
अकर्म ते स्वपसो अभूम ऋतमवस्रन्नुषसो विभाती: ।
विश्वं तद् भद्रं यदवन्ति देवा बृहद् वदेम विदथे सुवीराः ॥१॥
इन्द्रो मा मरुत्वान् प्राच्या दिश: पातु बाहुच्युता पृथिवी द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ ॥२॥
धाता मा निर्ऋत्या दक्षिणाया दिशः पातु बाहुच्युता पृथिवी द्वामिवोपरि।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ ॥३॥
अदितिर्मादित्यैः प्रतीच्या दिशः पातु बाहुच्युता पृथिवीं द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ ॥४॥
आदित्योर्मादित्यै विश्वैर्देवैरुदीच्या दिशः पातु बाहुच्युता पृथिवीं द्यामिवोपरि। रुदिच्या
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ ॥५॥
धर्ता ह त्वा धरुणो धारयाता ऊर्ध्वं भानुं सविता द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ ॥६॥
प्राच्यां त्वा दिशि पुरा संवृत: स्वधायामा दधामि बाहुच्युता पृथिवी दृद्यामिवोपरि।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ ॥७॥
दक्षिणायां त्वा दिशि पुरा संवृत: स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ ॥८॥
प्रतीच्यां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ ॥९॥
उदीच्यां त्वा दिशि पुरा संवृत: स्वधायामादधामि बाहुच्युता पृथिवी द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ ॥१०॥

७२
ध्रुवायां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ ॥१॥
ऊर्ध्वायां त्वा दिशि पुरा संवृत: स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ ॥२॥
ध्रुवोसि धरुणोसि वंसगोसि । धृवोसि बंसगोसि
उदपूरसि घृतपूरसि ऋतपूरसि मधुपूरसि वातपूरसि ॥३॥

७३
इतश्च मामुतश्चावतां यमे इव यतमाने यदैतम् ।
प्र वां भरन् मानुषा देवयन्त: ॥१॥
आ सीदतां स्वमु लोकं विदाने स्वासस्थे भवतमिन्दवे न:।
युजे वां ब्रह्म पूर्व्यं नमोभिर्वि श्लोक एति पथ्येव सूरे: ॥२॥
शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ।
त्रीणि पदानि रुपो अन्वरोहं चतुष्पदीमन्वेमि व्रतेन । न्वेमी
अक्षरेण प्रति मिमीते अर्कमृतस्य नाभावभि सं पुनामि ॥३॥
देवेभ्यः कमवृणीत मृत्युं प्रजायै कममृतं नावृणीत ।
बृहस्पतिर्यज्ञमकृण्वत ऋषिः प्रियां यमस्तन्वं प्रारिरेच ॥४॥
त्वमग्न ईळितो जातवेदो ऽवाड्ढव्याणि सुरभीणि कृत्वा ।
प्रादा: पितृभ्य: स्वधया ते अक्षनद्धि त्वं देव प्रयता हवींषी ॥५॥ .
आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्त्याय ।
पुत्रेभ्य: पितरस्तस्य वस्वः प्र यच्छत त इहोर्जं दधात ॥६॥
अग्निष्वात्ताः पितर एह गच्छत सद:सद सदत सुप्रणीतयः ।
अत्तो हवींषि प्रयतानि बर्हिषि रयिं च न: सर्ववीरं दधात ॥७॥
त आ गमन्तु त इह श्रुवन्त्वधि बुवन्तु तेवन्त्वस्मान् ॥८॥
ये न: पूर्वे पितर: सोम्यासो अनूजहिरे सोमपीथं वसिष्ठा:।
तेभिर्यमः संरराणो हवींष्युशन्नुशद्भिः प्रतिकाममत्तु ॥९॥
ये तातृषुर्देवत्रा जेहमाना होत्राविद स्तोमतष्टासो अर्कैः ।
आग्ने याहि सुविदत्रेभिरर्वाङ् सत्यै: कव्यैः पितृभिर्घर्मसद्भिः ॥१०॥

७४
ये सत्यास्यो हविरदो हविष्पा इन्द्रेण देवैः सरथं दधानाः ।
अग्ने याहि सहस्रं देववन्दैः परै: पूर्वैः पितृभिर्घर्मसद्भि: ॥१॥
उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम् ।
ऊर्णम्रदा पृथिवी दक्षिणावत एषा त्वा पातु निर्ऋतेरुपस्थात् ॥२॥
उच्छवञ्चस्व पृथिवी मा नि बाधथाः सूपायनास्मै भव सूपवञ्चना ।
माता पुत्रं यथा सिचा ऽभ्येनं भूम ऊर्णुहि ॥३॥
उच्छवञ्चमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम् ।
ते गृहासो घृतश्चुतः स्योना विश्वाहास्मै शरणाः सन्त्वत्र ॥४॥
उत् ते स्तभ्नाति पृथिवीं त्वत् परीमं लोगं निदधन्मो अहं रिषम्।
एतां स्थूणां पितरो धारयन्त्यत्रा यमः सादना ते कृणोतु ॥५॥
अथर्वा पूर्णं चमसं यमिन्द्रायाबिभर्वाजिनीवते ।
तस्मिन् कृणोतु सुकृतस्य भक्षं तस्मिन्निन्दुः पवते विश्वदानीम् ॥६॥
अमुमग्ने चमसं मा वि जिह्वरः प्रियो देवानामुत सोम्यानाम् ।
एष यश्चमसो देवपानस्तस्मिन् देवा अमृता मादयन्ते ॥७॥
यत् ते कृष्ण: शकुन आतुतोद पिपील: सर्प उत वा श्वापद: ।
अग्निष्टद् विश्वादापृणातु विद्वान् सोमश्च यो ब्राह्मणाङ् आविवेश ॥८॥
पयस्वतीरोषधय: पयस्वन्मामकं पय: ।
अथो पयस्वदित् पयस्तेन मा सह जिन्वथ ॥९॥
इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं विशन्तु ।
अनश्रवो अनमीवा: सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥१०॥

७५
सं गच्छस्व पितृभि: संविदानेष्टापूर्तेन परमे व्योमन् ।
हित्वावद्यं पुनरस्तमेहि सं गच्छस्व तन्वा सुवर्चाः ॥१॥
ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिव: स्वधया मादयन्ते ।
तेभ्य: स्वराडसुनितिमेतां यथावशं तन्व: कल्पयाति ॥२॥
आ रभस्व जातवेदस्तेजस्वद्धरो अस्तु ते ।
शरीरमस्य सं दहाथैनं थेहि सुकृतामु लोके ॥३॥
पुनर्देहि वनस्पते य एष निहितस्त्वयि ।
यथा यमस्य सादन आसातै विदथा वदन् ॥४॥
शं ते निहारो भवतु शं ते प्रुष्वाव शीयताम् ।
शीतिके शीतिकावति ह्लादिके ह्लादिकावति ।
मण्डूक्याप्सु शं भुव इमं स्वग्निं शमय ॥५॥
विवस्वान् नो अभयं कृणोतु परैतु मृत्युरमृतं न ऐतु ।
इहेमे वीरा बहवो भवन्त्वश्वन् गोमन्मय्यस्तु पुष्टम् ॥६॥
विवस्वान् नो अमृतत्वे दधातु यः सुत्रामा जीरदानुः सुदानुः । जिर
इमान् रक्षः पुरूषाना जरिम्णो मो ष्वेषामसवो यमं गुः ॥७॥
यो दध्रे अन्तरिक्षे न मह्ना पितृणां कवि: प्रमतिर्मतीनाम् ।
तमर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात् ॥८॥
आ रोहत दिवमुत्तमामृषयो मा बिभीतन ।
सोमपाः सोमपायिन इदं वः क्रियते हविरगन्म ज्योतिरुत्तमम् ॥९॥
प्र केतुना बृहता भात्यग्निरा रोदसी वृषभो रोरवीति ।
दिवश्चिदन्ताङ् उपमुदानडपामुपस्थे महिषो ववर्ध ॥१०॥
नाके सुपर्णमुप यत् पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा ।
हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् ॥११॥
इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।
शिक्षा णो अस्मिन् पुरुहूत वाजिनि जीवा ज्योतिरशीमहि ॥१२॥
ये ते पूर्व परागता अपरे पितरश्व ये ।
तेभ्यो घृतस्य कुल्यैतु शतधारा व्युन्दती ॥१३॥
(ढ्रति महत्कण्डनाम अष्टादशाकाण्डे एकादशोऽनुवाकः)

N/A

References : N/A
Last Updated : May 13, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP