संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|महत् काण्डनाम अष्टादशकाण्ड:| १ ते ५ महत् काण्डनाम अष्टादशकाण्ड: १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८२ अष्टादशकाण्ड: - १ ते ५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता १ ते ५ Translation - भाषांतर १सत्येनोत्तभिता भूमि: सूर्येणोत्तभिता द्यौः ।ऋतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि श्रितः ॥१॥सोमेनादित्या बलिन: सोमेन पृथिवी मही ।अथो नक्षत्राणामेषामुपस्थे सोम आहित: ॥२॥सोमं मन्यते पपिवान् यत् संपिंषन्त्योषधिम् ।सोमं यं ब्रह्माणो विदुर्न तस्याश्नाति पार्थिवः ॥३॥आच्छद्विधानैर्गुपितो बार्हतैः सोम रक्षित: ।ग्राव्णामिच्छृण्वन् तिष्ठसि न ते अश्नाति पार्थिवः ॥४॥चित्तिरावत् उपबर्हणं चक्षुरावदभ्यञ्जनम् ।द्यौर्भूमि: कोश आसीद्यदयात् सूर्या पतिम् ॥५॥रैभ्यासीदनुदेयी नाराशंसी न्योचनी ।सूर्याया भद्रमिद् वासो गाथयैति परिष्कृता ॥६॥स्तोमा आसन् प्रतिधयः कुरीरं छन्द ओपशः ।सूर्याया अश्विना वराग्निरासीत् पुरोगवः ॥७॥सोमो वधूयुरभवदश्विनास्तामुभा वरा ।सूर्या यत् पत्ये शंसन्तीं मनसा सविताददात् ॥८॥मनो अस्या अन आसीद् द्यौरासीदुत च्छदिः ।शुक्रावनड्वाहावास्तां यदयात् सूर्या पतिम् ॥९॥ऋक्सामाभ्यामभिहितौ गावौ ते सामनावैताम् ।श्रोत्रे ते चक्रे आस्तां दिवि पन्थाश्चराचर: ॥१०॥२शुची ते चक्रे यात्या व्यानो अक्ष आहत: ।अनो मनस्मयं सूर्यारोहत् प्रयती पतिम् ॥१॥सूर्याया वहतुः प्रागात् सविता यमवासृजत् ।मघासु हन्यन्ते गावः फल्गुनीषु व्युह्यते ॥२॥यदश्विना पृच्छमानावयातं त्रिचक्रेण वहतुं सूर्यायाः ।क्वैकं चक्रं वामासीत् क्व देष्ट्राय तस्थथुः ॥३॥यदयातं शुभस्पती वरेयं सूर्यामुप ।विश्वे देवा अनु तद् वामजानन्पुत्रः पितराववृणीत पूषा ॥४॥द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः ।अथैकं चक्रं यद् गुहा तदद्धातय इद् विदुः ॥५॥प्र त्वा मुञ्चामि वरुणस्य पाशाद् येन त्वाबध्नात् सविता सुशेवाः ।ऋतस्य योनौ सुकृतस्य लोके स्योनं ते अस्तु सहपत्न्यै वधु ॥६॥अर्यमणं यजामहे सुबन्धुं पतिवेदनम् ।उर्वारुकमिव बन्धनादितो मुञ्चन्तु मामुतः ॥७॥प्रेतो मुञ्चन्तु मामुत: सुबद्धाममुतस्करत्।यथेयमिन्द्र मीढ्वः सुपुत्रा सुभगासति ॥८॥भगस्त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन ।गृहान् गच्छ गृहपत्नी यथासो वशिनी त्वं विदथमा वदासि ॥९॥इह प्रियं प्रजायै ते समृध्यतामस्मिन् गृहे गार्हपत्याय जागृहि ।एना पत्या तन्वं सं स्पृशस्वाथ जिर्विर्विदथमा वदासि ॥१o ।३इहैव स्तं मा वि यौष्टं दीर्घमायुर्व्यश्नुतम् ।क्रीड़न्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वे गृहे ॥१॥पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातो अध्वरम् ।विश्वान्यन्यो भुवना विचष्टे ऋतूँरन्यो विदधज्जायते नवः ॥२॥नवोनवो भवति जायमानोह्नां केतुरुषसामेत्यग्रम् ।भागं देवेभ्यो वि दधात्यायन् प्र चन्द्रमास्तिरते दीर्घमायुः ॥३॥परा देहि शामुल्यं ब्रह्मभ्यो वि भजा वसु।कृत्यैषा पद्वती भूत्वा जाया विशते पतिम् ॥४॥नीललोहितं भवति कृत्यासक्तिर्व्यज्यते ।एधन्ते अस्या ज्ञातय: पतिर्बन्धेषु बध्यते ॥५॥अश्लीला तनूर्भवति रुशती पापयामुया ।पतिर्यद् वध्वो वाससः स्वमङ्गमभ्यूर्णुते ॥६॥आशसनं विशसनमथो अधिविकर्तनम् ।सूर्यायाः पश्य रूपाणि तानि ब्रह्मोत शुन्धति ॥७॥तृष्टमेतत् कटुकमपाष्ठवद् विषवन्नैतदत्तवे ।सूर्यां यो ब्रह्मा वेद स इद् वाधूयमर्हति ॥८॥स वै तत् स्योनं हरति ब्रह्मा वासः सुमङ्गलम् ।प्रायश्चित्तिं यो अध्येति येन जाया न रिष्यति ॥९॥युवं भगं सं भरतः समृद्धमृतं वदन्तावृतोद्येन ।ब्रह्मणस्पते पतिमस्यै रोचयामुं चारु संभलो वदतु वाचमेताम् ॥१०॥४इहेदसाथ न परो गमाथेमं गाव: प्रजया वर्धयाथ । तु. शौनक संहिता १४.१.३२शुभं यतीरुस्त्रिया: सोमवर्चसो विश्वे देवा:क्रन्निह वो मनांसि ॥१॥इमं गावः प्रजया सं विशध्वमयं देवानां न मिनाति भागम् ।अस्मै वः पूषा मरुतश्च सर्वे अस्मै व धाता सविता सुवाति ॥२॥अनृक्षरा ऋजवः सन्तु पन्थानो येभिः सखायो यन्ति नो वरेयम् ।सं भगेन समर्यम्णा सं धाता सृजतु वर्चसा नः ॥३॥येन महानघ्न्या जघनमश्विना येन वा सुरा ।येनाक्षा अभ्यषिञ्चन्त तेनेमां वर्चसावतम् ॥४॥यद् वर्चो अक्षेषु सुरायां च यदाहितम् ।यद् गोष्वश्विना वर्चस्तेनेमां वर्चसावतम् ॥५॥यो अनिध्मो दीदायाप्स्वन्तर्यं विप्रास ईडते अध्वरेषु ।अपां नपान् मधुमतीरपो दा याभिरिंद्रो वावृधे वीर्यावान् ॥६॥इदमहं रुशन्तं ग्राभं तनूदूषिमपि नुदामि ।य: शिवो भद्रो रोचनस्तमुदचामि ॥७॥आस्यै हरन्तु स्रपनीर्ब्राह्मणा अवीरघ्नीरुदजन्त्वाप: ।अर्यम्णो अग्निं पर्येतु क्षिप्रं प्रतीक्षन्ते श्वशुरा देवरश्च ॥८॥शं ते हिरण्यं शमु सन्त्वापः शं मेथिर्भवतु शं युगस्य तर्द्म ।शं त आप: शतपवित्रा भवन्तु शं पत्या तन्वं सं स्पृशस्व ॥९॥यथा सिन्धुर्नदीनां साम्राज्यं सुषुवे वृषा ।एवा त्वं साम्राज्ञेधि पत्युरस्तं परेत्य ॥१०॥५सम्राज्ञेधि श्वशुरेषु सम्राज्ञुत श्वश्रुवाम् ।ननान्दु: सम्राज्ञेधि सम्राज्ञुत देवृषु ॥१॥या अकृन्तन्वयन् याश्च तत्निरे या देवीरन्ताँ अभितोददन्त।तास्त्वा जरसे सं व्ययन्त्वायुष्मतीदं परि धत्स्व वासः ॥२॥जीवं रुदन्ति वि नयन्त्यध्वरं दीर्घामनु प्रसिर्ति दीध्युर्नर:।वामं पितृभ्यो य इदं समरिरे मय: पतिभ्यो जनये परिष्वजे ॥३॥ध्रुवं स्योनं प्रजायै ते धारयाम्यश्मानं देव्याः पृथिव्या उपस्थे ।तमा रोहानुमाद्या सुवीरा दीर्घं त आयुः सविता कृणोतु ॥४॥देवस्ते सविता हस्तं गृह्णातु सोमो राजा सुप्रजसं कृणोतु ।अग्निः सुभगां जातवेदा: पत्ये पत्नीं जरदष्टिं कृणोतु ॥५॥गृह्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथास: ।भगो अर्यमा सविता पुरंधिर्मह्यं त्वादुर्गार्हपत्याय देवाः ॥६॥येनाग्निरस्या भूम्या हस्तं जग्राह दक्षिणम् ।तेन गृह्णामि ते हस्तं मा व्यथिष्ठा मया सह ॥॥७॥धाता ते हस्तमग्रहीत् सविता हस्तमग्रहीत् ।भगस्ते हस्तमग्रहीदर्यमा हस्तमग्रहीत् ।पत्नी त्वमसि धर्मणाहं गृहपतिस्तव ॥८॥ममेयमस्तु पोष्या मह्यं त्वादाद् बृहस्पतिः ।मया पत्या प्रजावति सं जीव शरदः शतम् ॥९॥त्वष्टा वासो व्यदधाच्छुभे कं बृहस्पते: प्रशिषा कवीनाम् ।तेनेमां नारीं सविता भगश्च सूर्यामिव परि धत्तां प्रजया ॥१०॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP