संस्कृत सूची|संस्कृत साहित्य|संहिता|प्रकाशसंहिता|प्रथमपरिच्छेदः| चतुर्दशोऽध्यायः प्रथमपरिच्छेदः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः प्रथमपरिच्छेदः - चतुर्दशोऽध्यायः प्रकाशसंहिता Tags : prakasha samhitasamhitaप्रकाश संहितासंहिता चतुर्दशोऽध्यायः Translation - भाषांतर श्रीहंस उवाचभूमेरधस्तादतलो वितलः सुतलस्ततः ।अयुतोन्नाहविस्तारस्तलातलमहातलौ ॥१॥रसातलश्च पातालह्येतस्माद्युत्तरोह्यधः ।द्विसहस्रोरु भूकन्दास्त्वन्तरन्तर्भिलोपमाः ॥२॥महामणिप्रकाशेता सूर्यादिग्रहवर्जिताः ।मेरुरुत्तरस्तेषां मार्गः सर्वत्र संमतः ॥३॥तेषु सर्वेषु कल्परूहतुल्याश्च पादपाः ।कामधेनुसमागावः चिन्तामणि समाः शिलाः ॥४॥तत्रत्यानां यथायोग्यं सतामप्यसतां फलं ।यच्छन्ति स्वच्छसलिलं चापि तत्तद्गतं शुभं ॥५॥न तत्रायासतः सौख्यं अनायासात्सुखावहः ।भुज्योपयुक्तानन्तोरु वस्तुजालसमाकुलः ॥६॥यावत्काम्य शुभन्तावदायुषष्यमसतामधः ।भूमौ भारतगा ये च कृते लक्षायुषः स्मृताः ॥७॥त्रेतादिषु त्रिषु दशांशन्यूनायुर्मितानराः ।आधिव्याधिजरावार्धिक्यायासेत्यभिधादयः ॥८॥युगायुर्नियमात्कालमृत्यवस्तत्र नैव हि ।तत्रस्थयोः सदसतोर्भक्तिद्वेषौ विना क्वचिथ् ॥९॥तथा विधिनिषेधौ च न च वर्णाश्रमादयः ।न तत्र कर्मज्ञानादिः पूर्वकर्मभुजोऽ(जौ)खिलाः ॥१०॥प्रायस्यांशास्तदुत्पन्नाः भूमौ जाता विधीशयोः ।वरैःसुरद्विषो विष्णुवायुभ्यामवतारकैः ॥११॥तयोर्मृताः पुनः पूर्वस्थाने प्रारब्धकाम्यके ।शुभं भुञ्जन्ति निष्काम्यशुभं तेषां न वै क्वचिथ् ॥१२॥काम्यपापान्नारकिनो निष्कामाशुभतस्तनूः ।इच्छन्तोन्तश्चरादैत्यानिरंशाभारतार्जितान् ॥१३॥काम्यात्तेषु वसन्ति स्म दानवाश्रयभूतयः ।सदा शेषादिकस्तत्र वसन्ति सति कारणे ॥१४॥हरीच्छया सुरास्तत्र वसन्तः कर्मतो न हि ।एते हि लक्षभूकन्दमध्ये लोकास्ततोह्यधः ॥१५॥पाताले नरकाश्चाष्टाविंशत्संख्या हरेः कृताः ।तदधस्तात्पञ्चविंशत्कोटिगर्भाम्बुनिर्मलं ॥१६॥लक्षोनं यत्र लक्ष्मीशो यादोरूपी विराजते ।सहस्रमूर्ध्नः फणिनस्त्वेकस्मिन्मस्तके तदा ॥१७॥सर्षपायति वै विश्वं निखिलं वारुणीपतेः ।धराखिलेयं सद्वीपा स सागरकुलाचला ॥१८॥तस्याश्रयोवायुकूर्मः तस्य कूर्माकृतिर्हरिः॥तं धत्ते जलमध्यस्था शक्तिराधाररूपिणी ॥१९॥सङ्कर्षणनृसिंहात्मा सहस्रा(संहर्ता)नन्त नामकः ।तदधस्ताच्चमण्डूको वराहस्तदधस्तटी ॥२०॥तमण्डखर्परस्पृष्टा पादमाहुरधस्तले ।तेषामुपरि भूलोकस्तन्मध्ये मेरुभूधरः ॥२१॥स कञ्जनाभनाभ्युत्थ पद्मनाभबिसाकृतिः ।मेरुमध्योत्थनालोयमूर्ध्वषट्कञ्जसंश्रयः ॥२२॥शतयोजनविस्तीर्णं सत्यलोकान्तदीर्घवान् ।वज्रातिसुधृढो गर्भछिद्रं तेने प्रकाशवान् ॥२३॥लक्षोन्नतस्थलो भूम्याः भुवर्लोकस्तदाश्रयः ।मणिहेमामयो लक्षभूकनन्दो लोकसुन्दरः ॥२४॥सप्तप्राकारकलितः नाना भोगोरुयोगिभिः ।जडैरर्थेःसत्वगुणप्राचुर्यैः विशदालयैः ॥२५॥भूमेः कोट्युन्नतस्वर्गलोकोरम्योऽतिवर्तुलः ।कोटियोजनविस्तारे भुवर्लोकवदेव सः ॥२६॥द्विलक्षभूकन्दयुक्तो मेरुनालमुपागतः ।मणिहेममयोत्तुङ्ग सप्तप्राकारभासुरः ॥२७॥दशयोजनविस्ताराः चतुरस्रासुवीथयः ।यत्रानेकपताकाश्च दर्पणानेकसङ्कुलाः ॥२८॥मणिशय्यासनानन्तसात्विकोचितसाधनैः ।पूर्वपुण्यसुवर्णश्रीराज(न्म)मन्दिरमण्डिताः ॥२९॥नानोद्यानाष्टदिक्पालनिलयाष्टकभासुराः ।मध्येमणिगणभ्राजद्विष्णुमन्दिरमण्डपः ॥३०॥सर्वायुधरथाकीर्णचिन्तामण्यादि सङ्कुलैः ।मुक्तामणिसृजोपेत सर्वाभरणसन्तताः ॥३१॥दिव्यवस्त्रान्नदानेकपारिजातादि सङ्कुलाः ।अष्टाविंशत्पुरद्वारतोरणाट्टालगोपुराः ॥३२॥हर्म्यायुतवृतानेकगृहद्वर्याश्रितापगाः ॥मन्दाकिनी मणिमया(त्कल्प)तुल्यरूपाम्बुजाश्रया ॥३३॥परिघारूपतो यत्र भाति यादोगणान्विता ।सुशब्दस्पर्शरूपेतः सुरसो(स्ये)ति सुगन्धवान् ॥३४॥मर्त्यदेवासुरैर्भोग्य पृथगर्थ समाकुलाः ।भुवर्लोकस्त्वधोलोकः गुणैःशतगणोत्तरः ॥३५॥ततः दशगुणोद्रिक्ताः लोकाः स्वर्गादयः क्रमात् ।तथा च तत्तलोकस्थं सुरोपसुरसन्ततः ॥३६॥अधिकारिकसन्मर्त्यगन्धर्वाद्यल्पचेतसां ।यथायोग्य फलं तेषां आधारा(माधास्यद्वि)विष्णुरव्ययः ॥३७॥ततश्च सार्धकोट्युच्चो महर्लोकस्त्वकर्मकः ।ततः कोटिद्वयोच्चस्थ जनोलोकः सुपूजितः ॥३८॥ततो सार्धद्विकोट्युच्चस्तपोलोकः सुचिद्गमः ।ततः कोट्युन्नतोयं सत्यलोकोति भासुरः ॥३९॥त्रिचतुः पञ्चषल्लक्षभूकन्दाज्ञानगोचरः ।नाभ्युत्थित महानालस्याग्रस्थे सत्यलोकगे(के) ॥४०॥ब्रह्मा चतुर्मुखो जातो विष्णुना सर्वलोकसृट् ।स्वर्लोकसविशेषार्थाः महरादिषु सन्तताः ॥४१॥अजरोत्पत्समानोरु नानामर्त्यगणाश्रयाः ।एतादृशं लोकपदमाध्याजार्धायुषोन्तिमे ॥४२॥दिने सृजद्धरिस्तत्र प्राकृतेनाभिमानिनी ।लोकोऽजस्य भुवः कोटित्रयोदशमितो मतः ॥४३॥इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे चतुर्दशोऽध्यायः N/A References : N/A Last Updated : January 15, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP